यद् वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि ॥ - केनोपनिषत् १-५

वागिन्द्रियं वाग्भिः यत् न वर्णयेत्, येनैव वागिन्द्रियमपि विषयीक्रियते, तदेव ‘ब्रह्म’ इति त्वं विद्धि ॥

वागिन्द्रियं नाम जिह्वा । रसमपि रुचिमपि जानाति इतिहेतुना इयं जिह्वा रसनेन्द्रियत्वेन ज्ञानेन्द्रियं
भवति; वचांसि वदतीतिहेतुना कर्मेन्द्रियमपि भवति । अस्य वागिन्द्रियस्य रसः वचः इति द्वयं विषयः ।
एवम् वागिन्द्रियम् अद्भुतमेव ॥

चक्षुर्भ्याम् अदृश्यान् श्रोत्राभ्याम् अश्राव्यान्, मनसाऽपि अचिन्त्यान् अत्यन्तसूक्ष्मातिसूक्ष्मान् विषयान्
अपि एतद् वागिन्द्रियं वर्णयेत् ! तस्माद् वागिन्द्रियस्य ‘असाध्यम्’ इति नास्त्येव ॥

तथापि एकस्मिन् विषये इदम् इन्द्रियम् आत्मनः सर्वथा पराजयम् अवश्यम् अभ्युपगच्छेदेव । कस्मिन्
विषये ? आत्मस्वरूपवर्णनविषये । तत् कथम् ? पश्याम । गुणा वा धर्मा वा आत्मनः नैव विद्यन्ते ।
वागिन्द्रियस्यापि चैतन्यभूतम्, वागिन्द्रियस्यापि अवभासकं प्रत्यगात्मानम् इदं वागिन्द्रियम् अवभासेत किम् ?

"https://sa.wikiquote.org/w/index.php?title=यद्_वाचाऽनभ्युदितं...&oldid=16337" इत्यस्माद् प्रतिप्राप्तम्