यत्कर्म कुर्वतोऽस्य स्यात्...

सुभाषितम्

यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः ।
तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ।।

मनुस्मृतिः ४-१६१

yatkarma kurvato’sya syātparitoṣo’ntarātmanaḥ
tatprayatnena kurvīta viparītaṃ tu varjayet

पदच्छेदः

यत्, कर्म, कुर्वतः, अस्य, स्यात्, परितोषः, अन्तरात्मनः, तत्, प्रयत्नेन, कुर्वीत, विपरीतं, तु, वर्जयेत् ।


तात्पर्यम्

जनाः विभिन्नानि कार्याणि कुर्वन्ति । कीदृशानि कार्याणि कर्तव्यानि कीदृशानि न कर्तव्यानि इत्येतत् सर्वदा मनुष्यान् बाधते । यस्य कार्यस्य करणेन अन्तरात्मा तुष्यति तच्च कार्यम् अवश्यं करणीयम् । आनन्देन कर्तव्यं च । तस्य विरुद्धं कार्यं तन्नाम यस्य कार्यस्य करणेन अन्तरात्मनः सन्तोषः न भवति तत् कार्यं न करणीयम् ।


आङ्ग्लार्थः

The work which gives the satisfaction to this inner soul that work should be done diligently. But opposite should be avoided.