यच्छेद्वाङ्मनसी प्राज्ञः...

अध्यात्मयोगस्य रहस्यमिदम् !

यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेत् ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत्, तद्यच्छेत् शान्त आत्मनि ॥ - काठकोपनिषत् १-३-१३

साधकः वागिन्द्रियं मनसि उपसंहरेत् । तन्मनः महति आत्मनि नियच्छेत् ।
तं महान्तमात्मानं शान्ते आत्मनि उपसंहरेत् ॥

देहेन्द्रियमनोबुद्धीः प्रत्यगात्मनि उपसंहरेत् । ईदृशः अध्यात्मयोगः उपदिष्टोऽत्र ।
इदं शरीरम् अचेतनम्, पञ्चभूतकार्यं च । इन्द्रियैरेव अयं देहः सर्वथा व्याप्तः ।
इन्द्रियैरेव हि देहस्य अस्तित्वम् ? तानि सर्वाणीन्द्रियाणि मन अधीनानि भवन्ति ।
मनसि सत्येव शरीरस्य इन्द्रियाणां च अस्तित्वम् । मनसः अभावे सर्वं निरर्थकमेव ।
इदं च मनः बुद्धितन्त्रम् । बुद्धिअधीनतया एव मनः स्वव्यापारं करोति । मनसः
स्वतन्त्रास्तित्वं नास्ति । बुद्धितन्त्रमेव मनः एषा व्यष्टिरूपा बुद्धिरपि समष्टिबुद्धिरूपस्य
हिरण्यगर्भस्य अंश एव । सः हिरण्यगर्भश्च प्रत्यगात्मनः आविर्भाव एव । ‘स
प्रत्यगात्मा अहमेव’ इति विवेकपुरस्सरम् अनुचिन्तनमेव अध्यात्मयोगस्य रहस्यम् ॥