यथा कृताय विजिताय अधरेयाः संयन्ति, एवमेनम्
सर्वं तदभिसमेति । - छान्दोग्योपनिषत् ४-१-४

यथा विजिते कृते अधरेयाः सङ्ख्याः अन्तर्यन्ति, एवमेव
आत्मज्ञानस्य फले मोक्षे सर्वेषां कर्मोपासनानां सर्वाणि फलानि
अभिसंयन्ति ।

ज्ञानिपुङ्गवेन रैक्वेन प्रोक्तमेतद् वचः । रैक्वो नाम कश्चित्
सामान्यमनुष्यः यः शकटस्य अधस्तात् उपदिश्य पिटकं
कण्डूयमानः आसीत् । परमार्थतस्तु सः सर्वात्मभावसम्पन्नः
पूर्णज्ञानी एव सः । मोक्षमहिमानम् एवं वदति ॥

द्यूतक्रीडानियमानुसारेण कृत, त्रेता, द्वापर, कलिः इति चतस्रः
सङ्ख्या भवन्ति । तासु सङ्ख्यासु कृतसङ्खायां विजितायां
सत्याम् इतराः सर्वा अपि सङ्ख्याः ४+३+२+१=१० जिता एव
यथा भवन्ति, एवमेव परमात्मज्ञानवतः आत्मज्ञानिनः सर्वासां
प्रजानां सर्वाणि पुण्यकर्मफलानि पूर्णानि भवन्ति ।
सर्वात्मभावसम्पन्नस्य आत्मज्ञानिनः प्राप्यं फलमेव
नावशिष्यते । मोक्षे सर्वकर्मोपासनफलान्तर्भावः ॥

"https://sa.wikiquote.org/w/index.php?title=यथा_कृताय_विजिताय...&oldid=16378" इत्यस्माद् प्रतिप्राप्तम्