यदि मन्यसे सुवेदेति दभ्रमेवापि नूनम् । - केनोपनिषत् २-१

हे शिष्य, ‘अहं ब्रह्म सुवेद’ इति त्वं यदि मन्यसे, तर्हि तव तादृशं ज्ञानं दभ्रमेव, अल्पमेव ॥

'आत्मानमेव विजानीयात्, आत्मज्ञानादेव दुःखनिवृत्तिः मोक्षप्राप्तिश्च; आत्मनि अविज्ञाते मानवजन्मैव
व्यर्थं भवति' इत्यादि हि वेदान्तेषु तत्र तत्र उपदिश्यते । यदा मुमुक्षुजनाः ईदृशानि वाक्यानि शृण्वन्ति तदा
तेषां मनसि सहजतः एकं भ्रान्तिज्ञानं च उत्पद्येत यत् आत्मा नाम इतरदेववत्, अनात्मवस्तुवत् आत्मनो
भिन्नं वस्तु स्यादिति ॥

नैषा भावना साध्वी । अहं समुद्रं जानामि, नक्षत्राणि जानामि, अहं देवान् जानामि – इतिवत् नैवम्
आत्मज्ञानम् । यतो हि अयमात्मा ज्ञातुः स्वरूपमेव । ज्ञातुः स्वरूपभूतम्, ज्ञप्तिस्वरूपमेव सन्तम्
एनम् आत्मानं विषयतया अवबोद्धुं कथमिव सम्भवेत् ? तस्मात् आत्मावबोधो नाम आत्मस्वरूपेण
अवस्थितिरेव इत्यर्थः । आत्मनः आत्मत्वेन ज्ञानमेव आत्मज्ञानम् । इदमेव हि आत्मज्ञानस्य मर्म ॥

"https://sa.wikiquote.org/w/index.php?title=यदि_मन्यसे_सुवेदेति...&oldid=16336" इत्यस्माद् प्रतिप्राप्तम्