यववराहन्यायः
केषाञ्चन शब्दानां शिष्टभाषायां ग्रामीणभाषायां च भिन्नार्थाः भवन्ति । यव वराहशब्दौ उदाहरणरुपेण शास्त्रेषु दर्शितौ । यथाः यववराहादिकरणन्यायेन लोकप्रसिद्धिः शास्त्रीयप्रसिद्ध्या बाध्यते इत्याह । (आनन्दगिरिटीका – ब्रह्मसूत्रशाङ्करभाष्ये २-३-४५) जैमिनीयमीमांसादर्शने शास्त्रप्रसिद्धार्थ –प्रामाण्याधिकरणं किंवा आर्यम्लेच्छाधिकरणम् इति अधिकरणं विद्यते । कोलब्रूक महाशयेन मीमांसानिबन्धनामके ग्रन्थे कनिचन उदाहरणानि दत्तानि ।
शब्दः | शिष्टभाषायाम् अर्थः | म्लेच्छभाषायाम् अर्थः |
---|---|---|
यवः | यवः | प्रियङ्गुः |
वराहः | वराहः | गौः |
पीलुः | वृक्षविशेषः | गजः |
वेतसः | वृक्षविशेषः | जम्बुफलम् |
संस्कृतभाषायां तेलुगुभाषायां च ‘राजा’ इति शब्दस्य प्रयोगः क्रियते । तेलुगुभाषायां सः आदौ क्षत्रियवाचकः पश्चात् च जाति वाचकः अभवत् । मूलार्थः तथैव अस्ति तेन सह अन्यार्थः अपि जातः ।