मार्जारदुग्धपानन्यायः

मार्जारः यदा दुग्धं पिबति तदा चक्षुषी निमील्य पिबति । तदा कस्यापि गमनम् आगमनं वा स न जानाति । नेत्रे निमीलिते इति कारणेन मां कोऽपि न पश्यति इति सः चिन्तयति । एवं यः कश्चन पापं करोति सोऽपि मार्जार इव व्यवहरति इति भावः ।