यस्तु सञ्चरते देशान्...

सुभाषितम्

यस्तु सञ्चरते देशान् यस्तु सेवेत पण्डितान् ।
तस्य विस्तारिता बुद्धिः तैलबिन्दुरिवाम्भसः ॥




तात्पर्यम्

यः देशविदेशेषु सञ्चरति, ज्ञानिनां सहवासं करोति तस्य बुद्धिः जले पतितः तैलबिन्दुः इव विस्तृतिं प्राप्नोति ।

"https://sa.wikiquote.org/w/index.php?title=यस्तु_सञ्चरते_देशान्...&oldid=14981" इत्यस्माद् प्रतिप्राप्तम्