युद्धं च प्रातरुत्थानं...


सुभाषितम्

युद्धं च प्रातरुत्थानं भोजनं सह बन्धुभिः ।
स्त्रियमापद्गतां रक्षेत् चतुश्शिक्षेत कुक्कुटात् ।

चाणक्यनीतिशतकम् ७२

yuddhaṃ ca prātarutthānaṃ bhojanaṃ saha bandhubhiḥ ।
striyamāpadgatāṃ rakṣet catuśśikṣeta kukkuṭāt ।

पदच्छेदः

युद्धं, च, प्रातः, उत्थानं, बन्धुभिः, सह, भोजनं, आपद्गतां, स्त्रियं, रक्षेत्- (इति) कुक्कुटात् चतुः शिक्षेत ॥


तात्पर्यम्

युद्धकरणं, प्रातः शीघ्रमुत्थानं, बान्धवैः सह भोजनम्, आपत्तौ विद्यमानस्य स्त्रीकुलस्य रक्षणम् इत्येतान् चतुरः गुणान् कुक्कुटस्य सकाशात् ज्ञातव्यम् ।


आङ्ग्लार्थः

Fighting, waking up early in the morning, eating along with relatives, and (that) one should protect a woman in a difficulty- these four should be learnt from a cock.