यस्यामतं तस्य मतं, मतं यस्य न वेद सः । - केनोपनिषत् २-३

ब्रह्म यस्य ‘अमतं’ तस्यैव ‘मतम्’ । यस्य तु ‘मतम्’ सः ब्रह्म न वेद ॥

अयं मन्त्रः गूढार्थकः । तद्यथा, अजानतः ब्रह्म ज्ञातम्, जानतस्तु ब्रह्म न ज्ञातम् इति । अस्मिन् मन्त्रे
विरोधाभास इव दृश्यते । अस्य मंत्रस्य अन्तरार्थं पश्याम ॥

ब्रह्म प्रमाणागोचरम्, आत्मनो अभिन्नम्, न केनापि प्रमाणेन विषयीकृत्य ज्ञातुं शक्यम् इति यः जानाति
तस्यैव ब्रह्मतत्त्वं सम्यग्ज्ञातम् इत्यर्थः । यस्तु अज्ञः ब्रह्म सविशेषवस्तुत्वेन जानाति, प्रमाणैः विषयीकृत्य
अनात्मवस्तुवत् ज्ञातुं प्रयतते, तस्य ब्रह्मस्वरूपम् अज्ञातमेव इति वक्तव्यम् । स्वस्वरूपभूतस्य ब्रह्मणः ज्ञानं
नाम अहमेव ब्रह्मास्मि इति अनुभवावगतिरेव । ब्रह्मात्मावगतौ सत्यां प्रमातृप्रमाणप्रमेयाख्या त्रिपुटी न विद्यते ।
प्रमातृप्रमाणप्रमेय रूपाः सर्वेऽपि पदार्थाः ज्ञानेन ब्रह्मैव सम्पद्यन्ते इत्यर्थः ॥

"https://sa.wikiquote.org/w/index.php?title=यस्यामतं_तस्य_मतं...&oldid=16339" इत्यस्माद् प्रतिप्राप्तम्