यदन्तरन्यायः
एकस्मात् कार्यात् अनन्तरमेव कार्यान्तरं संपद्यते चेत् कार्यद्वयस्य कार्यकारणभावं निश्चीयते सर्वैः । प्रथमकार्यं द्वितीयकार्यस्य कारणम् द्वितीयं च प्रथमस्य कार्यम् इति कार्यकारणभावः भवति । स्नुषायाः आगमनानन्तरं किमपि मङ्गलं गृहे संजातं चेत् स्नुषायाः आगमनेन तत् जातम् इति भावयन्ति खलु ।