मामेव विजानीहि इति, एतदेव अहं मनुष्याय हिततमं मन्ये, यन्मां विजानीयात् । - कौषीतकिब्राह्मणोपनिषत् ३-१

मामेव विजानीहि । एतदेव अहं मनुष्याय हिततमं मन्ये यद् आत्मज्ञानम् ॥

ज्ञानिवरेण्यः देवेन्द्रः दैवोदासिप्रतर्दनं प्रति एतद् वचः उक्तवान् । 'मनुष्याणां हितं किम् ? कृपया उच्यताम्' इति
प्रतर्दनेन पृष्टः देवेन्द्रः एतद् वचः उक्तवान् । आत्मनः विज्ञानम् एकमेव मानवानां हितभूतम् ॥

बुद्धिमान् मानवः समस्तमेव विश्वं विज्ञातुकामः प्रयतते, यथाशक्ति विजानाति च । न तु एतद् आत्मज्ञानम् ।
न चैतत् हितं भवितुमर्हति । अनेन मुक्तिः न लभ्येत । तर्हि अत्यन्तं हितं किम् ? आत्मज्ञानमेव । आत्मा नाम
समस्तस्यापि विश्वस्य आस्पदभूतं, समस्तस्य विश्वस्य सारभूतं, विश्वरूपेणा अवभासमानं सर्वव्यापकं ब्रह्म ।
सर्वविकाररहितं परिशुद्धं ब्रह्मैव आत्मा । आत्मज्ञानादेव मुक्तिः । आत्मज्ञानमेकमेव मानवानाम् हिततमम् ॥

"https://sa.wikiquote.org/w/index.php?title=मामेव_विजानीहि_इति...&oldid=16355" इत्यस्माद् प्रतिप्राप्तम्