यत्र वा अन्यदिव स्यात्...

यत्र वा अन्यदिव स्यात् तत्र अन्यो अन्यत् पश्येत् । - बृहदारण्यकोपनिषत् ४-३-३१

यत्र ब्रह्मणि भिन्नमिव भवति, तत्र खलु अन्यः अन्यं पश्येत् ।

आत्मनो भिन्नं द्वैतं वस्तु यदा अनुवदति श्रुतिः, तदा ‘इव’ कारं प्रयुनक्ति । तत्त्वतः सर्वम् आत्मैव ।
परमार्थदृष्ट्या सम्यक् विचारिते सति आत्मनः भिन्नतया द्वैतं नाम वस्तु नास्त्येव । आत्मैव सत् अज्ञानिनाम्
अनात्मवस्तुरूपेण दृश्यते । स्वयम् एक एव विद्यमानोऽपि स्वप्ने स्वात्मभिन्नानि इव अनेकानि वस्तूनि उपलभते
खलु । भिन्नानि ‘इव’ इति ‘इव’ कारप्रयोगे परमार्थतः नैव भिन्नानि वस्तूनि इत्यर्थः ॥

द्वैतमिव दृश्यमानकाले प्रमातृप्रमाणप्रमेया दृश्यन्ते । प्रमाता प्रमेयं प्रमिनोति । द्वैतमिति त्रिपुटीभेदः । ज्ञानदृष्ट्या
सर्वम् आत्मैव । आत्मनः अभिन्नत्वेनैव इदं विश्वम् उपनिषत्सु प्रतिपाद्यते । आत्मैव प्रपञ्चरूपेण दृश्यते इत्यर्थः ।
विद्यमानं वस्तु आत्मैव एक इत्यर्थः ॥