यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति
तत् सुषुप्तम् । - माण्डूक्योपनिषत् ५

जीवः यदा यत्र न कञ्चन कामं कामयते, न कञ्चन स्वप्नं
पश्यति तदेव हि सुषुप्तं नाम ॥

वेदान्तेषु ‘अवस्थात्रयम्’ अधिकृत्य सुविस्तारं विचारः क्रियते ।
अवस्थात्रयं नाम जाग्रत, स्वप्नः, सुषुप्तिः इति एताः तिस्रो
अवस्थाः । अस्यां माण्डूक्योपनिषदि अवस्थात्रयविचारद्वारा
अवस्थारहितस्य आत्मनः स्वरूपः प्रतिपाद्यते ॥

अस्मिन् मन्त्रे सुषुप्तिस्वरूपम् उपदिश्यते । सुतरां सुप्तिः = सुषुप्तिः,
गाढनिद्रा । जाग्रतस्वप्नयोः यथा अनात्मविषयकाः कामा भवन्ति
तथा अस्यां निद्रायां न कोऽपि कामो विद्यते । निद्रावस्थायाम् इष्टानिष्टौ
वा अविद्याकामकर्माणि वा न हि विद्यन्ते । न च द्वैतदर्शनात्मकः
स्वप्नो निद्रायां भवति । सुषुप्तिः सर्वेषां समाना । जातिवर्णाश्रमभेदान्,
देशकालादिभेदान् च अतीत्य सुषुप्तौ सर्वेऽपि मानवाः समत्वेन ब्रह्मस्वरूपा
एव । सुषुप्तेर्महिमा अयम् ॥

"https://sa.wikiquote.org/w/index.php?title=यत्र_सुप्तो_न_कञ्चन...&oldid=16537" इत्यस्माद् प्रतिप्राप्तम्