यन्मनसा न मनुते येनाहुर्मनो मतम् । - केनोपनिषत् १-६

यत् मनसा न मनुते, येनैव मनः मतम् आहुः तदेव ब्रह्म ।

भगवता मानवेभ्यः दत्ता श्रेष्ठा सम्पत् नाम मनः । मनो हि अद्भुतं करणम् ।
प्रत्यक्षप्रमाणानाम् अगोचराणि सूक्ष्माण्यपि वस्तूनि विजानीयात् इदं मनः ।
‘असाध्यम्’ इति मनसः नास्त्येव । ‘मनसि सति मार्गः’, ‘मनोऽनुसारी मार्गः’
इति हि प्रसिद्धम् । लोकान्तरस्य जन्मान्तरस्य च विचारान्, धर्माधर्मविचारान्
च मानवो मनसा विजानीयात् । सर्वथा, प्रपञ्चस्य सर्वेऽपि व्यवहाराः मनोविलासमात्रमेव
इत्युक्तेऽपि न असत्यमेतत् ॥

अपि तु, अहो, आत्मानं विज्ञातुम् अस्य मनसः सामर्थ्यं नास्ति । अत्र द्वौ हेतू
भवतः । आत्मा निर्गुणः इति प्रथमो हेतुः । गुणधर्मरहितमात्मानं मनः जानीयाद्वा ?
आत्मा मन एव प्रकाशते इति द्वितीयो हेतुः । चिन्मात्रस्वरूपेणा आत्मनैव हि इदं मनः
प्रकाश्यते । जडं तु मनः स्वतः न किञ्चित् कुर्यात् । आत्मैव सूत्रधारः । आत्मनः
अधीनतया एव मनः स्वव्यापारं करोति ॥

"https://sa.wikiquote.org/w/index.php?title=यन्मनसा_न_मनुते...&oldid=16338" इत्यस्माद् प्रतिप्राप्तम्