मुनिवरविकसित...


मुनिवरविकसितकविवरविलसित

मञ्जुलमञ्जूषा, सुन्दरसुरभाषा ।
अयि मातस्तव पोषणक्षमता
मम वचनातीता, सुन्दरसुरभाषा ॥


वेदव्यास-वाल्मीकि-मुनीनाम्
कालिदास-बाणादिकवीनाम् ।
पौराणिक-सामान्य-जनानाम्
जीवनस्य आशा, सुन्दरसुरभाषा ॥१॥


श्रुतिसुखनिनदे सकलप्रमोदे
स्मृतिहितवरदे सरसविनोदे ।
गति-मति-प्रेरक-काव्यविशारदे
तव संस्कृतिरेषा, सुन्दरसुरभाषा ॥२॥


नवरस-रुचिरालङ्कृति-धारा
वेदविषय-वेदान्त-विचारा ।
वैद्य-व्योम-शास्त्रादि-विहारा

विजयते धरायां, सुन्दरसुरभाषा ॥३॥
- नारायणभट्ट:


"https://sa.wikiquote.org/w/index.php?title=मुनिवरविकसित...&oldid=15194" इत्यस्माद् प्रतिप्राप्तम्