यः पृथिव्यां तिष्ठन्...

अन्तर्यामिणः पञ्च महिमानः

यः पृथिव्यां तिष्ठन्, पृथिव्याः अन्तरः, यं पृथिवी न वेद,
यस्य पृथिवी शरीरं, यः पृथिवीमन्तरो यमयति, एष ते
आत्मा अन्तर्यामी अमृतः । - बृहदारण्यकोपनिषत् ३-७-३

यः पृथिव्यां तिष्ठन्, पृथिव्याः अन्तरः, यं पृथिवी न वेद,
यस्य पृथिवी शरीरम्, यः पृथिवीम् अन्तरो यमयति, एष ते
आत्मा अन्तर्यामी अमृतः ।

अस्मिन् मन्त्रे अत्यन्तं सुन्दरतया अन्तर्यामिणः पञ्च लक्षणानि
उपदिष्टानि सन्ति । तानि च –

१. पृथिव्याः आधारत्वेन स्थितः अन्तर्यामी
२. पृथिव्याः अन्तः निहितः अन्तर्यामी
३. पृथिव्याः अगोचरभूतः अन्तर्यामी
४. पृथिवीशरीरः अन्तर्यामी
५. पृथिव्याः नियन्ता अन्तर्यामी

एवमेव पञ्चापि भूतानि, सकलानपि प्राणिनः संव्याप्य तेषां नियन्ता
यः स एव आत्मा “अन्तर्यामी” भवति ॥

"https://sa.wikiquote.org/w/index.php?title=यः_पृथिव्यां_तिष्ठन्...&oldid=16509" इत्यस्माद् प्रतिप्राप्तम्