यस्य नास्ति स्वयं प्रज्ञा...

सुभाषितम्

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥

चाणक्यनीतिः १०-९

yasya nāsti svayaṃ prajñā śāstraṃ tasya karoti kim ।
locanābhyāṃ vihīnasya darpaṇaḥ kiṃ kariṣyati ॥

पदच्छेदः

यस्य, नास्ति, स्वयं, प्रज्ञा, शास्त्रं, तस्य, करोति, किम्, लोचनाभ्यां, विहीनस्य, दर्पणः, किं, करिष्यति ॥


तात्पर्यम्

स्वयं बुद्धिः यस्य न भवेत् तस्य शास्त्रम् अप्रयोजकं भवति । अन्धस्य दर्पणेन किं प्रयोजनम् ?


आङ्ग्लार्थः

The scriptures are useless to one who does not have intelligence itself. What is the use of a mirror for the blind?