यथाकामो भवति तत्क्रतुर्भवति, यत्क्रतुर्भवति तत् कर्म कुरुते, यत्कर्म
कुरुते तद् अभिसम्पद्यते । - बृहदारण्यकोपनिषत् ४-४-५

यादृशकामो भवति, तादृशसङ्कल्पः, यादृशसङ्कल्पो भवति, तादृशानि कर्माणि करोति;
यादृशकर्मा भवति तादृशानि फलानि अनुभवति ।

कामसङ्कल्पकर्मफलप्राप्तयो हि संसारचक्रम् । बीजानुगुणो वृक्षः । सर्वः पुरूषः काममय एव ।
कामवत्त्वादेव तदनुगुणं क्रतुं करोति । क्रतुर्नाम सङ्कल्पः । कामसङ्कल्पाः अन्योन्यं पूरकाः ।
सङ्कल्पानुगुण्येन कर्माणि करोति ॥

अविद्या एव हि कामानां मूलम् । स्वस्वरूपानवबोधो हि अविद्या नाम, आत्मानं संसारित्वेन
मिथ्यावबोधो हि अविद्या ? अविद्ययैव सङ्कल्पः, अविद्यया एव कर्माणि । सर्वथापि ‘यावत्कालम्
अविद्या तावत्कालं संसारः’ इति सिद्धम् । अविद्यास्थितिपर्यन्तमपि संसारस्य अनुवृत्तिरेव ।
आत्मज्ञानादेव संसारनिवृत्तिः । अविद्याकामकर्माणि आत्मज्ञानेन नश्यन्ति ॥

"https://sa.wikiquote.org/w/index.php?title=यथाकामो_भवति...&oldid=16517" इत्यस्माद् प्रतिप्राप्तम्