यवागूद्रवस्य नियमपरिणामेन पानेन तृप्तिः आनन्दश्च भवति । तेन यवागूद्रवपूर्णे गर्ते तरणं करणीयम् इति केनापि न भाव्यते खलु । योग्यपरिमाणेन पदार्थस्य सेवनं स्वास्थ्यकारि भवतीति भावः । अस्य अर्थस्य कश्चन श्लोकः गीतायाम् अस्तिः <poem> युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ भगवद्गीतायाम् ॥६-१७

"https://sa.wikiquote.org/w/index.php?title=यवागूगर्तप्लवन्यायः&oldid=10852" इत्यस्माद् प्रतिप्राप्तम्