यथा सोम्य एकेन मृत्पिण्डेन...

यथा सोम्य एकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो नामधेयं
मृत्तिकेत्येव सत्यम् ॥ - छान्दोग्योपनिषत् ६-१-४

हे सोम्य, मृत्पिण्डेन एकेन ज्ञातेन सर्वं मृत्कार्यं यथा विदितं भवति, तथैव ब्रह्मणि एकस्मिन्
विदिते ब्रह्मकार्यम् इदं जगत् सर्वमपि विदितं भवति । यतः विकारो नाम वाचारम्भणम्,
नाममात्रम्, मृत्तिका इत्येव सत्यम् ॥

छान्दोग्योपनिषदः अयं मन्त्रः बहुमुख्यः । अस्य मन्त्रस्य उपदेशं वेदान्तेषु 'मृद्घटदृष्टान्तः' इति
कथयन्ति विद्वांसः । मृत् उपादानं कारणम्, घटघटिकादयः मृत्कार्याणि ॥

कारणभूतायां मृदि विदितायां सत्यां मृत्कार्यभूताः घटघटिकादयः सर्वेऽपि विदिता एव भवन्ति
खलु ? मृद् एव घटः, घटिका- इत्यादीनि नामानि । न तु घटघटिकादीनि मृदं विहाय, मृदः
भिन्नतया स्वतन्त्राणि सन्ति । कारणस्यैव रूपान्तरे सति कार्यमिति नाम भवति । कार्यं नाम
केवलं नाममात्रम्, न तु तादृशं वस्तु कारणाभिन्नतया सत्यतया वस्तुतः अस्ति ॥