<poem> मा याहीत्यपमङ्गलं व्रज किल स्नेहेन शून्यं वचः तिष्ठेति प्रभुता यथा रुचि कुरुष्वात्राप्युदासीनता । नो जीवामि विना त्वयेति वचनं संभाव्यते वा न वा तन्मां शिक्षय भद्र यत्समुचितं वाक्यं त्वयि प्रस्थिते ॥

"https://sa.wikiquote.org/w/index.php?title=मा_याहीत्यपमङ्गलं&oldid=14238" इत्यस्माद् प्रतिप्राप्तम्