यदस्ति धपयोर्मध्ये
तदस्ति तव सन्निधौ।
तन्नास्ति मद्गृहे चैव
तदर्थमहमागतः॥

वर्णमालायां ध-प इत्येतयोः अक्षरयोः मध्ये यदस्ति तत् भवतः समीपे विद्यते । किन्तु मम समीपे न विद्यते ।
तस्य प्राप्त्यर्थम् अहम् आगतः अस्मि ।

उत्तरम्

धनम्
"https://sa.wikiquote.org/w/index.php?title=यदस्ति_धपयोर्मध्ये...&oldid=2619" इत्यस्माद् प्रतिप्राप्तम्