यथा मातृमान्, पितृमान्, आचार्यवान् ब्रूयात् । - बृहदारण्यकोपनिषत् ४-१-४

मातृमान् पितृमान् आचार्यवान् पुरुषः यथा ब्रूयात् तता अब्रवीत् ।

अयं मन्त्रः अत्र उपनिषदि पञ्चवारम् आम्नातः । मात्रा पित्रा तथा आचार्येण कृतसंस्कारस्य
मानवस्य योग्यताम् एषः मन्त्रः उपदिशति । जननीजनकगुरवः एकस्य मनुष्यस्य विकासाय,
संस्कारस्य योग्यतायाः कारणं भवन्ति खलु ?

शिशूनां मातैव प्रथमो गुरुः । मातुः आशीर्वादः अतीव मुख्यः । मातुः अनुशासनं सर्वेषामपि
अपेक्षितमेव । ततः पिता उपनयनादिसंस्कारं पुत्राय ददाति । जनकस्य मार्गदर्शनं तु पुत्राणाम्
अवश्यम् अपेक्षितमेव । अथ आचार्यस्य अनुग्रहः? आत्मज्ञानमार्गस्य प्रदर्शयिता प्रत्यक्षदैवतं
खलु आचार्यो नाम ? एवं त्रिभिरपि दर्शितमार्गस्य मानवस्य जन्म सार्थकमेव ।
मातृपितृसद्गुरुवचनानुसारिणः तादृशस्य पुरुषस्य वचसि प्रामाण्यं लभ्यते । तादृशं नरं लोकः
सगौरवं पश्यति । ज्ञातं वा भारतीयसंस्कृतेः वैभवम् ?

"https://sa.wikiquote.org/w/index.php?title=यथा_मातृमान्...&oldid=16516" इत्यस्माद् प्रतिप्राप्तम्