मीमांसान्यायः
मीमांसाशास्त्रे अनेके न्यायाः उपलभ्यन्ते । शास्त्रीये व्यवहारे तेषाम् अधिकप्रयोगः भवति । लौकिकन्यायानां वर्गे तेषाम् अन्तर्भावः यद्यपि अशक्यः तथापि क्वचित् तेषाम् उपयोगः लौकिसंदर्भे भवति इति कारणेन अत्र ते संगृह्यन्ते । परं तेषामत्र विवरणं शास्त्रीयं भूत्वा प्रकृतसंग्रहस्य प्रयोजनं बाधयेत् इति धिया लौकिकन्यायसाहस्रीगतानां मीमांसान्यायानां नामानि अत्र दीयन्ते ।
१. होलिकाधिकरणन्यायः, २. वाङ्नियमन्यायः, ३. दर्वीहोमन्यायः, ४. वाक्यार्थप्रतिपत्तिन्यायः, ५. अङ्गगुणनिषेधे तादर्थ्यादिति न्यायः ६. अनारभ्य अधीतानां प्रकृतौ वा द्विरुक्तत्वादिति भावः ७. यागानां दैक्षस्य च इतरेषु इति न्यायः, ८. पशुसोमाधिकरणन्यायः ९. निषादस्थपतिन्यायः, १०. प्रतिप्रधानं गुण आवर्तनीय इति न्यायः ११. गुणविरोधन्यायः , १२. अरुणाधिकरणन्यायः
एतेषाम् अन्येषामपि बहूनां मीमांसान्यायानाम् विषये म. म. पी.व्ही काणे रचिते धर्मशास्त्रे पञ्चमभागस्य द्वितीयं प्रकरणम् (पृष्ठसंख्या १३३९-१३५८) द्रष्टव्यम् ।