युद्धकाण्ड
वाल्मीकि रामयणग्रन्थस्य भाग अस्ति।
प्रथमः सर्गः ॥६-१॥
सम्पाद्यताम्श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् । रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥ कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् । मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥ न हि तम् परिपश्यामि यस्तरेत महोदधिम् । अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥ देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् । अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥ प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् । को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥ यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः । भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥ एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च । यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥ कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् । यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥ भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् । नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥ भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् । तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥ न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः । अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥ वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः । इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥ यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् । एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥ मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः । इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥ हनुमन्तम् कृतात्मानम् क्R६इतवाक्यमुपागतम् । ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥ हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः । सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥ सागरम् तु समासाद्य पुनर्नष्टम् मनो मम । कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥ हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् । यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥ समुद्रपारगमने हरीणाम् किमिहोत्तरम् । इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥ हनूमन्तम् महाबाहुस्ततो ध्यानमुपागमत् ।
द्वितीयः सर्गः ॥६-२॥
सम्पाद्यताम्तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् । उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥ किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा । मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥६-२-२॥ सम्तापस्य च ते स्थानम् न हि पश्यामि राघव । प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥६-२-३॥ मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव । त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥६-२-४॥ सम्द्रम् लङ्घयित्वा तु महानक्रसमाकुलम् । लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥ निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः । सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६-२-६॥ इमे शूराः समर्थाश्च सर्वतो हरियूथपाः । त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥६-२-७॥ एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम । विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥६-२-८॥ रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि । सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥६-२-९॥ तस्य राक्षसराजस्य तथा त्वम् कुरु राघव । दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥६-२-१०॥ हतम् च रावणम् उद्धे दर्शनादवधारय । अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥६-२-११॥ लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः । सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥६-२-१२॥ सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय । इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥ तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् । पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥ यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् । तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥६-२-१५॥ अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा । शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥ विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः । तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥ मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि । न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥ गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे । वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥ अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् । तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥ निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति । लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥ सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय । लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥ सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् । इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥ तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः । कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥ हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण । किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥ निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ।
तृतीयः सर्गः ॥६-३॥
सम्पाद्यताम्सुग्रीवस्य वचः श्रुत्वा हेतुमत् परम अर्थवित् । प्रतिजग्राह काकुत्स्थो हनूमन्तम् अथ अब्रवीत् ॥६-३-१॥ तरसा सेतु बन्धेन सागर उच्चोषणेन वा । सर्वथा सुसमर्थो अस्मि सागरस्य अस्य लन्घने ॥६-३-२॥ कति दुर्गाणि दुर्गाया लंकायास् तद् ब्रवीहि मे । ज्ञातुम् इच्चामि तत् सर्वम् दर्शनाद् इव वानर ॥६-३-३॥ बलस्य परिमाणम् च द्वार दुर्ग क्रियाम् अपि । गुप्ति कर्म च लंकाया रक्षसाम् सदनानि च ॥६-३-४॥ यथा सुखम् यथावच् च लंकायाम् असि दृष्टवान् । सरम् आचक्ष्व तत्त्वेन सर्वथा कुशलो हि असि ॥६-३-५॥ श्रुत्वा रामस्य वचनम् हनूमान् मारुत आत्मजः । वाक्यम् वाक्यविदाम् श्रेष्ठो रामम् पुनर् अथ अब्रवीत् ॥६-३-६॥ श्रूयताम् सर्वम् आख्यास्ये दुर्ग कर्म विधानतः । गुप्ता पुरी यथा लंका रक्षिता च यथा बलैः ॥६-३-७॥ राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा । पराम् समृद्धिम् लंकायाः सागरस्य च भीमताम् ॥६-३-८॥ विभागम् च बल ओघस्य निर्देशम् वाहनस्य च । एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्ववित् ॥६-३-९॥ प्रहृष्टा मुदिता लंका मत्त द्विप समाकुला । महती रथ सम्पूर्णा रक्षो गण समाकुला ॥६-३-१०॥ दृढ बद्ध कवाटानि महापरिघवन्ति च । चत्वारि विपुलान्यस्या द्वाराणि सुमहान्ति ॥६-३-११॥ तत्रेषूपयन्त्राणि बलवन्ति महान्ति च । आगतम् पर सैन्यम् तैस् तत्र प्रतिनिवार्यते ॥६-३-१२॥ द्वारेषु सम्स्कृता भीमाः काल आयस मयाः शिताः । शतशो रोचिता वीरैः शतघ्न्यो रक्षसाम् गणैः ॥६-३-१३॥ सौवर्णः च महाम्स् तस्याः प्राकारो दुष्प्रधर्षणः । मणि विद्रुम वैदूर्य मुक्ता विचरित अन्तरः ॥६-३-१४॥ सर्वतः च महाभीमाः शीत तोया महाशुभाः । अगाधा ग्राहवत्यः च परिखा मीन सेविताः ॥६-३-१५॥ द्वारेषु तासाम् चत्वारः सम्क्रमाः परम आयताः । यन्त्रैर् उपेता बहुभिर् महद्भिर् दृढ सम्धिभिः ॥६-३-१६॥ त्रायन्ते सम्क्रमास् तत्र पर सैन्य आगमे सति । यन्त्रैस् तैर् अवकीर्यन्ते परिखासु समन्ततः ॥६-३-१७॥ एकस् त्व् अकम्प्यो बलवान् सम्क्रमः सुमहादृढः । काञ्चनैर् बहुभिः स्तम्भैर् वेदिकाभिः च शोभितः ॥६-३-१८॥ स्वयम् प्रकृति सम्पन्नो युयुत्सू राम रावणः । उत्थितः च अप्रमत्तः च बलानाम् अनुदर्शने ॥६-३-१९॥ लंका पुरी निरालम्बा देव दुर्गा भय आवहा । न अदेयम् पार्वतम् वन्यम् कृत्रिमम् च चतुर् विधम् ॥६-३-२०॥ स्थिता पारे समुद्रस्य दूर पारस्य राघव । नौ पथः च अपि न अस्ति अत्र निरादेशः च सर्वतः ॥६-३-२१॥ शैल अग्रे रचिता दुर्गा सा पूर् देव पुर उपमा । वाजि वारण सम्पूर्णा लंका परम दुर्जया ॥६-३-२२॥ परिघाः च शतघ्न्यः च यन्त्राणि विविधानि च । शोभयन्ति पुरीम् लंकाम् रावणस्य दुरात्मनः ॥६-३-२३॥ अयुतम् रक्षसाम् अत्र पश्चिम द्वारम् आश्रितम् । शूल हस्ता दुराधर्षाः सर्वे खड्ग अग्र योधिनः ॥६-३-२४॥ नियुतम् रक्षसाम् अत्र दक्षिण द्वारम् आश्रितम् । चतुर् अन्गेण सैन्येन योधास् तत्र अपि अनुत्तमाः ॥६-३-२५॥ प्रयुतम् रक्षसाम् अत्र पूर्व द्वारम् समाश्रितम् । चर्म खड्ग धराः सर्वे तथा सर्व अस्त्र कोविदाः ॥६-३-२६॥ न्यर्बुदम् रक्षसाम् अत्र उत्तर द्वारम् आश्रितम् । रथिनः च अश्व वाहाः च कुल पुत्राः सुपूजिताः ॥६-३-२७॥ शतम् शत सहस्राणाम् मध्यमम् गुल्मम् आश्रितम् । यातु धाना दुराधर्षाः साग्र कोटिः च रक्षसाम् ॥६-३-२८॥ ते मया सम्क्रमा भग्नाः परिखाः च अवपूरिताः । दग्धा च नगरी लंका प्राकाराः च अवसादिताः ॥६-३-२९॥ बलैकदेशः क्षपितो राक्षसानाम् महात्मनाम् । येन केन तु मार्गेण तराम वरुण आलयम् ॥६-३-३०॥ हता इति नगरी लंकाम् वानरैर् अवधार्यताम् । अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः ॥६-३-३१॥ नीलः सेना पतिः चैव बल शेषेण किम् तव । प्लवमाना हि गत्वा ताम् रावणस्य महापुरीम् ॥६-३-३२॥ सप्रकाराम् सभवनाम् आनयिष्यन्ति मैथिलीम् । सप्राकाराम् सभवनामानयुष्यन्ति राघव ॥६-३-३३॥ एवम् आज्ञापय क्षिप्रम् बलानाम् सर्व सम्ग्रहम् । मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय ॥६-३-३४॥
चतुर्थः सर्गः ॥६-४॥
सम्पाद्यताम्श्रुत्वा हनूमतो वाक्यम् यथावद् अनुपूर्वशः । ततो अब्रवीन् महातेजा रामः सत्य पराक्रमः ॥६-४-१॥ याम् निवेदयसे लंकाम् पुरीम् भीमस्य रक्षसः । क्षिप्रम् एनाम् वधिष्यामि सत्यम् एतद् ब्रवीमि ते ॥६-४-२॥ अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये । युक्तो मुहूर्तो विजयः प्राप्तो मध्यम् दिवा करः ॥६-४-३॥ सीताम् गृत्वा तु तद्यातु क्वासौ यास्यति जीवितः । सीता श्रुत्वाभियानम् मे आशामेष्यति जीविते ॥६-४-४॥ जीवितान्तेऽ मृतम् स्पृष्ट्वा पीत्वा विषमिवातुरः । उत्तरा फल्गुनी हि अद्य श्वस् तु हस्तेन योक्ष्यते ॥६-४-५॥ अभिप्रयाम सुग्रीव सर्व अनीक समावृताः । निमित्तानि च धन्यानि यानि प्रादुर् भवन्ति मे ॥६-४-६॥ निहत्य रावणम् सीताम् आनयिष्यामि जानकीम् । उपरिष्टाद्द् हि नयनम् स्फुरमाणम् इदम् मम ॥६-४-७॥ विजयम् समनुप्राप्तम् शम्सति इव मनो रथम् । ततो वाबरराहेब कज्श्मणेन सुपूजितः ॥६-४-८॥ उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः । अग्रे यातु बलस्य अस्य नीलो मार्गम् अवेक्षितुम् ॥६-४-९॥ वृतः शत सहस्रेण वानराणाम् तरस्विनाम् । फल मूलवता नील शीत कानन वारिणा । पथा मधुमता च आशु सेनाम् सेना पते नय ॥६-४-१०॥ दूषयेयुर् दुरात्मानः पथि मूल फल उदकम् ॥६-४-११॥ राक्षसाः परिरक्षेथास् तेभ्यस् त्वम् नित्यम् उद्यतः । निम्नेषु वन दुर्गेषु वनेषु च वन ओकसः ॥६-४-१२॥ अभिप्लुत्य अभिपश्येयुः परेषाम् निहतम् बलम् । यत्तु फल्गु बलम् किम्चित्तदत्रैवोपपद्यताम् ॥६-४-१३॥ एतद्धि कृत्यम् घोरम् नो विक्रमेण प्रयुज्यताम् । सागर ओघ निभम् भीमम् अग्र अनीकम् महाबलाः ॥६-४-१४॥ कपि सिम्हा प्रकर्षन्तु शतशो अथ सहस्रशः । गजः च गिरि सम्काशो गवयः च महाबलः ॥६-४-१५॥ गव अक्षः च अग्रतो यान्तु गवाम् दृप्ता इव ऋषभाः । यातु वानर वाहिन्या वानरः प्लवताम् पतिः ॥६-४-१६॥ पालयन् दक्षिणम् पार्श्वम् ऋषभो वानर ऋषभः । गन्ध हस्ती इव दुर्धर्षस् तरस्वी गन्ध मादनः ॥६-४-१७॥ यातु वानर वाहिन्याः सव्यम् पार्श्वम् अधिष्ठितः । यास्यामि बल मध्ये अहम् बल ओघम् अभिहर्षयन् ॥६-४-१८॥ अधिरुह्य हनूमन्तम् ऐरावतम् इव ईश्वरः । अन्गदेन एष सम्यातु लक्ष्मणः च अन्तक उपमः ॥६-४-१९॥ सार्वभौमेन भूत ईशो द्रविण अधिपतिस् यथा । जाम्बवामः च सुषेणः च वेग दर्शी च वानरः ॥६-४-२०॥ ऋक्ष राजो महासत्त्वः कुक्षिम् रक्षन्तु ते त्रयः । राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ॥६-४-२१॥ व्यादिदेश महावीर्यान् वानरान् वानर Rषभः । ते वानर गणाः सर्वे समुत्पत्य युयुत्सवः ॥६-४-२२॥ गुहाभ्यः शिखरेभ्यः च आशु पुप्लुविरे तदा । ततो वानर राजेन लक्ष्मणेन च पूजितः ॥६-४-२३॥ जगाम रामो धर्म आत्मा ससैन्यो दक्षिणाम् दिशम् । शतैः शत सहस्रैः च कोटीभिर् अयुतैर् अपि ॥६-४-२४॥ वारणाभिः च हरिभिर् ययौ परिव्Rतस् तदा । तम् यान्तम् अनुयाति स्म महती हरि वाहिनी ॥६-४-२५॥ हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः । आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-४-२६॥ क्ष्वेलन्तो निनदन्तः च जग्मुर् वै दक्षिणाम् दिशम् । भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ॥६-४-२७॥ उद्वहन्तो महावृक्षान् मन्जरी पुन्ज धारिणः । अन्योन्यम् सहसा दृष्टा निर्वहन्ति क्षिपन्ति च ॥६-४-२८॥ पतन्तः च उत्पतन्ति अन्ये पातयन्ति अपरे परान् । रावणो नो निहन्तव्यः सर्वे च रजनी चराः ॥६-४-२९॥ इति गर्जन्ति हरयो राघवस्य समीपतः । पुरस्ताद् ऋषभ्हो वीरो नीलः कुमुद एव च ॥६-४-३०॥ पथानम् शोधयन्ति स्म वानरैर् बहुभिः सह । मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ॥६-४-३१॥ बहुभिर् बलिभिर् भीमैर् व्Rताः शत्रु निबर्हणः । हरिः शत बलिर् वीरः कोटीभिर् दशभिर् वृतः ॥६-४-३२॥ सर्वाम् एको हि अवष्टभ्य ररक्ष हरि वाहिनीम् । कोटी शत परीवारः केसरी पनसो गजः ॥६-४-३३॥ अर्कः च अतिबलः पार्श्वम् एकम् तस्य अभिरक्षति । सुषेणो जाम्बवामः चैव ऋक्षैर् बहुभिर् आवृतः ॥६-४-३४॥ सुग्रीवम् पुरतः कृत्वा जघनम् सम्ररक्षतुः । तेषाम् सेना पतिर् वीरो नीलो वानर पुम्गवः ॥६-४-३५॥ सम्पतन् पतताम् श्रेष्ठस् तद् बलम् पर्यपालयत् । वलीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ॥६-४-३६॥ सर्वतः च ययुर् वीरास् त्वरयन्तः प्लवम् गमान् । एवम् ते हरि शार्दूला गच्चन्तो बल दर्पिताः ॥६-४-३७॥ अपश्यम्स् ते गिरि श्रेष्ठम् सह्यम् द्रुम लता युतम् । सागर ओघ निभम् भीमम् तद् वानर बलम् महत् ॥६-४-३८॥ रामस्य शासनम् ज्ञात्वा भीमकोपस्य भीतवत् । वर्जयन्नगराभ्याशाम्स्तथा जनपदानपि ॥६-४-३९॥ सागरौघनिभम् भीमम् तद्वानरबलम् महत् । निह्ससर्प महाघोषम् भीम वेग इव अर्णवः ॥६-४-४०॥ तस्य दाशरथेः पार्श्वे शूरास् ते कपि कुन्जराः । तूर्णम् आपुप्लुवुः सर्वे सद् अश्वा इव चोदिताः ॥६-४-४१॥ कपिभ्याम् उह्यमानौ तौ शुशुभते नर ऋषभौ । महद्भ्याम् इव सम्स्पृष्टौ ग्राहाभ्याम् चन्द्र भास्करौ ॥६-४-४२॥ ततो वानरराजेन लक्ष्मणेन सुपूजितः । जगाम रामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् ॥६-४-४३॥ तम् अन्गद गतो रामम् लक्ष्मणः शुभया गिरा । उवाच प्रतिपूर्ण अर्थः स्म्Rतिमान् प्रतिभानवान् ॥६-४-४४॥ हृताम् अवाप्य वैदेहीम् क्षिप्रम् हत्वा च रावणम् । समृद्ध अर्थः समृद्ध अर्थाम् अयोध्याम् प्रतियास्यसि ॥६-४-४५॥ महान्ति च निमित्तानि दिवि भूमौ च राघव । शुभान्ति तव पश्यामि सर्वाणि एव अर्थ सिद्धये ॥६-४-४६॥ अनु वाति शुभो वायुः सेनाम् मृदु हितः सुखः । पूर्ण वल्गु स्वराः च इमे प्रवदन्ति मृग द्विजाः ॥६-४-४७॥ प्रसन्नाः च दिशः सर्वा विमलः च दिवा करः । उशना च प्रसन्न अर्चिर् अनु त्वाम् भार्गवो गतः ॥६-४-४८॥ ब्रह्म राशिर् विशुद्धः च शुद्धाः च परम ऋषयः । अर्चिष्मन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् ॥६-४-४९॥ त्रिशन्कुर् विमलो भाति राज ऋषिः सपुरोहितः ॥६-४-५०॥ पितामह वरो अस्माकम् इष्क्वाकूणाम् महात्मनाम् । विमले च प्रकाशेते विशाखे निरुपद्रवे ॥६-४-५१॥ नक्षत्रम् परम् अस्माकम् इक्ष्वाकूणाम् महात्मनाम् । नैरृतम् नैरृतानाम् च नक्षत्रम् अभिपीड्यते ॥६-४-५२॥ मूलम् मूलवता स्प्Rष्टम् धूप्यते धूम केतुना । सरम् च एतद् विनाशाय राक्षसानाम् उपस्थितम् ॥६-४-५३॥ काले काल गृहीतानाम् नकत्रम् ग्रह पीडितम् । प्रसन्नाः सुरसाः च आपो वनानि फलवन्ति च । प्रवान्ति अभ्यधिकम् गन्धा यथा ऋतु कुसुमा द्रुमाः ॥६-४-५४॥ व्यूढानि कपि सैन्यानि प्रकाशन्ते अधिकम् प्रभो । देवानाम् इव सैन्यानि सम्ग्रामे तारकामये ॥६-४-५५॥ एवम् आर्य समीक्ष्य एतान् प्रीतो भवितुम् अर्हसि । इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत् ॥६-४-५६॥ अथ आव्Rत्य महीम् कृत्स्नाम् जगाम महती चमूः । ऋक्ष वानर शार्दूलैर् नख दम्ष्ट्र आयुधैर् वृता ॥६-४-५७॥ कर अग्रैः चरण अग्रैः च वानरैर् उद्धतम् रजः । भीमम् अन्तर् दधे लोकम् निवार्य सवितुः प्रभाम् ॥६-४-५८॥ सा स्म याति दिवा रात्रम् महती हरि वाहिनी । हृष्ट प्रमुदिता सेना सुग्रीवेण अभिरक्षिता ॥६-४-५९॥ उत्तरन्त्याश्च सेनायाः सततम् बहुयोजनम् । नदीस्रोताम्सि सर्वाणि सस्यन्दुर्विपरीतवत् ॥६-४-६०॥ सराम्सि विमलाम्भाम्सि द्रुमाकीर्णाम्श्च पर्वतान् । समान् भूमिप्रदेशाम्श्च वनानि फलवन्ति च ॥६-४-६१॥ मध्येन च समन्ताच्च वनानि फलवन्ति च । समावृत्य महीम् कृत्स्नाम् जगाम महती चमूः ॥६-४-६२॥ ते हृष्टवदनाह् सर्वे जग्मुर्मारुतरम्हसः । हरयो राघवस्यार्थे समारोपितविक्रमाः ॥६-४-६३॥ हर्षम् वीर्यम् बलोद्रेकाद्दर्शयन्तः परस्परम् । यौवनोत्सेकजाद्दर्पाद्विविधाम्श्चक्रुरध्वनि ॥६-४-६४॥ तत्र केचिद्द्रुतम् जग्मुरुत्पेतुश्च तथापरे । केचित्किलकिलाम् चक्रुर्वानरा वनगोचराः ॥६-४-६५॥ प्रास्फोटयम्श्च पुच्छानि सम्निजघ्नः पदान्यपि । भुजान्विक्षिप्य शैलाम्श्च द्रुमानन्ये बभञ्जरे ॥६-४-६६॥ आरोहन्तश्च शृङ्गाणि गिरीणाम् गिरिगोचराः । महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिते ॥६-४-६७॥ ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः । जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥६-४-६८॥ ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः । वानराणाम् सुघोराणाम् श्रीमत्परिवृता मही ॥६-४-६९॥ सा स्म याति दिवारात्रम् महती हरिवाहिनी । प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः ॥६-४-७०॥ वनरास् त्वरितम् यान्ति सर्वे युद्ध अभिनन्दनः । मुमोक्षयिषवः सीताम् मुहूर्तम् क्व अपि न आसत ॥६-४-७१॥ ततः पादप सम्बाधम् नाना मृग समाकुलम् । सह्य पर्वतम् आसेदुर् मलयम् च मही धरम् ॥६-४-७२॥ काननानि विचित्राणि नदी प्रस्रवणानि च । पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च ॥६-४-७३॥ चम्पकाम्स् तिलकामः चूतान् अशोकान् सिन्दु वारकान् । तिनिशान् करवीरामः च तिमिशान् भन्जन्ति स्म प्लवम् गमाः ॥६-४-७४॥ अशोकाम्श्च करञ्जाम्श्च प्लक्षन्य्ग्रोधपादपान् । जम्बूकामलकान्नागान् भजन्ति स्म प्लवङ्गमाः ॥६-४-७५॥ प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति ताम् ॥६-४-७६॥ मारुतः सुखसम्स्पर्शोओ वाति चन्दनशीतलः । षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥६-४-७७॥ अधिकम् शैलराजस्तु धातुभिस्तु विभूसितः । धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घुट्टितः ॥६-४-७८॥ सुमहद्वानरानीकम् चादयामास सर्वतः । गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ॥६-४-७९॥ केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः । माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिता ॥६-४-८०॥ चिरबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा । रञ्जकास्तिलकाश्चैव नागवृक्षश्च पुष्पिता ॥६-४-८१॥ चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः । मुचुलिन्दार्जुनाश्चैव शिम्शपाः कुटजास्तथा ॥६-४-८२॥ हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा ॥६-४-८३॥ नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा । प्रीयमाणैः प्लवम्गैस्तु सर्वे पर्याकुलीकृताः ॥६-४-८४॥ व्यास्तिस्मिन् गिरौ रम्याः पल्वलानि तथैव च । चक्रवाकानुचरिताः कारण्डवनिषेविताः ॥६-४-८५॥ प्लवैः क्रौञ्चे सम्कीर्णा वराहमृगसेविताः । ऋक्षैस्तरक्षुभिः सिम्हैः शार्दूलैश्च भयावहैः ॥६-४-८६॥ व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः । पद्मेः सौगन्धिकैः पुल्लैः सेव्यमानाः समन्ततः ॥६-४-८७॥ वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः । तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥६-४-८८॥ स्नात्वा पीत्वोदकान्यत्र जले क्रीदन्ति वानराः । अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानराः ॥६-४-८९॥ फलानि अमृत गन्धीनि मूलानि कुसुमानि च । बुभुजुर् वानरास् तत्र पादपानाम् बल उत्कटाः ॥६-४-९०॥ द्रोण मात्र प्रमाणानि लम्बमानानि वानराः । ययुः पिबन्तो हृष्टास् ते मधूनि मधु पिन्गलाः ॥६-४-९१॥ पादपान् अवभन्जन्तो विकर्षन्तस् तथा लताः । विधमन्तो गिरि वरान् प्रययुः प्लवग ऋषभाः ॥६-४-९२॥ वृक्षेभ्यो अन्ये तु कपयो नर्दन्तो मधु दर्पिताः । अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्ति अपि च अपरे ॥६-४-९३॥ बभूव वसुधा तैस् तु सम्पूर्णा हरि पुम्गवैः । यथा कमल केदारैः पक्वैर् इव वसुम् धरा ॥६-४-९४॥ महाइन्द्रम् अथ सम्प्राप्य रामो राजीव लोचनः । अध्यारोहन् महाबाहुः शिखरम् द्रुम भूषितम् ॥६-४-९५॥ ततः शिखरम् आरुह्य रामो दशरथ आत्मजः । कूर्म मीन समाकीर्णम् अपश्यत् सलिल आशयम् ॥६-४-९६॥ ते सह्यम् समतिक्रम्य मलयम् च महागिरिम् । आसेदुर् आनुपूर्व्येण समुद्रम् भीम निह्स्वनम् ॥६-४-९७॥ अवरुह्य जगाम आशु वेला वनम् अनुत्तमम् । रामो रमयताम् श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥६-४-९८॥ अथ धौत उपल तलाम् तोय ओघैः सहसा उत्थितैः । वेलाम् आसाद्य विपुलाम् रामो वचनम् अब्रवीत् ॥६-४-९९॥ एते वयम् अनुप्राप्ताः सुग्रीव वरुण आलयम् । इह इदानीम् विचिन्ता सा या न पूर्वम् समुत्थिता ॥६-४-१००॥ अतः परम् अतीरो अयम् सागरः सरिताम् पति । न च अयम् अनुपायेन शक्यस् तरितुम् अर्णवः ॥६-४-१०१॥ तद् इह एव निवेशो अस्तु मन्त्रः प्रस्तूयताम् इह । यथा इदम् वानर बलम् परम् पारम् अवाप्नुयात् ॥६-४-१०२॥ इति इव स महाबाहुः सीता हरण कर्शितः । रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा ॥६-४-१०३॥ सर्वाः सेना निवेश्यन्ताम् वेलायाम् हरिपुङ्गव । सम्प्राप्तो मन्त्र कालो नः सागरस्य इह लन्घने ॥६-४-१०४॥ स्वाम् स्वाम् सेनाम् समुत्स्Rज्य मा च कश्चित् कुतो व्रजेत् । गच्चन्तु वानराः शूरा ज्ञेयम् चन्नम् भयम् च नः ॥६-४-१०५॥ रामस्य वचनम् श्रुत्वा सुग्रीवः सह लक्ष्मणः । सेनाम् न्यवेशयत् तीरे सागरस्य द्रुम आयुते ॥६-४-१०६॥ विरराज समीपस्थम् सागरस्य तु तद् बलम् । मधु पाण्डु जलः श्रीमान् द्वितीय इव सागरः ॥६-४-१०७॥ वेला वनम् उपागम्य ततस् ते हरि पुम्गवाः । विनिविष्टाः परम् पारम् कान्क्षमाणा महाउदधेः ॥६-४-१०८॥ तेषाम् निविशमानानाम् सैन्यसम्नाहनिःस्वनः । अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥६-४-१०९॥ सा महाअर्णवम् आसाद्य ह्Rष्टा वानर वाहिनी । त्रिधा निविष्टा महती रामस्यार्थपराभवत् ॥६-४-११०॥ सा महार्णवमासाद्य हृष्टा वानरवाहिनी । वायु वेग समाधूतम् पश्यमाना महाअर्णवम् ॥६-४-१११॥ दूर पारम् असम्बाधम् रक्षो गण निषेवितम् । पश्यन्तो वरुण आवासम् निषेदुर् हरि यूथपाः ॥६-४-११२॥ चण्ड नक्र ग्रहम् घोरम् क्षपा आदौ दिवस क्षये । हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥६-४-११३॥ चन्द्र उदये समाधूतम् प्रतिचन्द्र समाकुलम् । चण्ड अनिल महाग्राहैः कीर्णम् तिमि तिमिम्गिलैः ॥६-४-११४॥ दीप्त भोगैर् इव आक्रीर्णम् भुजम्गैर् वरुण आलयम् । अवगाढम् महासत्तैर् नाना शैल समाकुलम् ॥६-४-११५॥ सुदुर्गम् द्रुगम् अमार्गम् तम् अगाधम् असुर आलयम् । मकरैर् नाग भोगैः च विगाढा वात लोहिताः ॥६-४-११६॥ उत्पेतुः च निपेतुः च प्रवृद्धा जल राशयः । अग्नि चूर्णम् इव आविद्धम् भास्कर अम्बु मनो रगम् ॥६-४-११७॥ सुर अरि विषयम् घोरम् पाताल विषमम् सदा । सागरम् च अम्बर प्रख्यम् अम्बरम् सागर उपमम् । सागरम् च अम्बरम् च इति निर्विशेषम् अदृश्यत ॥६-४-११८॥ सम्पृक्तम् नभसा हि अम्भः सम्प्Rक्तम् च नभो अम्भसा ॥६-४-११९॥ ताद्Rग् रूपे स्म द्Rश्येते तारा रत्न समाकुले । समुत्पतित मेघस्य वीच्चि माला आकुलस्य च । विशेषो न द्वयोर् आसीत् सागरस्य अम्बरस्य च ॥६-४-१२०॥ अन्योन्यैर् आहताः सक्ताः सस्वनुर् भीम निह्स्वनाः ॥६-४-१२१॥ ऊर्मयः सिन्धु राजस्य महाभेर्य इव आहवे । रत्न ओघ जल सम्नादम् विषक्तम् इव वायुना ॥६-४-१२२॥ उत्पतन्तम् इव क्रुद्धम् यादो गण समाकुलम् । ददृशुस् ते महात्मानो वात आहत जल आशयम् ॥६-४-१२३॥ अनिल उद्धूतम् आकाशे प्रवल्गतम् इव ऊर्मिभिः । ततो विस्मयामापन्ना हरयो ददृशुः स्थिताः ॥६-४-१२४॥ ब्रान्त ऊर्मि जल सम्नादम् प्रलोलम् इव सागरम् ।
पञ्चमः सर्गः ॥६-५॥
सम्पाद्यताम्सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता । सागरस्य उत्तरे तीरे साधु सेना विनिएशिता ॥६-५-१॥ मैन्दः च द्विविधः च उभौ तत्र वानर पुम्गवौ । विचेरतुः च ताम् सेनाम् रक्षा अर्थम् सर्वतो दिशम् ॥६-५-२॥ निविष्टायाम् तु सेनायाम् तीरे नद नदी पतेः । पार्श्वस्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् ॥६-५-३॥ शोकः च किल कालेन गच्चता हि अपगच्चति । मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥६-५-४॥ न मे दुह्खम् प्रिया दूरे न मे दुह्खम् हृता इति च । तद् एव अनुशोचामि वयो अस्या हि अतिवर्तते ॥६-५-५॥ वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश । त्वयि मे गात्र सम्स्पर्शः चन्द्रे दृष्टि समागमः ॥६-५-६॥ तन् मे दहति गात्राणि विषम् पीतम् इव आशये । हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत् ॥६-५-७॥ तद् वियोग इन्धनवता तच् चिन्ता विपुल अर्चिषा । रात्रिम् दिवम् शरीरम् मे दह्यते मदन अग्निना ॥६-५-८॥ अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना । कथम्चित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥६-५-९॥ बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् । यद् अहम् सा च वाम ऊरुर् एकाम् धरणिम् आश्रितौ ॥६-५-१०॥ केदारस्य इव केदारः स उदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥६-५-११॥ कदा तु खलु सुस्शोणीम् शत पत्र आयत ईक्षणाम् । विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥६-५-१२॥ कदा नु चारु बिम्ब ओष्ठम् तस्याः पद्मम् इव आननम् । ईषद् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥६-५-१३॥ तौ तस्याः सम्हतौ पीनौ स्तनौ ताल फल उपमौ । कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः ॥६-५-१४॥ सा नूनम् असित अपान्गी रक्षो मध्य गता सती । मन् नाथा नाथ हीना इव त्रातारम् न अधिगच्चति ॥६-५-१५॥ कदा विक्षोभ्य रक्षाम्सि सा विधूय उत्पतिष्यति । राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥६-५-१६॥ अविक्षोभ्याणि रक्षाम्सि सा विधूयोत्पतिष्यति । विधूय जलदान् नीलान् शशि लेखा शरत्स्व् इव ॥६-५-१७॥ स्वभाव तनुका नूनम् शोकेन अनशनेन च । भूयस् तनुतरा सीता देश काल विपर्ययात् ॥६-५-१८॥ कदा नु राक्षस इन्द्रस्य निधाय उरसि सायकान् । सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥६-५-१९॥ कदा नु खलु माम् साध्वी सीता अमर सुता उपमा । स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्दजम् जलम् ॥६-५-२०॥ कदा शोकम् इमम् घोरम् मैथिली विप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्ल इतरम् यथा ॥६-५-२१॥ एवम् विलपतस् तस्य तत्र रामस्य धीमतः । दिन क्षयान् मन्द वपुर् भास्करो अस्तम् उपागमत् ॥६-५-२२॥ आश्वासितो लक्ष्मणेन रामः सम्ध्याम् उपासत । स्मरन् कमल पत्र अक्षीम् सीताम् शोक आकुली कृतः ॥६-५-२३॥
षष्ठः सर्गः ॥६-६॥
सम्पाद्यताम्लंकायाम् तु कृतम् कर्म घोरम् दृष्ट्वा भव आवहम् । राक्षस इन्द्रो हनुमता शक्रेण इव महात्मना ॥६-६-१॥ अब्रवीद् राक्षसान् सर्वान् ह्रिया किम्चिद् अवान् मुखः । धर्षिता च प्रविष्टा च लंका दुष्प्रसहा पुरी ॥६-६-२॥ तेन वानर मात्रेण दृष्टा सीता च जानकी । प्रसादो धर्षितः चैत्यः प्रवरा राक्षसा हताः ॥६-६-३॥ आविला च पुरी लंका सर्वा हनुमता कृता । किम् करिष्यामि भद्रम् वः किम् वा युक्तम् अनन्तरम् ॥६-६-४॥ उच्यताम् नः समर्थम् यत् कृतम् च सुकृतम् भवेत् । मन्त्र मूलम् हि विजयम् प्राहुर् आर्या मनस्विनः ॥६-६-५॥ तस्माद् वै रोचये मन्त्रम् रामम् प्रति महाबलाः । त्रिविधाः पुरुषा लोके उत्तम अधम मध्यमाः ॥६-६-६॥ तेषाम् तु समवेतानाम् गुण दोषम् वदामि अहम् । मन्त्रिभिर् हित सम्युक्तैः समर्थैर् मन्त्र निर्णये ॥६-६-७॥ मित्रैर् वा अपि समान अर्थैर् बान्धवैर् अपि वा हितैः । सहितो मन्त्रयित्वा यः कर्म आरम्भान् प्रवर्तयेत् ॥६-६-८॥ दैवे च कुरुते यत्नम् तम् आहुः पुरुष उत्तमम् । एको अर्थम् विम्Rशेद् एको धर्मे प्रकुरुते मनः ॥६-६-९॥ एकः कार्याणि कुरुते तम् आहुर् मध्यमम् नरम् । गुण दोषाव् अनिश्चित्य त्यक्त्वा दैव व्यपाश्रयम् ॥६-६-१०॥ करिष्यामि इति यः कार्यम् उपेक्षेत् स नर अधमः । यथा इमे पुरुषा नित्यम् उत्तम अधम मध्यमाः ॥६-६-११॥ एवम् मन्त्रो अपि विज्ञेय उत्तम अधम मध्यमः । ऐकमत्यम् उपागम्य शास्त्र दृष्टेन चक्षुषा ॥६-६-१२॥ मन्त्रिणो यत्र निरस्तास् तम् आहुर् मन्त्रम् उत्तमम् । बह्व्यो अपि मतयो गत्वा मन्त्रिणो हि अर्थ निर्णये ॥६-६-१३॥ पुनर् यत्र एकताम् प्राप्तः स मन्त्रो मध्यमः स्मृतः । अन्योन्य मतिम् आस्थाय यत्र सम्प्रतिभाष्यते ॥६-६-१४॥ न च ऐकमत्ये श्रेयो अस्ति मन्त्रः सो अधम उच्यते । तस्मात् सुमन्त्रितम् साधु भवन्तो मन्त्रि सत्तमाः ॥६-६-१५॥ कार्यम् सम्प्रतिपद्यन्ताम् एतत् कृत्यतमम् मम । वानराणाम् हि वीराणाम् सहस्रैः परिवारितः ॥६-६-१६॥ रामो अभ्येति पुरीम् लंकाम् अस्माकम् उपरोधकः । तरिष्यति च सुव्यक्तम् राघवः सागरम् सुखम् ॥६-६-१७॥ तरसा युक्त रूपेण सानुजः सबल अनुगः । समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा॥६-६-१८॥ तस्मिन्न् एवम् गते कार्ये विरुद्धे वानरैः सह । हितम् पुरे च सैन्ये च सर्वम् सम्मन्त्र्यताम् मम ॥६-६-१९॥
सप्तमः सर्गः ॥६-७॥
सम्पाद्यताम्इति उक्ता राक्षस इन्द्रेण राक्षसास्ते महाबलाः । ऊचुः प्रान्जलयः सर्वे रावणम् राक्षस ईश्वरम् ॥६-७-१॥ द्विष्त्पक्ष्ह्मविज्ञाय नीतिबाह्यास्त्वबुद्धयः । राजन् परिघ शक्ति ऋष्टि शूल पट्टस सम्कुलम् ॥६-७-२॥ सुमहन् नो बलम् कस्माद् विषादम् भजते भवान् । त्वया भोगवतीम् गत्वा निर्जताः पन्नगा युधि ॥६-७-३॥ कैलास शिखर आवासी यक्षैर् बहुभिर् आवृतः । सुमहत् कदनम् कृत्वा वश्यस् ते धनदः कृतः ॥६-७-४॥ स महाईश्वर सख्येन श्लाघमानस् त्वया विभो । निर्जितः समरे रोषाल् लोक पालो महाबलः ॥६-७-५॥ विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च । त्वया कैलास शिखराद् विमानम् इदम् आहृतम् ॥६-७-६॥ मयेन दानव इन्द्रेण त्वद् भयात् सख्यम् इच्चता । दुहिता तव भार्या अर्थे दत्ता राक्षस पुम्गव ॥६-७-७॥ दानव इन्द्रो मधुर् नाम वीर्य उत्सिक्तो दुरासदः । विगृह्य वशम् आनीतः कुम्भीनस्याः सुख आवहः ॥६-७-८॥ निर्जितास् ते महाबाहो नागा गत्वा रसा तलम् । वासुकिस् तक्षकः शन्खो जटी च वशम् आहृताः ॥६-७-९॥ अक्षया बलवन्तः च शूरा लब्ध वराः पुनः । त्वया सम्वत्सरम् युद्ध्वा समरे दानवा विभो ॥६-७-१०॥ स्व बलम् समुपाश्रित्य नीता वशम् अरिम् दम । मायाः च अधिगतास् तत्र बहवो राक्षस अधिप ॥६-७-११॥ शूराः च बलवन्तः च वरुणस्य सुता रणे । निर्जितास् ते महाबाग चतुर् विध बल अनुगाः ॥६-७-१२॥ मृत्यु दण्ड महाग्राहम् शाल्मलि द्वीप मण्डितम् । कालपाशमहाईचिम् यमकिम्करपन्नगम् ॥६-७-१३॥ महाज्वरेण दुर्धर्षम् यमलोकमहार्णवम् । अवगाह्य त्वया राजन् यमस्य बल सागरम् ॥६-७-१४॥ जयः च विप्लुलः प्राप्तो मृत्युः च प्रतिषेधितः । सुयुद्धेन च ते सर्वे लोकास् तत्र सुतोषिताः ॥६-७-१५॥ क्षत्रियैर् बहुभिर् वीरैः शक्र तुल्य पराक्रमैः । आसीद् वसुमती पूर्णा महद्भिर् इव पादपैः ॥६-७-१६॥ तेषाम् वीर्य गुण उत्साहैर् न समो राघवो रणे । प्रसह्य ते त्वया राजन् हताः परम दुर्जयाः ॥६-७-१७॥ तिष्ठ वा किम् महाराज श्रमेण तव वानरान् । अयमेको महारज इन्द्रजित् क्षपयिष्यति ॥६-७-१८॥ अनेन हि महाराज महेश्वरमनुत्तमम् । इष्ट्वा यज्ञम् वरो लब्धो लोके परमदुर्लभः ॥६-७-१९॥ शक्तितोमरमीनम् च विनिकीर्णान्त्रशैवलम् । गजकच्चपसम्बाधम्श्वमण्डूकसम्कुलम् ॥६-७-२०॥ रुद्रादित्यमहाग्राहम् मरुद्वसुमहोरगम् । रथश्वगजतोयौघम् पदातिपुलिनम् महत् ॥६-७-२१॥ अनेन हि समासाद्य देवानाम् बलसागम् । गृहीतो दैवतपतिर्लङ्काम् चापि प्रवेशितः ॥६-७-२२॥ पीतामहनियोगाच्च मुक्तः शम्बरवृत्रहा । गतस्त्रिविष्टपम् राजन् सर्वदेवनमस्कृतः ॥६-७-२३॥ तमेव त्वम् महाराज विसृजेन्द्रजितम् सुतम् । यावद्वानरसेनाम् ताम् परामाम् नयति क्ष्हयम् ॥६-७-२४॥ राजन् न आपद् अयुक्ता इयम् आगता प्राकृताज् जनात् । हृदि न एव त्वया कार्या त्वम् वधिष्यसि राघवम् ॥६-७-२५॥
अष्टमः सर्गः ॥६-८॥
सम्पाद्यताम्ततो नील अम्बुद निभः प्रहस्तो नाम राक्षसः । अब्रवीत् प्राञ्जलिर् वाक्यम् शूरः सेना पतिस्तदा ॥६-८-१॥ देव दानव गन्धर्वाः पिशाचपतगौरगाः । न त्वाम् धर्षयितुम् शक्ताः किम् पुनर् वानरा रणे ॥६-८-२॥ सर्वे प्रमत्ता विश्वस्ता वन्चिताः स्म हनूमता । न हि मे जीवतो गच्चेज् जीवन् स वन गोचरः ॥६-८-३॥ सर्वाम् सागर पर्यन्ताम् सशैल वन काननाम् । करोमि अवानराम् भूमिम् आज्ञापयतु माम् भवान् ॥६-८-४॥ रक्षाम् चैव विधास्यामि वानराद् रजनी चर । न आगमिष्यति ते दुह्खम् किम्चिद् आत्म अपराधजम् ॥६-८-५॥ अब्रवीत्तम् सुसम्क्रुद्धो दुर्मुखो नाम राक्षसः । इदम् न क्षमणीयम् हि सर्वेषाम् नः प्रधर्षणम् ॥६-८-६॥ अयम् परिभवो भूयः पुरस्य अन्तः पुरस्य च । श्रीमतो राक्षस इन्द्रस्य वानर इन्द्र प्रधर्षणम् ॥६-८-७॥ अस्मिन् मुहूर्ते हत्वा एको निवर्तिष्यामि वानरान् । प्रविष्टान् सागरम् भीमम् अम्बरम् वा रसा तलम् ॥६-८-८॥ ततो अब्रवीत् सुसम्क्रुद्धो वज्र दम्ष्ट्रो महाबलः । प्रगृह्य परिघम् घोरम् माम्स शोणित रूपितम् ॥६-८-९॥ किम् नो हनुमता कार्यम् कृपणेन तपस्विना । रामे तिष्ठति दुर्धर्षे सुग्रीवे सह लक्ष्मणे ॥६-८-१०॥ अद्य रामम् ससुग्रीवम् परिघेण सलक्ष्मणम् । आगमिष्यामि हत्वा एको विक्षोभ्य हरि वाहिनीम् ॥६-८-११॥ इदम् ममापरम् वाक्यम् शृणु राजन्यदीच्चसि । उपायकुशलो ह्येव जयेच्चत्रुनतन्द्रितः ॥६-८-१२॥ कामरूपधराः शूराः सुभीमा भीमदर्शनाः । राक्षसा वा सहस्राणि राक्षसाधिप निश्चिताः ॥६-८-१३॥ काकुत्थ्समुपसम्गम्य बिभ्रतो मानुषम् वपुः । सर्वे ह्यसम्भ्रमा भूत्वा ब्रुवन्तु रघुसत्तमम् ॥६-८-१४॥ प्रेषिता भरतेनैव भ्रात्रा तव यवीयसा । स हि सेनाम् समुत्थाप्य क्षिप्रमेवोपयास्यति ॥६-८-१५॥ ततो वयमितस्तुर्णम् शूलशक्तिगदाधराः । चापबाणासिहस्तश्च त्वरितास्तत्र यामहे ॥६-८-१६॥ आकाशे गणशः स्थित्वा हत्वा ताम् हरिवाहिनीम् । अश्मशस्त्रमहावृष्ट्वा प्रापयाम् यमक्षयम् ॥६-८-१७॥ एवम् चेदुपसर्पेतामनयम् रामलक्ष्मणौ । अवश्यमपनीतेन जहतामेव जीवितम् ॥६-८-१८॥ कौम्भकर्णिस् ततो वीरो निकुम्भो नाम वीर्यवान् । अब्रवीत् परम कुर्द्धो रावणम् लोक रावणम् ॥६-८-१९॥ सर्वे भवन्तस् तिष्ठन्तु महाराजेन सम्गताः । अहम् एको हनिष्यामि राघवम् सह लक्ष्मणम् ॥६-८-२०॥ सुग्रीवम् सहनूमन्तम् सर्वाम्श्चैवात्र वानरान् । ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः ॥६-८-२१॥ क्रुद्धः परिलिहन् वक्त्रम् जिह्वया वाक्यम् अब्रवीत् । स्वैरम् कुर्वन्तु कार्याणि भवन्तो विगत ज्वराः ॥६-८-२२॥ एको अहम् भक्षयिष्यामि तान् सर्वान् हरि यूथपान् । स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधु वारुणीम् ॥६-८-२३॥ अहम् एको हनिष्यामि सुग्रीवम् सह लक्ष्मणम् । स अन्गदम् च हनूमन्तम् रामम् च रण कुन्जरम् ॥६-८-२४॥
नवमः सर्गः ॥६-९॥
सम्पाद्यताम्ततो निकुम्भो रभसः सूर्य शत्रुर् महाबलः । सुप्तघ्नो यज्ञ कोपः च महापार्श्वो महाउअरः ॥६-९-१॥ अग्नि केतुः च दुर्धर्षो रश्मि केतुः च राक्षसः । इन्द्रजिच् च महातेजा बलवान् रावण आत्मजः ॥६-९-२॥ प्रहस्तो अथ विरूप अक्षो वज्र दम्ष्ट्रो महाबलः । धूम्र अक्षः च अतिकायः च दुर्मुखः चैव राक्षसः ॥६-९-३॥ परिघान् पट्टसान् प्रासान् शक्ति शूल परश्वधान् । चापानि च सबाणानि खड्गामः च विपुलान् शितान् ॥६-९-४॥ प्रगृह्य परम क्रुद्धाः समुत्पत्य च राक्षसाः । अब्रुवन् रावणम् सर्वे प्रदीप्ता इव तेजसा ॥६-९-५॥ अद्य रामम् वधिष्यामः सुग्रीवम् च सलक्ष्मणम् । कृपणम् च हनूमन्तम् लंका येन प्रधर्षिता ॥६-९-६॥ तान् गृहीत आयुधान् सर्वान् वारयित्वा विभीषणः । अब्रवीत् प्रान्जलिर् वाक्यम् पुनः प्रत्युपवेश्य तान् ॥६-९-७॥ अपि उपायैस् त्रिभिस् तात यो अर्थः प्राप्तुम् न शक्यते । तस्य विक्रम कालाम्स् तान् युक्तान् आहुर् मनीषिणः ॥६-९-८॥ प्रमत्तेष्व् अभियुक्तेषु दैवेन प्रहतेषु च । विक्रमास् तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥६-९-९॥ अप्रमत्तम् कथम् तम् तु विजिगीषुम् बले स्थितम् । जित रोषम् दुराधर्षम् प्रधर्षयितुम् इच्चथ ॥६-९-१०॥ समुद्रम् लन्घयित्वा तु घोरम् नद नदी पतिम् । कृतम् हनुमता कर्म दुष्करम् तर्कयेत कः ॥६-९-११॥ बलानि अपरिमेयानि वीर्याणि च निशा चराः । परेषाम् सहसा अवज्ञा न कर्तव्या कथम्चन ॥६-९-१२॥ किम् च राक्षस राजस्य रामेण अपकृतम् पुरा । आजहार जन स्थानाद् यस्य भार्याम् यशस्विनः ॥६-९-१३॥ खरो यदि अतिवृत्तस् तु रामेण निहतो रणे । अवश्यम् प्राणिनाम् प्राणा रक्षितव्या यथा बलम् ॥६-९-१४॥ एतन् निमित्तम् वैदेही भयम् नः सुमहद् भवेत् । आहृता सा परित्याज्या कलह अर्थे क्Rते न किम् ॥६-९-१५॥ न नः क्षमम् वीर्यवता तेन धर्म अनुवर्तिना । वैरम् निरर्थकम् कर्तुम् दीयताम् अस्य मैथिली ॥६-९-१६॥ यावन् सगजाम् साश्वाम् बहु रत्न समाकुलाम् । पुरीम् दारयते बाणैर् दीयताम् अस्य मैथिली ॥६-९-१७॥ यावत् सुघोरा महती दुर्धर्षा हरि वाहिनी । न अवस्कन्दति नो लंकाम् तावत् सीता प्रदीयताम् ॥६-९-१८॥ विनश्येद्द् हि पुरी लंका शूराः सर्वे च आक्षसाः । रामस्य दयिता पत्नी न स्वयम् यदि दीयते ॥६-९-१९॥ प्रसादये त्वाम् बन्धुत्वात् कुरुष्व वचनम् मम । हितम् पथ्यम् त्व् अहम् ब्रूमि दीयताम् अस्य मैथिली ॥६-९-२०॥ पुरा शरत् सूर्य मरीच्चि सम्निभान् । नव अग्र पुन्खान् सुदृढान् नृप आत्मजः । सृजति अमोघान् विशिखान् वधाय ते । प्रदीयताम् दाशरथाय मैथिली ॥६-९-२१॥ त्यजस्व कोपम् सुख धर्म नाशनम् । भजस्व धर्मम् रति कीर्ति वर्धनम् । प्रसीद जीवेम सपुत्र बान्धवाः । प्रदीयताम् दाशरथाय मैथिली ॥६-९-२२॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । विसर्जयित्वा तान् सर्वान् प्रैवेश स्वकम् गृहम् ॥६-९-२३॥
दशमः सर्गः ॥६-१०॥
सम्पाद्यताम्ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः । राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥६-१०-१॥ शैलाग्रचयसम्काशम् शैलशृज्~गमिवोन्नतम् । सुविभक्तमहाकक्षम् महाजनपरिग्रहम् ॥६-१०-२॥ मतिमद्भिर्महामात्रैरनुरकैरधिष्ठितम् । राक्षसैराप्तपर्याप्तैह् सर्वतः परिरक्षितम् ॥६-१०-३॥ मत्तमातज्~गनिःश्वासैर्व्याकुलीकृतमारुतम् । शज्~खघोषमहाघोषम् तूर्यसम्बाधनादितम् ॥६-१०-४॥ प्रमदाजनसम्बाधम् प्रजल्पितमहापथम् । तप्तकाञ्चननिर्यूहम् भूषणोत्तमभूषितम् ॥६-१०-५॥ गन्धर्वाणामिवावासमालयम् मरुतामिव । रत्नसम्चयसम्बाधम् भवनम् भोगिनामिव ॥६-१०-६॥ तम् महाभ्रमिवादित्य स्तेजोविस्तृतरश्मिमान् । अग्रजस्यालयम् वीरः प्रविवेश महाद्युतिः ॥६-१०-७॥ पुण्यान् पुण्याहघोषाम्श्च वेदिविद्भिरुदाहृतान् । शुश्राव सुमहातेजा भ्रातुर्विजयसम्श्रितान् ॥६-१०-८॥ पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः । मन्त्रवेदविदो विप्रान् ददर्श स महाबलः ॥६-१०-९॥ स पूज्यमानो रक्षोभिद्दीप्यमानम् स्वतेजसा । असवस्थम् महाबाहुर्ववन्दे धनदानुजम् ॥६-१०-१०॥ स राजदृष्टिसम्पन्नमासनम् हेमभूषितम् । जगाम समुदाचारम् प्रयुज्याचारकोविदः ॥६-१०-११॥ स रावणम् महात्मानम् विजने मन्त्रिसम्निधौ । उवाच हितमत्यर्थम् वचनम् हेतुनिश्चितम् ॥६-१०-१२॥ प्रसाद्य भ्रातरम् ज्येष्ठम् सान्त्वेनोपस्थितक्रमः । देशकालार्थसम्वादि दृष्टलोकपरावः ॥६-१०-१३॥ यदा प्रभृति वैदेही सम्प्राप्तेह परतप । तदा प्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥६-१०-१४॥ सस्फुलिज्~गः सधूमार्चिह् सधूमकलुषोदयः । मन्त्रसम्घहुतोऽप्यग्निर्न सम्यगभिवर्धते ॥६-१०-१५॥ अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च । परीपृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥६-१०-१६॥ गवाम् पयाम्सि स्कन्नानि विमदा वरकुञ्जराः । दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥६-१०-१७॥ खरोष्ट्राश्वतरा राजन्भिन्न्रोमाः स्रवन्ति च । न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तताः ॥६-१०-१८॥ वायसाः सघशः क्रूरा व्याहरन्ति समन्ततः । समवेताश्च दृश्यन्ते विमानाग्रेषु सम्घशः ॥६-१०-१९॥ गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः । उपपन्नाश्च सम्ध्ये द्वे व्याहरन्त्यशिवम् शिवाः ॥६-१०-२०॥ क्रव्यादानाम् मृगाणाम् च पुरीद्वारेषु सज्~घशः । श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः ॥६-१०-२१॥ तदेवम् प्रस्तुते कार्ते प्रायश्चित्तमिदम् क्षमम् । रोचये वीर वैदेही राघवाय प्रदीयताम् ॥६-१०-२२॥ इदम् च यदि वामोहाल्लोभाद्वा व्याहृतम् मया । तत्राप् च महाराज न दोषम् कर्तुमर्हसि ॥६-१०-२३॥ अयम् हि दोषः सर्वस्य जनस्याप्योपलक्ष्यते । रक्षसाम् राक्षसीनाम् च पुरस्यान्तः पुरस्य च ॥६-१०-२४॥ प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः । अवश्यम् च मया वाच्यम् यद्दृष्टमथवा श्रुतम् ॥६-१०-२५॥ सम्विधाय यथान्यायम् तद्भवान् कर्तुमर्हति । इति स्वमन्त्रिणाम् मध्ये भ्राता भ्रातरमूचिवान् ॥६-१०-२६॥ रावणम् रक्षसाम् श्रेष्ठम् पथ्यमेतद्विभीषणः । हितम् महार्थम् मऋदु हेतुसम्हितम् । व्यतीतकालायतिसम्प्रतिक्षमम् । निशम्य तद्वाक्यमुपस्थितज्वरः । प्रसज्~गवानुत्तरमेत दब्रवीत् ॥६-१०-२७॥ भयम् न पश्यामि कुतश्चिदप्यहम् । न राघवः प्राप्स्यति जातु मैथिलीम् । सुरैः सहेन्द्रैरपि सम्गरे कथम् । ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥६-१०-२८॥ इत्येवमुक्र्वा सुरसैन्यनाशनो । महाबलः सम्यति चण्डविक्रमः । दशाननो भ्रातरमाप्तवादिनम् । विसर्जयामास तदा विभीषणम् ॥६-१०-२९॥
एकादशः सर्गः ॥६-११॥
सम्पाद्यताम्स बभुव कृशो राजा मैथिलीकाममोहितः । असन्मानाच्च सुहृदाम् पापः पापेन कर्मणाः ॥६-११-१॥ अतीतसमये काले तस्मिन्वे युधि रावणः । अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥६-११-२॥ स हेमजालविततम् मणिविद्रुमभूषितम् । उपगम्य विनीताश्वमारुरोह महार्थम् ॥६-११-३॥ तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् । प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति ॥६-११-४॥ असिचर्मधरा योधाः सर्वायुधधरास्ततः । राक्षसा राक्षसेन्द्रस्य पुरस्तात्सम्प्रतस्थिरे ॥६-११-५॥ नानाविकृतवेषाश्च नानाभूषणभूषिताः । पार्श्वतः पृष्ठतश्चैनम् परिवार्य ययुस्तदा ॥६-११-६॥ रथैश्चातिरथा शीघ्रम् मतैश्च वरवारणैः । अमात्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥६-११-७॥ गदापरिघहस्ताश्च शक्तितोमरपाणयः । परश्वथधराश्चान्ये तथान्ये शूलपाणयः ॥६-११-८॥ ततस्तूर्यसहस्राणाम् सम्जज्ञे निःस्वनो महान् । तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥६-११-९॥ स नेमिघोषेण महान्सहसाभिनिनादयन् । राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥६-११-१०॥ विमलम् चातपत्रम् च पगृहीतमशोभत । पाण्डुरम् राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥६-११-११॥ हेमञ्जरिगर्भे च शुद्धस्फटिकविग्रहे । चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥६-११-१२॥ ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः । राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥६-११-१३॥ राक्षनैः स्तूयमानः सन् जयाशीर्भिररिम्दमः । अससाद महातेजाः सभाम् विरचिताम् तदा ॥६-११-१४॥ सुवर्णरजतास्तीर्णाम् विशुद्धस्फटिकान्तराम् । विराजमानो वपुषा रुक्मपट्टोत्तरच्चदाम् ॥६-११-१५॥ ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाप्रभाम् । प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥६-११-१६॥ तस्याम् स वैदूर्यमयम् प्रियाकाजिनसम्वृतम् । महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥६-११-१७॥ ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् । समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥६-११-१८॥ कृत्यमस्ति महाज्जाने कर्तव्यमिति शत्रुभिः । राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ॥६-११-१९॥ अनुगेहमवस्थय विहारशयनेषु च । उद्यानेषु च रक्क्षम्सि चोदयन्तो ह्यभीतवत् ॥६-११-२०॥ ते रथान् रुचिरानेके दृप्तानेके दृढान् हयान् । नागनेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥६-११-२१॥ सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः । सम्पतद्भिर्विरुरुचे गरुत्मद्चिरिवामबरम् ॥६-११-२२॥ ते वाहनान्यवस्थाप्य यानानि विविधानि च । सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥६-११-२३॥ राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥६-११-२४॥ ते समेत्य सभायाम् वै राक्षसा राजशासनात् । यथार्हमुपतस्थुस्ते रावणम् राक्षसाधिपम् ॥६-११-२५॥ मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः । अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥६-११-२६॥ समीयुस्तत्र शतशः शूराश्च बहवस्तथा । सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय वै ॥६-११-२७॥ ततो महात्मा विपुलम् सुयुग्यम् । रथम् वरम् हेमविचित्रिताङ्गम् । शुभम् समास्थाय ययौ यशस्वी । विभीषणः सम्सदमग्रजस्य ॥६-११-२८॥ स पूर्वजायावरजः शशम्स । ना माथ पश्चाच्चरणौ ववन्दे । शुकः प्रहस्तश्च तथैव तेभ्यो । ददौ यथार्हम् प्R^थगासनानि ॥६-११-२९॥ सुवर्णनानामणिभुषणानाम् । सुवाससाम् सम्सदि राक्षसानाम् । तेषाम् परार्थ्यगुरुचन्दनानाम् । स्रजाम् च गन्धाः प्रववुः समन्तात् ॥६-११-३०॥ न चुक्रुशुर्नानृतमाह कश्चि । त्सभासदो नापि जजल्पुरुच्चैः । सम्सिद्धार्थः सर्व एवोग्रवीर्या । भर्तुः सर्वे ददृशुश्चाननम् ते ॥६-११-३१॥ स रावणः शस्त्रभृताम् मनस्विनाम् । महाबलानाम् समितौ मनस्वी । तप्याम् सभायाम् प्रभया चकाशे । मध्ये वसूनामिव वज्रहस्तः ॥६-११-३२॥
द्वादशः सर्गः ॥६-१२॥
सम्पाद्यताम्स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः । प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥ सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥ स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् । विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥ ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये । प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥ विहितम् बहिरन्तश्च बलम् बलवतस्तव । कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥ प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः । सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥ प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते । धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥६-१२-७॥ सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा । मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥ ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः । भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥ अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः । कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥६-१२-१०॥ अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः । सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥ इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया । रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥ सा मे न शय्यामारोढुमिच्चत्यलसगामिनी । त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥ तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना । हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥६-१२-१४॥ सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ । दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥ हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् । उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥ पश्यम्स्तदवशस्तस्याः कामस्य वशमेयिवान् । क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥ शोकसम्तापनित्येन कामेन कलुषीकृतः । सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥ प्रतीक्षमाणा भर्तारम् राममायतलोचना । तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥ श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि । कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥ बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ । अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥ दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति । मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥ तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् । ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥ परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ । सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥ अदेया च यथा सीता वध्यौ दशरथात्मजौ । भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥ न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् । सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥ तस्य कामपरीतस्य निशम्य परिदेवितम् । कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥ यदा तु रामस्य सलक्ष्मणस्य । प्रसह्य सीता खलु पा इहाऽहृता । सकृत्समीक्षैव सुनिश्चितम् तदा । भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥ सर्वमेतन्महाराज कृतमप्रतिमम् तव । विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥ न्यायेन राजकार्याणि यः करोति दशानन । न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥ अनुपायेन कर्माणि विपरीतानि यानि च । क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥६-१२-३१॥ यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति । पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥ चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् । चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥ त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् । दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥ तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः । अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥ अहमुत्सादयिष्यामि शत्रूम्स्तव निशाचर । यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥ तावहम् योधयिष्यामि कुबेरवरुणावपि । गिरिमात्रशरीरस्य महापरिघयोधिनः ॥६-१२-३७॥ नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः । पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥६-१२-३८॥ ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस । वधेव वै दाशरथेह् सुखावहम् । जयम् तवाहर्तुमहम् तयिष्ये । हत्वा च रामम् सह लक्ष्मणेन । खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥ रमस्व कामम् पिब चाग्र्यवारुणीम् । कुरुष्व कार्वाणि हितानि विज्वरः । मया तु रामे गमिते यमक्षयम् । चिराय सीता वशगा भविष्यति ॥६-१२-४०॥
त्रयोदशः सर्गः ॥६-१३॥
सम्पाद्यताम्रावणम् क्रुद्धमाज्ञाय महापार्श्वो महाबलः । मुहूर्त मनुसम्चिन्त्य प्राञ्जलिर्वाक्य मब्रवीत् ॥६-१३-१॥ यः खल्वपि वनम् प्राप्य मृगव्यालनिषेवितम् । न पिबेन्मधु सम्प्राप्य स नरो बालिशो ध्रुवम् ॥६-१३-२॥ ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण । रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥६-१३-३॥ बलात्कुक्कुटवृत्तेन प्रवर्तस्व महाबल । अक्रम्याक्रम्य सीताम् वै ताम् भुङिक्स्व च रमस्व च ॥६-१३-४॥ लब्धकामस्य ते पश्चादागमिष्यति किम् भयम् । प्राप्तमप्राप्तकालम् वा सर्वम् प्रतिविधास्यते ॥६-१३-५॥ कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः । प्रतिषेधयितुम् शक्तौ सवज्रमपि वज्रिणम् ॥६-१३-६॥ उपप्रदानम् सान्त्वम् वा भेदम् वा कुशलैः कृतम् । समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचये ॥६-१३-७॥ इह प्राप्तान्वयम् सर्वान् शत्रूम्स्तव महाबल । वशे शस्त्रप्रतापेन करिष्यामो न सम्शयः ॥६-१३-८॥ एवमुक्तस्तदा राजा महापार्श्वएन रावणः । तस्य सम्पूजयन्वाक्यमिदम् वचनमब्रवीत् ॥६-१३-९॥ महापार्श्व निबोध त्वम् रहस्यम् किम्चिदात्मनः । चिरवृत्तम् तदाख्यास्ये यदवाप्तम् पुरा मया ॥६-१३-१०॥ पितामहस्य भवनम् गच्चन्तीम् पुञ्जिकस्थलाम् । चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥६-१३-११॥ सा प्रसह्य मया भुक्ता कृता विवसना ततः । स्वयम्भूभवनम् प्राप्ता लोलिता नलिनी यथा ॥६-१३-१२॥ तच्च तस्य तदा मन्ये ज्ञातमासीन्महात्मनः । अथ सम्कुपितो वेधा मामिदम् वाक्यमब्रवी ॥६-१३-१३॥ अद्यप्रभृति यामन्याम् बलान्नारीम् गमिष्यसि । तदा ते शतधा मुर्धा फलिष्यति न सम्शयः ॥६-१३-१४॥ इत्यहम् तस्य शापस्य भीतः प्रसभमेव ताम् । नारोहये बलात्सीताम् वैदेहीम् शय्ने शुभे ॥६-१३-१५॥ सागरस्येव मे वेगो मारुतस्येव मे गतिः । नैतद्दाशरथिर्वेद ह्यापादयति तेन माम् ॥६-१३-१६॥ को हि सिम्हमिवासीनम् सुप्तम् गिरिगुहाशये । क्रुद्धम् मृत्युमिवाऽसीनम् सम्बोधयितुमिच्चति ॥६-१३-१७॥ न मत्तो निर्गतान् बाणान् द्विजिह्वान् पन्न्गानिव । रामः पश्यति सम्ग्रामे तेन मामभिगच्चति ॥६-१३-१८॥ क्षिप्रम् वज्रसमैर्बाणैः शतधा कार्मुकचुतैः । राममादीपयिष्यामि उल्कभिरिव कुञ्जरम् ॥६-१३-१९॥ तच्चास्य बलमादास्ये बलेन महता वृतः । उदितः सविता काले नक्षत्राणाम् प्रभामिव ॥६-१३-२०॥ न वासवेनापि सहस्रचक्षुषा । युधास्मि शक्यो वरुणेन वा पुनः । मया त्वियम् बाहुबलेन निर्जिता । पुरा पुरी वैश्रवणेन पालिता ॥६-१३-२१॥
चतुर्दशः सर्गः ॥६-१४॥
सम्पाद्यताम्निशाचरेन्द्रस्य निशम्य वाक्यम् । स कुम्भकर्णस्य च गर्जितानि । विभीषणो राक्षसराजमुख्य । मुवाच वाक्यम् हितम्र्थयुक्तम् ॥६-१४-१॥ वृतो हि बाह्वन्तरभोगराशि । श्चिन्ताविषः सुस्मिततीक्षणदम्ष्ट्रः । पञ्चाङ्गुलीपञ्चशिरोऽतिकायः । सीतामहाहिस्तव केन राजन् ॥६-१४-२॥ यावन्न लङ्का समभिद्रवन्ति । वलीमुखाः पर्वतकूटमात्राः । दम्ष्ट्रयुधाश्चैव नखायुधाश्च । प्रदीयताम् दाशरथाय मैथिली ॥६-१४-३॥ यावन्न गृह्णन्ति शिराम्सि बाणा । रामेरिता राक्षसपुङ्गवानाम् । वज्रोपमा वायुसमानवेगाः । प्रदीयताम् दाशरथाय मैथिली ॥६-१४-४॥ न कुम्भकर्णेन्द्रजितौ च राजम् । स्तथा महापार्श्वमहोदरौ वा । निकुम्भकुम्भौ च तथातिकायः । स्थातुम् समर्था युधि राघवस्य ॥६-१४-५॥ जीवम्स्तु रामस्य न मोक्स्यसे त्वम् । गुप्तः सवित्राप्यथवा मरुद्भिः । न वासवस्याङ्कगतो न मृत्यो । र्नभो न पातालमनुप्रविष्टः ॥६-१४-६॥ निशम्य वाक्यम् तु विभीषणस्य । ततः प्रहस्तो वचनम् बभाषे । न नो भयम् विद्म न दैवतेभ्यो । न दानवेभ्योऽप्यथवा कदाचित् ॥६-१४-७॥ न यक्षगन्धर्वमहोरगेभ्यो । भयम् न सम्ख्ये पतगोरगेभ्यः । कथम् नु रामाद्भविता भयम् नो । नरेन्द्रपुत्रात्समरे कदाचित् ॥६-१४-८॥ प्रहस्तवाक्यम् त्वहितम् निशम्य । विभीषणो राजहितानुकाङिक्षी । ततो महार्थम् वचनम् बभाषे । धर्मार्थकामेषु निविष्टबुद्धिः ॥६-१४-९॥ प्रहस्त राजा च महोदरश्च । त्वम् कुम्भकर्णश्च यथार्थजातम् । ब्रवीत रामम् प्रति तन्न शक्यम् । यथा गतिः स्वर्गमधर्मबुद्धेः ॥६-१४-१०॥ वधस्तु रामस्य मया त्वया च । प्रहस्त सर्वैरपि राक्षसैर्वा । कथम् भवेदर्थविशारदस्य । महार्णवम् तर्तु मिवाप्लवस्य ॥६-१४-११॥ धर्मप्रधानस्य महारथस्य । इक्स्वाकुवम्शप्रभवस्य राज्ञः । पुरोऽस्य देवाश्च तथाविधस्य । कृत्येषु शक्तस्य भवन्ति मूढाः ॥६-१४-१२॥ तीक्षणा न तावत्तव कङ्कपत्रा । दुरापदा राघवविप्रमुक्ताः । भित्त्वाशरीरम् प्रविशन्ति बाणाः । प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१३॥ भित्त्वा न तावत्प्रविशन्ति कायम् । प्राणान्तकास्तेऽशनितुल्य्वेगाः । शिताः शरा राघवविप्रमुक्ताः । प्रहस्त तेनैव विकत्थसे त्वम् ॥६-१४-१४॥ न रावणो नाइबलस्त्रीशीर्षो । न कुम्भकर्णस्य सुतो निकुभः । न चेन्द्रजिद्दाशरथिम् प्रसोढुम् । त्वम् वा रणे शक्रसमम् समर्थः ॥६-१४-१५॥ देवान्तको वापि नरान्तको वा । तथातिकायोऽतिरथो महात्मा । अकम्पननश्चाद्रिसमानसारः । स्थातुम् न शक्ता युधि राघवस्य ॥६-१४-१६॥ अयम् च राजा न्यसनाभिभूतो । मित्रैरमित्रप्रतिमैर्भवद्भिः । अन्वास्यते राक्षसनाशनार्थे । तीक्षणः प्रकृत्या ह्यसमीक्ष्यकारी ॥६-१४-१७॥ अनन्तभोगेन सहस्रमूर्ध्ना । वागेन भीमेन महाबलेन । बलात्परिक्षिप्तमिमम् भवन्तो । राजानमुत्क्षिप्य विमोचयन्तु ॥६-१४-१८॥ यावद्धि केशग्रहणात्सुहृद्भिः । समेत्य सर्वैः परिपूर्णकामैः । निगृह्य राजा परिरक्षितव्यो । भूतैर्यथा भीमबलैर्गृहीअः ॥६-१४-१९॥ सुवारिणा राघवसागरेण । प्रच्चाद्यमानस्तरसा भवद्भिः । प्रच्चाद्यमानस्तरसा भवद्भिः । युक्तस्त्वयम् तारयितुम् समेत्य । काकुत्थ्सपातालमुखे पतन्सः ॥६-१४-२०॥ इदम् पुरस्यास्य सराक्षसस्य । राज्ञश्च पथ्यम् ससुहृज्जनस्य । सम्यग्घि वाक्यम् स्वमतम् ब्रवीमि । नरेन्द्रपुत्राय ददातु मैथिलीम् ॥६-१४-२१॥ परस्य वीर्यम् स्वबलम् च बुद्ध्वा । स्थानम् क्षयम् चैव तथैव वृद्धिम् । तथा स्वपक्षे प्यनुमृश्य बुद्ध्या । वद्त् क्षमम् स्वामिहितम् स मन्त्री ॥६-१४-२२॥
पञ्चदशः सर्गः ॥६-१५॥
सम्पाद्यताम्बृहस्पतेस्तुल्यमतेर्वचस्त । न्निशम्य यत्नेन विभीषणस्य । ततो महात्मा वचनम् बभाषे । तत्रेन्द्रजिन्नैरृतयूथमुख्यः ॥६-१५-१॥ किम् नाम ते तात कनिष्ठ वाक्य । मन्र्थकम् वै बहुभीतवच्च । अस्मिन् कुले योऽपि भवेन्न जातः । सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥६-१५-२॥ सत्त्वेन वीर्येण पराक्रमेणधैर्येण शौर्येण च तेजसा च । एकः कुलेऽस्मिन् पुरुषो विमुक्तो । विभीषणस्तातकनिष्ठ एषः ॥६-१५-३॥ किम् नाम तौ मानुषराजपुत्रा । वस्माकमेकेन हि राक्षसेन । सुप्राकृतेनापि निहन्तुमेतौ । शक्यौ कुतो भीषयसे स्म भीरो ॥६-१५-४॥ त्रिलोकनाथो नम देवराजः । शक्तो मया भूमितले विविष्टः । भयार्मिताश्चापि दिशः प्रपन्नाः । सर्वे तदा देवगणाः समग्राः ॥६-१५-५॥ ऐरावतो विस्वरमुन्नदन् स । निपातितो भूमितले मया तु । विकृष्य दन्तौ तु मया प्रपह्य । वित्रासिता देवगणाः समग्राः ॥६-१५-६॥ सोऽहम् सुराणामपि दर्पहन्ता । दैत्योत्तमानामपि शोककर्ता । कथम् नरेन्द्रत्मजयोर्न शक्तो । ममष्ययोः प्राकृतयोः सुवीर्यः ॥६-१५-७॥ अथेन्द्रकल्पस्य दुरासदस्य । महाजसस्तद्वचनम् निशम्य । ततो महार्थम् वचनम् बभाषे । विभीषणः शस्त्रभृताम् वरिष्ठः ॥६-१५-८॥ न तात मन्त्रे तव निश्चयोऽस्ति । बालस्त्वमद्याप्यविपक्वबुद्धिः । तस्मात्त्वयाप्यात्मविनाशनाय । वचोऽर्थ्हीनम् बहु विप्रलप्तम् ॥६-१५-९॥ पुत्रप्रवादेन तु रावणस्य । त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः । यस्येदृशम् राघवतो विनाशम् । विशम्य मोहादनुवन्यसे त्वम् ॥६-१५-१०॥ त्वमेव वध्यश्च सुदुर्मतिश्च । स चापि वध्यो य ऐहानयत्त्वाम् । बालम् दृढम् साहासिकम् च योऽद्य । प्रावेशयन्मन्त्रक्R^ताम् समीपम् ॥६-१५-११॥ मूढोऽप्रगल्भोऽविनयोपपन्न । स्तीक्षणस्वभावोऽल्पमतिर्दुरात्मा । मूर्खस्त्वमत्यन्तसुदुर्मतिश्च । त्वमिन्द्रजिद्बालतया ब्रवीषि ॥६-१५-१२॥ को ब्रह्मदण्डप्रतिमप्रकाशा । नर्चिष्मतः कालनिकाशरूपान् । सहेत बाणान्यमदण्डकल्पा । न्समक्षमुक्तान्युधि राघवेण ॥६-१५-१३॥ धनानि रत्नानि सुभूषणानि । वापाम्पि दिव्यानि मणीम्श्च चित्रान् । सीताम् च रामाय निवेद्य देवीम् । वसेम राजन्निह वीतशोकाः ॥६-१५-१४॥
षोडशः सर्गः ॥६-१६॥
सम्पाद्यताम्सुनिविष्टम् हितम् वाक्यम् उक्तवन्तम् विभीषणम् । अब्रवीत् परुषम् वाक्यम् रावणः काल चोदितः ॥६-१६-१॥ वसेत् सह सपत्नेन क्रुद्धेन आशी विषेण च । न तु मित्र प्रवादेन सम्वस्च्चत्रुणा सह ॥६-१६-२॥ जानामि शीलम् ज्ञातीनाम् सर्व लोकेषु राक्षस । हृष्यन्ति व्यसनेष्वेते ज्ञातीनाम् ज्ञातयः सदा ॥६-१६-३॥ प्रधानम् साधकम् वैद्यम् धर्म शीलम् च राक्षस । ज्ञातयो ह्यनमन्यन्ते शूरम् परिभवन्ति च ॥६-१६-४॥ नित्यम् अन्योन्य सम्हृष्टा व्यसनेष्वाततायिनः । प्रच्चन्न हृदया घोरा ज्ञातयस् तु भय आवहाः ॥६-१६-५॥ श्रूयन्ते हस्तिभिर् गीताः श्लोकाः पद्म वने पुरा । पाश हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम ॥६-१६-६॥ नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः । घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥६-१६-७॥ उपायमेते वक्ष्यन्ति ग्रहणे नात्रसम्शयः । कृत्स्नाद् भयाज्ज्ञातिभयम् सुकष्टम् विदितम् च नः ॥६-१६-८॥ विद्यते गोषु सम्पन्नम् विद्यते ज्ञातितो भयम् । विद्यते स्त्रीषु चापल्यम् विद्यते ज्ञातितो भयम् ॥६-१६-९॥ ततो नेष्टम् इदम् सौम्य यदहम् लोक सत्कृतः । ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः ॥६-१६-१०॥ यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः । न श्लेषमभिगच्चन्ति तथानार्येषु सौहृदम् ॥६-१६-११॥ यथा शरदि मेघानाम् सिञ्चातामपि गर्जताम् । न भवत्यमुबसम्क्लेदस्तथानार्येषु सौहृदम् ॥६-१६-१२॥ यथा मधुकरस्तर्षाद्रासम् विन्दन्न तिष्ठति । तथा त्वमपि तत्रैव तथानार्येषु सौहृदम् ॥६-१६-१३॥ यथा मधुकर्स्तराषात्काशपुष्पम् पिबन्नपि । रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥६-१६-१४॥ यथा पूर्वम् गजः स्नात्वा गृह्य हस्तेन वै रजः । दूषयत्यात्मनो देहम् तथानार्येषु सौहृदम् ॥६-१६-१५॥ योऽन्यस्त्वेवम्विधम् ब्रूयाद् वाक्यमेतन्निशाचर । अस्मिन् मुहूर्ते न भवेत् त्वाम् तु धिक् कुलपाम्सनम् ॥६-१६-१६॥ इतिउक्तः परुषम् वाक्यम् न्यायवादी विभीषणः । उत्पपात गदापाणिःचतुर्भिः सह राक्षसैः ॥६-१६-१७॥ अब्रवीच्च तदा वाक्यम् जातक्रोधो विभीषणः । अन्तरिक्षगतः श्रीमान् भ्रातरम् राक्षस अधिपम् ॥६-१६-१८॥ स त्वम् भ्राता असि मे राजन् ब्रूहि माम् यद् यद् इच्चसि । ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः ॥६-१६-१९॥ इदम् तु परुषम् वाक्यम् न क्षमामि अनृतम् तव । सुनीतम् हित कामेन वाक्यम् उक्तम् दश आनन ॥६-१६-२०॥ न गृह्णन्ति अकृत आत्मानः कालस्य वशमागताः । सुलभाः पुरुषा राजन् सततम् प्रिय वादिनः ॥६-१६-२१॥ अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः । बद्धम् कालस्य पाशेन सर्व भूत अपहारिणा ॥६-१६-२२॥ न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा । दीप्त पावक सम्काशैः शितैः कान्चन भूषणैः ॥६-१६-२३॥ न त्वाम् इच्चामि अहम् द्रष्टुम् रामेण निहतम् शरैः । शूराः च बलवन्तः च कृत अस्त्राः च नर आजिरे ॥६-१६-२४॥ काल अभिपन्ना सीदन्ति यथा वालुक सेतवः । तनर्षयतु यच्चोक्तम् गुरुत्वाद्धितमिच्चता ॥६-१६-२५॥ आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् । स्वस्ति ते अस्तु गमिष्यामि सुखी भव मया विना ॥६-१६-२६॥ निवार्यमाणस्य मया हित एषिणा । न रोचते ते वचनम् निशा चर । परीत काला हि गत आयुषो नरा । हितम् न गृह्णन्ति सुहृद्भिर् ईरितम् ॥६-१६-२७॥
सप्तदशः सर्गः ॥६-१७॥
सम्पाद्यताम्इति उक्त्वा परुषम् वाक्यम् रावणम् रावण अनुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥६-१७-१॥ तम् मेरु शिखर आकारम् दीप्ताम् इव शत ह्रदाम् । गगनस्थम् महीस्थास् ते ददृशुर् वानर अधिपाः ॥६-१७-२॥ ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः । तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥६-१७-३॥ स च मेघाचलप्रख्यो वज्रायुधसमप्रभः । वरायुधधरो वीरो दिव्याभरणभूषितः ॥६-१७-४॥ तम् आत्म पन्चमम् दृष्ट्वा सुग्रीवो वानर अधिपः । वानरैः सह दुर्धर्षः चिन्तयाम् आस बुद्धिमान् ॥६-१७-५॥ चिन्तयित्वा मुहूर्तम् तु वानराम्स् तान् उवाच ह । हनूमत् प्रमुखान् सर्वान् इदम् वचनम् उत्तमम् ॥६-१७-६॥ एष सर्व आयुध उपेतः चतुर्भिः सह राक्षसैः । राक्षसो अभ्येति पश्यध्वम् अस्मान् हन्तुम् न सम्शयः ॥६-१७-७॥ सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर उत्तमाः । सालान् उद्यम्य शैलामः च इदम् वचनम् अब्रुवन् ॥६-१७-८॥ शीघ्रम् व्यादिश नो राजन् वधाय एषाम् दुरात्मनाम् । निपतन्तु हताः च एते धरण्याम् अल्प जीविताः ॥६-१७-९॥ तेषाम् सम्भाषमाणानाम् अन्योन्यम् स विभीषणः । उत्तरम् तीरम् आसाद्य खस्थ एव व्यतिष्ठत ॥६-१७-१०॥ स उवाच च महाप्राज्ञः स्वरेण महता महान् । सुग्रीवम् तामः च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥६-१७-११॥ रावणो नाम दुर्वृत्तो राक्षसो राक्षस ईश्वरः । तस्य अहम् अनुजो भ्राता विभीषण इति श्रुतः ॥६-१७-१२॥ तेन सीता जन स्थानाद्द् हृता हत्वा जटायुषम् । रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥६-१७-१३॥ तम् अहम् हेतुभिर् वाक्यैर् विविधैः च न्यदर्शयम् । साधु निर्यात्यताम् सीता रामाय इति पुनः पुनः ॥६-१७-१४॥ स च न प्रतिजग्राह रावणः काल चोदितः । उच्यमानो हितम् वाक्यम् विपरीत इव औषधम् ॥६-१७-१५॥ सो अहम् परुषितस् तेन दासवच् च अवमानितः । त्यक्त्वा पुत्रामः च दारामः च राघवम् शरणम् गतः ॥६-१७-१६॥ निवेदेअयत माम् क्षिप्रम् राघवाय महात्मने । सर्व लोक शरण्याय विभीषणम् उपस्थितम् ॥६-१७-१७॥ एतत्तु वचनम् श्रुत्वा सुग्रीवो लघु विक्रमः । लक्ष्मणस्य अग्रतो रामम् सम्रब्धम् इदम् अब्रवीत् ॥६-१७-१८॥ प्रविष्टः शत्रु सैन्यम् हि प्राप्तः शत्रुरतर्कितः । निहन्यादन्न्तरम् लब्ध्वा उलूको वायसानिव ॥६-१७-१९॥ मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि । वानराणाम् च भद्रम् ते परेषाम् च परम्तप ॥६-१७-२०॥ अन्तर्धनगताह्येते राक्षसाः कामरूपिणः । शूराश्च निकृतिज्ञाश्च तेषाम् जातु न विश्वसेत् ॥६-१७-२१॥ प्रणीधी राक्षसेन्द्रस्य रावणस्य भवेदयम् । अनुप्रविश्य सोऽ स्मासु भेदम् कुर्यान्न सम्शयः ॥६-१७-२२॥ अथवा स्वयमेवैष चिद्रमासाद्य बुद्धिमान् । अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥६-१७-२३॥ मित्राटवीबलम् चैव मौलभृत्यबलम् तथा । सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् ॥६-१७-२४॥ प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो । आगतश्च रिपोः साक्षात्कथमस्मिम्श्च विश्वसेत् ॥६-१७-२५॥ रावणस्य अनुजो भ्राता विभीषण इति श्रुतः । चतुर्भिः सह रक्षोभिर् भवन्तम् शरणम् गतः ॥६-१७-२६॥ रावणेन प्रणिहितम् तम् अवेहि विभीषणम् । तस्य अहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ॥६-१७-२७॥ राक्षसो जिह्मया बुद्ध्या सम्दिष्टो अयम् उपस्थितः । प्रहर्तुम् मायया चन्नो विश्वस्ते त्वयि राघव ॥६-१७-२८॥ बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह । रावणस्य नृशम्सस्य भ्राता हि एष विभीषणः ॥६-१७-२९॥ एवम् उक्त्वा तु तम् रामम् सम्रब्धो वाहिनी पतिः । वाक्यज्ञो वाक्य कुशलम् ततो मौनम् उपागमत् ॥६-१७-३०॥ सुग्रीवस्य तु तद् वाक्यम् श्रुत्वा रामो महाबलः । समीपस्थान् उवाच इदम् हनूमत् प्रमुखान् हरीन् ॥६-१७-३१॥ यद् उक्तम् कपि राजेन रावण अवरजम् प्रति । वाक्यम् हेतुमद् अत्यर्थम् भवद्भिर् अपि तत् श्रुतम् ॥६-१७-३२॥ सुहृदा हि अर्थ कृच्चेषु युक्तम् बुद्धिमता सता । समर्थेन अपि सम्देष्टुम् शाश्वतीम् भूतिम् इच्चता ॥६-१७-३३॥ इति एवम् परिपृष्टास् ते स्वम् स्वम् मतम् अतन्द्रिताः । स उपचारम् तदा रामम् ऊचुर् हित चिकीर्षवः ॥६-१७-३४॥ अज्ञातम् न अस्ति ते किम्चित् त्रिषु लोकेषु राघव । आत्मानम् पूजयन् राम पृच्चसि अस्मान् सुहृत्तया ॥६-१७-३५॥ त्वम् हि सत्य व्रतः शूरो धार्मिको दृढ विक्रमः । परीक्ष्य कारा स्मृतिमान् निसृष्ट आत्मा सुहृत्सु च ॥६-१७-३६॥ तस्माद् एक एकशस् तावद् ब्रुवन्तु सचिवास् तव । हेतुतो मति सम्पन्नाः समर्थाः च पुनः पुनः ॥६-१७-३७॥ इति उक्ते राघवाय अथ मतिमान् अन्गदो अग्रतः । विभीषण परीक्षा अर्थम् उवाच वचनम् हरिः ॥६-१७-३८॥ शत्रोः सकाशात् सम्प्राप्तः सर्वथा शन्क्य एव हि । विश्वास योग्यः सहसा न कर्तव्यो विभीषणः ॥६-१७-३९॥ चादयित्वा आत्म भावम् हि चरन्ति शठ बुद्धयः । प्रहरन्ति च रन्ध्रेषु सो अनर्थः सुमहान् भवेत् ॥६-१७-४०॥ अर्थ अनर्थौ विनिश्चित्य व्यवसायम् भजेत ह । गुणतः सम्ग्रहम् कुर्याद् दोषतस् तु विसर्जयेत् ॥६-१७-४१॥ यदि दोषो महाम्स् तस्मिम्स् त्यज्यताम् अविशन्कितम् । गुणान् वा अपि बहून् ज्ञात्वा सम्ग्रहः क्रियताम् नृप ॥६-१७-४२॥ शरभस् त्व् अथ निश्चित्य सार्थम् वचनम् अब्रवीत् । क्षिप्रम् अस्मिन् नर व्याघ्र चारः प्रतिविधीयताम् ॥६-१७-४३॥ प्रणिधाय हि चारेण यथावत् सूक्ष्म बुद्धिना । परीक्ष्य च ततः कार्यो यथा न्यायम् परिग्रहः ॥६-१७-४४॥ जाम्बवाम्स् त्व् अथ सम्प्रेक्ष्य शास्त्र बुद्ध्या विचक्षणः । वाक्यम् विज्ञापयाम् आस गुणवद् दोष वर्जितम् ॥६-१७-४५॥ बद्ध वैराच् च पापाच् च राक्षस इन्द्राद् विभीषणः । अदेश काले सम्प्राप्तः सर्वथा शन्क्यताम् अयम् ॥६-१७-४६॥ ततो मैन्दस् तु सम्प्रेक्ष्य नय अपनय कोविदः । वाक्यम् वचन सम्पन्नो बभाषे हेतुमत्तरम् ॥६-१७-४७॥ अनुहो नाम तस्य एष रावणस्य विभीषणः । पृच्च्यताम् मधुरेण अयम् शनैर् नर वर ईश्वर ॥६-१७-४८॥ भावम् अस्य तु विज्ञाय ततस् तत्त्वम् करिष्यसि । यदि दृष्टो न दुष्टो वा बुद्धि पूर्वम् नरषभ ॥६-१७-४९॥ अथ सम्स्कार सम्पन्नो हनूमान् सचिव उत्तमः । उवाच वचनम् श्लक्ष्णम् अर्थवन् मधुरम् लघु ॥६-१७-५०॥ न भवन्तम् मति श्रेष्ठम् समर्थम् वदताम् वरम् । अतिशाययितुम् शक्तो बृहस्पतिर् अपि ब्रुवन् ॥६-१७-५१॥ न वादान् न अपि सम्घर्षान् न आधिक्यान् न च कामतः । वक्ष्यामि वचनम् राजन् यथा अर्थम् राम गौरवात् ॥६-१७-५२॥ अर्थ अनर्थ निमित्तम् हि यद् उक्तम् सचिवैस् तव । तत्र दोषम् प्रपश्यामि क्रिया न हि उपपद्यते ॥६-१७-५३॥ ऋते नियोगात् सामर्थ्यम् अवबोद्धुम् न शक्यते । सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥६-१७-५४॥ चार प्रणिहितम् युक्तम् यद् उक्तम् सचिवैस् तव । अर्थस्य असम्भवात् तत्र कारणम् न उपपद्यते ॥६-१७-५५॥ अदेश काले सम्प्राप्त इति अयम् यद् विभीषणः । विवक्षा च अत्र मे अस्ति इयम् ताम् निबोध यथा मति ॥६-१७-५६॥ स एष देशः कालः च भवति इह यथा तथा । पुरुषात् पुरुषम् प्राप्य तथा दोष गुणाव् अपि ॥६-१७-५७॥ दौरात्म्यम् रावणे दृष्ट्वा विक्रमम् च तथा त्वयि । युक्तम् आगमनम् तस्य सदृशम् तस्य बुद्धितः ॥६-१७-५८॥ अज्ञात रूपैः पुरुषैः स राजन् पृच्च्यताम् इति । यद् उक्तम् अत्र मे प्रेक्षा काचिद् अस्ति समीक्षिता ॥६-१७-५९॥ पृच्च्यमानो विशन्केत सहसा बुद्धिमान् वचः । तत्र मित्रम् प्रदुष्येत मिथ्य पृष्टम् सुख आगतम् ॥६-१७-६०॥ अशक्यः सहसा राजन् भावो वेत्तुम् परस्य वै । अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यम् पश्यता भृशम् ॥६-१७-६१॥ न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्ट भावता । प्रसन्नम् वदनम् च अपि तस्मान् मे न अस्ति सम्शयः ॥६-१७-६२॥ अशन्कित मतिः स्वस्थो न शठः परिसर्पति । न च अस्य दुष्टा वागस्ति तस्मान् न अस्ति इह सम्शयः ॥६-१७-६३॥ आकारः चाद्यमानो अपि न शक्यो विनिगूहितुम् । बलाद्द् हि विवृणोति एव भावम् अन्तर् गतम् नृणाम् ॥६-१७-६४॥ देश काल उपपन्नम् च कार्यम् कार्यविदाम् वर । सफलम् कुरुते क्षिप्रम् प्रयोगेण अभिसम्हितम् ॥६-१७-६५॥ उद्योगम् तव सम्प्रेक्ष्य मिथ्या वृत्तम् च रावणम् । वालिनः च वधम् श्रुत्वा सुग्रीवम् च अभिषेचितम् ॥६-१७-६६॥ राज्यम् प्रार्थयमानः च बुद्धि पूर्वम् इह आगतः । एतावत् तु पुरस् कृत्य युज्यते त्व् अस्य सम्ग्रहः ॥६-१७-६७॥ यथा शक्ति मया उक्तम् तु राक्षसस्य आर्जवम् प्रति । प्रमाणम् तु शेषस्य श्रुत्वा बुद्धिमताम् वर ॥६-१७-६८॥
अष्टादशः सर्गः ॥६-१८॥
सम्पाद्यताम्अथ रामः प्रसन्न आत्मा श्रुत्वा वायु सुतस्य ह । प्रत्यभाषत दुर्धर्षः श्रुतवान् आत्मनि स्थितम् ॥६-१८-१॥ मम अपि तु विवक्षा अस्ति काचित् प्रति विभीषणम् । श्रुतम् इच्चामि तत् सर्वम् भवद्भिः श्रेयसि स्थितैः ॥६-१८-२॥ मित्र भावेन सम्प्राप्तम् न त्यजेयम् कथम्चन । दोषो यदि अपि तस्य स्यात् सताम् एतद् अगर्हितम् ॥६-१८-३॥ सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च । ततः शुभतरम् वाक्यमुवाच हरिपुङ्गवः ॥६-१८-४॥ सुदुष्टो वाप्यदुष्टो वा किम्मेष रजनीचरः । ईदृशम् व्यसनम् प्राप्तम् भ्रातरम् यः परित्यजेत् ॥६-१८-५॥ को वाम स भवेत्तस्य यमेष न परित्यजेत् । वानराधिपते र्वाक्यम् श्रुत्वा सर्वानुदीक्स्य तु ॥६-१८-६॥ ईषदुत्स्मयमानस्तु लक्स्मणम् पुण्यलक्षणम् । इति होवाच काकुत्थ्सो वाक्यम् सत्यपराक्रमः ॥६-१८-७॥ अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च । न शक्यमीदृशम् वक्तुम् यदुवाच हरीश्वरः ॥६-१८-८॥ अस्ति सूक्ष्मतरम् किम्चिद्यदत्र प्रतिभाति मा । प्रत्यक्षम् लौकिकम् चापि वर्तते सर्वराजसु ॥६-१८-९॥ अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिता । व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ॥६-१८-१०॥ अपापास्तत्कुलीवाश्च मानयन्ति स्वकान् हितान् । एष प्रायो नरेन्द्राणाम् शङ्कनीयस्तु शोभनः ॥६-१८-११॥ यस्तु दोषस्त्वया प्रोक्तो ह्यादानेरिबलस्य च । तत्र ते कीर्तयुष्यामि यथाशास्त्रमिदम् शृणु ॥६-१८-१२॥ न वयम् तत्कुलीनाश्च राज्यकाम्क्षी च राक्षसः । पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः ॥६-१८-१३॥ अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति सम्गताः । प्रणादश्च महानेष ततोऽस्य भयमागतम् ॥६-१८-१४॥ इति भेदम् गमिष्यन्ति तस्मात्प्रोप्तो विभीषणः । न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः ॥६-१८-१५॥ मद्विधा ना पितुः पुत्राः सुहृदो वा भवद्विधाः । एवमुक्तस्तु रामेण सुग्रीवः सहलक्स्मणः ॥६-१८-१६॥ उत्थाअयोदम् महाप्राज्ञः प्रणतो वाक्यमब्रवीत् । रावणेन प्रणिहितम् तमवेहि निशाचरम् ॥६-१८-१७॥ तस्याहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर । राक्षसो जिह्मया बुद्ध्या सम्दिष्टोऽय मिहागतः ॥६-१८-१८॥ प्रहर्तुम् त्वयि विश्वस्ते विश्वस्ते मयि वानघ । लक्ष्मणे वा महाबाहो स बध्यः सचिवैः सह ॥६-१८-१९॥ रावणस्य नृशम्सस्य भ्राता ह्येष विभीषणः । स सुग्रीवस्य तद् वाक्यय्म् रामः श्रुत्वा विमृश्य च ॥६-१८-२०॥ ततः शुभतरम् वाक्यम् उवाच हरि पुम्गवम् । सुदुष्टो वा अपि अदुष्टो वा किम् एष रजनी चरः ॥६-१८-२१॥ सूक्ष्मम् अपि अहितम् कर्तुम् मम अशक्तः कथम्चन । पिशाचान् दानवान् यक्षान् पृथिव्याम् चैव राक्षसान् ॥६-१८-२२॥ अन्गुलि अग्रेण तान् हन्याम् इच्चन् हरि गण ईश्वर । श्रूयते हि कपोतेन शत्रुः शरणम् आगतः ॥६-१८-२३॥ अर्चितः च यथा न्यायम् स्वैः च माम्सैर् निमन्त्रितः । स हि तम् प्रतिजग्राह भार्या हर्तारम् आगतम् ॥६-१८-२४॥ कपोतो वानर श्रेष्ठ किम् पुनर् मद् विधो जनः । ऋषेः कण्वस्य पुत्रेण कण्डुना परम ऋषिणा ॥६-१८-२५॥ शृणु गाथाम् पुरा गीताम् धर्मिष्ठाम् सत्य वादिना । बद्ध अन्जलि पुटम् दीनम् याचन्तम् शरण आगतम् ॥६-१८-२६॥ न हन्याद् आनृशम्स्य अर्थम् अपि शत्रुम् परम् पत । अर्तो वा यदि वा दृप्तः परेषाम् शरणम् गतः ॥६-१८-२७॥ अरिः प्राणान् परित्यज्य रक्षितव्यः कृत आत्मना । स चेद् भयाद् वा मोहाद् वा कामाद् वा अपि न रक्षति ॥६-१८-२८॥ स्वया शक्त्या यथा तत्त्वम् तत् पापम् लोक गर्हितम् । विनष्टः पश्यतस् तस्य रक्षिणः शरण आगतः ॥६-१८-२९॥ आदाय सुकृतम् तस्य सर्वम् गच्चेद् अरक्षितः । एवम् दोषो महान् अत्र प्रपन्नानाम् अरक्षणे ॥६-१८-३०॥ करिष्यामि यथा अर्थम् तु कण्डोर् वचनम् उत्तमम् ॥६-१८-३१॥ धर्मिष्ठम् च यशस्यम् च स्वर्ग्यम् स्यात् तु फल उदये । सकृद् एव प्रपन्नाय तव अस्मि इति च याचते ॥६-१८-३२॥ अभयम् सर्व भूतेभ्यो ददामि एतद् व्रतम् मम । आनय एनम् हरि श्रेष्ठ दत्तम् अस्य अभयम् मया ॥६-१८-३३॥ विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् । रामस्य वचनम् श्रुत्वा सुग्रीवः प्लवग ईश्वरः ॥६-१८-३४॥ प्रत्यभाषत काकुत्स्थम् सौहार्देन अभिचोदितः । किम् अत्र चित्रम् धर्मज्ञ लोक नाथ शिखा मणे ॥६-१८-३५॥ यत् त्वम् आर्यम् प्रभाषेथाः सत्त्ववान् सपथे स्थितः । मम च अपि अन्तर् आत्मा अयम् शुद्धिम् वेत्ति विभीषणम् ॥६-१८-३६॥ अनुमनाच् च भावाच् च सर्वतः सुपरीक्षितः । तस्मात् क्षिप्रम् सह अस्माभिस् तुल्यो भवतु राघव ॥६-१८-३७॥ विभीषणो महाप्राज्ञः सखित्वम् च अभ्युपैतु नः । ततस् तु सुग्रीव वचो निशम्यत। हरि ईश्वरेण अभिहितम् नर ईश्वरः । विभीषणेन आशु जगाम सम्गमम् । पतत्रि राजेन यथा पुरम् दरः ॥६-१८-३८॥
एकोनविंशः सर्गः ॥६-१९॥
सम्पाद्यताम्राघवेन अभये दत्ते सम्नतो रावण अनुजः । विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥ खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह । स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥ पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः । अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥ धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् । अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥ भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः । परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥ भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च । तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥ वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव । आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥ एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा । रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥ अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् । राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥ रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् । कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥ राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः । कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥ बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि । धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥ सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् । अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥ महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः । अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥ दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् । माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥ स तैस्तु सहितो राजा लोकपालानयोधयत् । सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥ विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः । अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥ यानि कर्मापदानानि रावणस्य विभीषण । अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥ अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् । राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥ रसातलम् वा प्रविशेत्पातालम् वापि रावणः । पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥ अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् । अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥ श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः । शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥ राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे । करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥ इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् । अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥ तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् । राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥ एवम् उक्तस् तु सौमित्रिर् अभ्यषिन्चद् विभीषणम् । मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥ तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः । प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥ अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् । कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥ सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् । उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥ तराम तरसा सर्वे ससैन्या वरुण आलयम् । एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥ समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति । खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥ कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः । एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥ आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः । ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥ सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् । प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥ स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् । सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥ विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते । सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥ उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् । एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥ समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः । किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥ विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् । अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥ लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः । विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥ अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् । यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥ एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः । सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥
विंशः सर्गः ॥६-२०॥
सम्पाद्यताम्ततो निविष्टाम् ध्वजिनीम् सुग्रीवेणाभिपालिताम् । ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥६-२०-१॥ चारो राक्षसराजस्य रावणस्य दुरात्मनः । ताम् दृष्ट्वा सर्वतोऽव्यग्रम् प्रतिगम्य स राक्षसः ॥६-२०-२॥ आविश्य लङ्काम् वेगेन राजानमिदमब्रवीत् । एष वै वानरर्क्षघो लङ्काम् समभिवर्तते ॥६-२०-३॥ अगाधश्चाप्रमेयश्च द्वितीय इव सागरः । पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ॥६-२०-४॥ उत्तमौ रूपसम्पन्नौ सीतायाः पदमागतौ । एतौ सागरमासाद्य सम्निविष्टौ महाद्युती ॥६-२०-५॥ बलम् चाकाशमावृत्य सर्वतो दशयोजनम् । तत्त्वभूतम् महारज क्षिप्रम् वेदितुमर्हसि ॥६-२०-६॥ तव दूता महाराज क्षिप्रमर्हन्ति वेदितुम् । उपप्रदानम् सान्त्वम् वा भेदो वात्र प्रयुज्यताम् ॥६-२०-७॥ शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः । उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः ॥६-२०-८॥ शुकम् नाम तदा रक्षो वाक्यमर्थविदाम् वरम् । सुग्रीवम् ब्रूहि गत्वाशु राजानम् वचनान्मनु ॥६-२०-९॥ यथासम्देशमक्लीबम् शल्क्स्णया परया गिरा । त्वम् वै महारज कुलप्रसूतो । महाबलश्चर्क्षरजःसुतश्च । न कश्चनार्थस्तव वास्त्यनर्थ । स्तथापि मे भ्रातृसमो हरीश ॥६-२०-१०॥ अहम् यद्यहरम् भार्याम् राजपुत्रस्य धीमतः । किम् तत्र तव सुग्रीव किश्किन्धाम् प्रति गम्यताम् ॥६-२०-११॥ न हीयम् हरिभिर्लङ्का प्राप्तुम् शक्या कथम् चन । देवैरपि सगन्धर्वैः किम् पुनर्नरवानरैः ॥६-२०-१२॥ स तदा राक्षसेन्द्रेण सम्दिष्टो रजनीचरः । शुको विहम्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥६-२०-१३॥ स गत्वा दूरमध्वानमुपर्युपरि सागरम् । सम्स्थितो ह्यम्बरे वाक्यम् सुग्रीव मदिमब्रवीत् ॥६-२०-१४॥ सर्वमुक्तम् यथादिष्टम् रावणेन दुरात्मना । तत्प्रपयन्तम् वचनम् तूर्णमाप्लुत्य वानराः ॥६-२०-१५॥ प्रापद्यन्त तदा क्षिप्रम् लोप्तुम् हन्तुम् च मुष्टिभिः । सर्वैः प्लवण्गैः प्रसभम् निगृहीतो निशाचरह् ॥६-२०-१६॥ गगनाद्भूतले चाशु प्रतिगृह्यावतारितः । वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ॥६-२०-१७॥ न दूतान् घ्नन्ति काकुत्थ्स वार्यन्ताम् साधु वानराः । यस्तु हित्वा मतम् भर्तुः स्वमतम् सम्प्रभाषते ॥६-२०-१८॥ अनुक्तवादी दूतः सन्न् स दूतो वधमर्हति । शुकस्य वचनम् रामः श्रुत्वा तु परिदेवितम् ॥६-२०-१९॥ उवाच मा वधिस्टेति घ्नतः शाखामृगर्षभान् । स च पत्रलघुद्भूत्वा हरिभिर्दर्शितेऽभये ॥६-२०-२०॥ अन्तरिक्षे स्थितो भूत्वा पुनर्वचन मब्रवीत् । सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम ॥६-२०-२१॥ किम् मया खलु नक्तव्यो रावणो लोकरावणः । स एवमुक्तः प्लवगाधिपस्तदा । प्लवङ्गमानामृषभो महाबलः । उवाच वाक्यम् रजनीचरस्य । चारम् शुकम् शुद्ध मदीनसत्त्वः ॥६-२०-२२॥ स मेऽसि मित्रम् व तथानुकम्प्यो । न चोपकर्तासि न मे प्रियोऽपि । अरिश्च रामस्य सहानुबन्ध । स्ततोऽसि वालीव वधार्ह वध्यः ॥६-२०-२३॥ निहन्म्यहम् त्वाम् ससुतम् सबन्धुम् । सज्ञातिवर्गम् रजनीचरेश । लङ्काम् च सर्वाम् महता बलेन । सर्वैः करिष्यामि समेत्य भस्म ॥६-२०-२४॥ न मोक्ष्यसे रावण राघवस्य । सर्वैः सहेन्द्रैदपि मूढ गुप्तः । अन्तर्हतः सूर्यपथम् गतोऽपि। तथैव पातालमनुप्रविष्टः ॥६-२०-२५॥ गिरीशपादम्बुजसम्गतो वा । हतोऽसि रामेण शानुजस्त्वम् ॥६-२०-२६॥ तस्य ते त्रिषु लोकेषु न पिशाचम् न राक्षसम् । त्रातारमनुपश्यामि न गन्धर्वम् न चासुरम् ॥६-२०-२७॥ अवधीस्त्वम् जरावृद्धम् गृध्राराजम् जटायुषम् । किम् मते रामसाम्निध्ये सकाशे लक्ष्मणस्य च ॥६-२०-२८॥ हृता सीता विशालाक्षि याम् त्वम् गृह्य न बुध्यसे । महाबलम् महात्मानम् दुराधर्षम् सुरैरपि ॥६-२०-२९॥ न बुध्यसे रघुश्रेष्ठम् यस्ते प्राणान् हरिष्यति । ततोऽब्रवीद्वालिसुतोऽप्यङ्गदो हरिसत्तमः ॥६-२०-३०॥ वायम् दूतो महाप्राज्ञ चारकः प्रतिभाति मे । तुलितम् हि बलम् सर्वमनेन तव तिष्ठता ॥६-२०-३१॥ गृह्यताम् मागमल्लङ्का मेतद्धि मम रोचते । ततो राज्ञा समादिष्टाः समुत्पत्य वलीमुखाः ॥६-२०-३२॥ जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् । शुकस्तु वानरैश्च ण्डैस्तत्र तैः सम्प्रपीडितः ॥६-२०-३३॥ व्याचुक्रोश महात्मानम् रामम् दशरथात्मजम् । लुप्येते मे बलात्पक्षौ भिद्येते मे तथाक्षिणी ॥६-२०-३४॥ याम् च रात्रिम् मरिष्यामि जाये रात्रिम् च यामहम् । एतस्मिन्नन्त्रे काले मन्मया चाशुभम् कृतम् ॥६-२०-३५॥ सर्वम् तदुपपद्येथा जह्यम् चेद्यदि जीवितम् । नाघातयत्तदा रामः श्रुत्वा तत्परिदेवितम् ॥६-२०-३६॥ वानरानब्रवीद्रामो मुच्यताम् दूत आगतः ।
एकविंशः सर्गः ॥६-२१॥
सम्पाद्यताम्ततः सागरवेलायाम् दर्भानास्तीर्य राघवः । अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२१-१॥ बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः । मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः ॥६-२१-२॥ भुजैः परमनारीणामभिमृष्टमनेकधा ॥६-२१-३॥ चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम् ॥६-२१-४॥ बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् । शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा ॥६-२१-५॥ तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् । सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम् ॥६-२१-६॥ सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् । अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् । दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम् ॥६-२१-७॥ गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् । अद्य मे मरणम् वाथ तरणम् सागरस्य वा ॥६-२१-८॥ इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् । अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः ॥६-२१-९॥ तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले । नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः ॥६-२१-१०॥ स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः । उपासत तदा रामः सागरम् सरिताम् पतिम् ॥६-२१-११॥ न च दर्शयते मन्दस् तदा रामस्य सागरः । प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः ॥६-२१-१२॥ समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः । समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥६-२१-१३॥ अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् । प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता ॥६-२१-१४॥ असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः । आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥६-२१-१५॥ सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् । न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः ॥६-२१-१६॥ प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि । अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् । निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः ॥६-२१-१७॥ भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण ॥६-२१-१८॥ महाभोगानि मत्स्यानाम् करिणाम् च करान् इह । सशन्ख शुक्तिका जालम् समीन मकरम् शरैः ॥६-२१-१९॥ अद्य युद्धेन महता समुद्रम् परिशोषये । क्षमया हि समायुक्तम् माम् अयम् मकर आलयः ॥६-२१-२०॥ असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने । स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥ चापम् आनय सौमित्रे शरामः च आशी विष उपमान् । समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥६-२१-२२॥ अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् । वेलासु कृत मर्यादम् सहसा ऊर्मि समाकुलम् ॥६-२१-२३॥ निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् । महार्णवम् क्षोBहयिष्ये महादानवसम्कुलम् ॥६-२१-२४॥ एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः । बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन् ॥६-२१-२५॥ सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् । मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः ॥६-२१-२६॥ ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः । प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम् ॥६-२१-२७॥ ततो वेगः समुद्रस्य सनक्र मकरो महान् । स बभूव महाघोरः समारुत रवस् तदा ॥६-२१-२८॥ महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः । सधूम परिवृत्त ऊर्मिः सहसा अभून् महाउदधिः ॥६-२१-२९॥ व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः । दानवाः च महावीर्याः पाताल तल वासिनः ॥६-२१-३०॥ ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा । विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥ आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः । उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः ॥६-२१-३२॥ ततस्तु तम् राघव मुग्रवेगम् । प्रकर्षमाणम् ध्मरप्रमेयम् । सौमित्रिरुत्पत्य विनिःश्वसन्तम् । मामेति चोक्त्वा धनुराललम्बे ॥६-२१-३३॥ एतद्विनापि ह्युदधेस्तवार्य । सम्पत्स्यते वीरतमस्य कार्यम् । भवद्विधाः क्रोधवशम् न यान्ति । दीर्घम् भवान्पश्यतु साधुवृत्तम् ॥६-२१-३४॥ अन्तर्हितैश्चापि तथान्तरिक्षे । ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च । शब्दः कृतः कष्टमिति ब्रुवद्भि । र्मा मेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥
द्वाविंशः सर्गः ॥६-२२॥
सम्पाद्यताम्अथोवाच रघुश्रेष्ठः सागरम् दारुणम् वचः । अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव ॥६-२२-१॥ शरनिर्दग्धतोयस्य परिशुष्कस्य सागर । मया निहतसत्त्वस्य पाम्सुरुत्पद्यते महान् ॥६-२२-२॥ मत्कार्मुकनिसृष्टेन शरवर्षेण सागर । परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥६-२२-३॥ विचिन्वन्नाभिजानासि पौरुषम् वापि विक्रमम् । दाव्नवालय सम्तापम् मत्तो नाम गमिष्यसि ॥६-२२-४॥ ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभम् शरम् । सम्योज्य धनुषि श्रे ष्ठे विचकर्ष महाबलः ॥६-२२-५॥ तस्मिन्विकृष्टे सहसा राघवेण शरासने । रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥ तमश्च लोकमावव्रे दिशश्च न चकाशिरे । प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥६-२२-७॥ तिर्यक् च सह नक्षत्रैः सम्गतौ चन्द्रभास्करौ । भास्कराम्शुभिरादीप्तम् तमसा च समावृतम् ॥६-२२-८॥ प्रचकाशे तदाकाशमुल्काशतविदीपितम् । अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥६-२२-९॥ वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्त्यः । बभञ्ज च तदा वृक्षान् जलदानुद्वहन् मुहुः ॥६-२२-१०॥ आरुजम्श्चैव शैलाग्रान् शिखराणि बभञ्ज च । दिवि च स्म महावेगाः सम्हताः समहास्वनाः ॥६-२२-११॥ मुमुचुर्वैद्युतानग्नीम्स्ते महाशनयस्तदा । यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥ अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् । शिश्यरे चाभिभूतानि सम्त्रस्ताम्यद्विजन्ति च ॥६-२२-१३॥ सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् । सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥ सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः । योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥ तम् तथा समतिक्रान्तम् नातिचक्राम राघवः । समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥६-२२-१६॥ ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः । उदयन् हि महाशैलान् मेरोर् इव दिवा करः ॥६-२२-१७॥ पन्नगैः सह दीप्त आस्यैः समुद्रः प्रत्यदृश्यत । स्निग्ध वैदूर्य सम्काशो जाम्बू नद विभूषितः ॥६-२२-१८॥ रत्न माल्य अम्बर धरः पद्म पत्र निभ ईक्षणः । सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥६-२२-१९॥ जातरूपमयैश्चैव तपनीयविभूषितो भूषणोत्तमैः । आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः ॥६-२२-२०॥ धातुभिर्मण्डितः शैलो विविधैर्हमवानिव । एकावलीमध्यगतम् तरलम् पाण्डरप्रभम् ॥६-२२-२१॥ विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् । आघूर्णिततरङ्गौघःकालिकानिलसम्कुलः ॥६-२२-२२॥ गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः । देवतानाम् सरूपाभिर्नानारूपाभिरीश्वरः ॥६-२२-२३॥ सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् । अब्रवीत् प्रान्जलिर् वाक्यम् राघवम् शर पाणिनम् ॥६-२२-२४॥ पृथिवी वायुर् आकाशम् आपो ज्योतिः च राघवः । स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥६-२२-२५॥ तत् स्वभावो मम अपि एष यद् अगाधो अहम् अप्लवः । विकारस् तु भवेद् राध एतत् ते प्रवदामि अहम् ॥६-२२-२६॥ न कामान् न च लोभाद् वा न भयात् पार्थिव आत्मज । रागान्नक्राकुलजलम् स्तम्भयेयम् कथम्चन ॥६-२२-२७॥ विधास्ये येन गन्तासि विषहिष्ये ह्यहम् तथा । न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥६-२२-२८॥ हरीणाम् तरणे राम करिष्यामि यथास्थलम् । तमब्रवीत्तदा रामः शृणु मे वरुणालय ॥६-२२-२९॥ अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यताम् । रामस्य वचनम् श्रुत्वा तम् च दृष्ट्वा महाशरम् ॥६-२२-३०॥ महोदधिर्महातेजा राघवम् वाक्यमब्रवीत् । उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥६-२२-३१॥ द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् । उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः ॥६-२२-३२॥ आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम । तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः ॥६-२२-३३॥ अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः । तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः ॥६-२२-३४॥ मुमोच तम् शरम् दीप्तम् परम् सागरदर्शनात् । तेन तन्मरुकान्तारम् प्^इथिव्याम् किल विश्रुतम् ॥६-२२-३५॥ विपातितः शरो यत्र वज्राशनिसमप्रभः । ननाद च तदा तत्र वसुधा शल्यपीडिता ॥६-२२-३६॥ तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् । स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥६-२२-३७॥ सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते । अवदारणशब्दश्च दारुणः समपद्यत ॥६-२२-३८॥ तस्मात्तद्बाणपातेन अपः कुक्षिष्वशोषयत् । विख्यातम् त्रिषु लोकेषु मधुकान्तारमेव च ॥६-२२-३९॥ शोषयित्वा तु तम् कुक्षिम् रामो दशरथात्मजः । वरम् तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ॥६-२२-४०॥ पशव्यश्चाल्परोगश्च फलमूलरसायुतः । बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥६-२२-४१॥ एवमेतैर्गुणैर्युक्तो बहिभिः सम्युतो मरुः । रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४२॥ तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः । राघवम् सर्वशास्त्रज्ञमिदम् वचनम्ब्रवीत् ॥६-२२-४३॥ अयम् सौम्य नलो नाम तनुजो विश्व कर्मणः । पित्रा दत्त वरः श्रीमान् प्रतिमो विश्व कर्मणः ॥६-२२-४४॥ एष सेतुम् महाउत्साहः करोतु मयि वानरः । तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥६-२२-४५॥ एवम् उक्त्वा उदधिर् नष्टः समुत्थाय नलस् ततः । अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलः ॥६-२२-४६॥ अहम् सेतुम् करिष्यामि विस्तीर्णे वरुण आलये । पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महाउदधिः ॥६-२२-४७॥ असौ तु सागरो भीमः सेतुकर्मदिदृक्षया । ददौ दण्डभयाद्गाधम् राघवाय महोदधिः ॥६-२२-४८॥ मम मातुर् वरो दत्तो मन्दरे विश्व कर्मणा । औरसस् तस्य पुत्रो अहम् सदृशो विश्व कर्मणा ॥६-२२-४९॥ औरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा। स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः ॥६-२२-५०॥ न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् । समर्थ्श्चाप्यहम् सेतुम् कर्तुम् वै वरुणालये ॥६-२२-५१॥ तस्मादद्यैव बध्नन्तु सेतुम् वानरपुङ्गवाः । ततो निसृष्ट रामेण सर्वतो हरि यूथपाः ॥६-२२-५२॥ अभिपेतुर् महाअरण्यम् हृष्टाः शत सहस्रशः । ते नगान् नग सम्काशाः शाखा मृग गण ऋषभाः ॥६-२२-५३॥ बभन्जुर् वानरास् तत्र प्रचकर्षुः च सागरम् । ते सालैः च अश्व कर्णैः च धवैर् वम्शैः च वानराः ॥६-२२-५४॥ कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि । बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ॥६-२२-५५॥ चूतैः च अशोक वृक्षैः च सागरम् समपूरयन् । समूलामः च विमूलामः च पादपान् हरि सत्तमाः ॥६-२२-५६॥ इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् । तालान् दाडिमगुल्माम्श्च नारिकेलविभीतकान् ॥६-२२-५७॥ करीरान् बकुलान्निम्बान् समाजह्रुरितस्ततः । हस्तिमात्रान् महाकायाः पाषाणाम्श्च महाबलाः ॥६-२२-५८॥ पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च । प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् ॥६-२२-५९॥ समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः । समुद्रम् क्षोभयामासुर्निपतन्तः समन्ततः ॥६-२२-६०॥ सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् । नलः चक्रे महासेतुम् मध्ये नद नदी पतेः ॥६-२२-६१॥ स तदा क्रियते सेतुर्वानरै र्घोरकर्मभिः । दण्डनन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥६-२२-६२॥ वानरैः शतशस्तत्र रामस्यज्ञापुरःसरैः । मेघाभैः पर्वताभश्च तृणैः काष्ठैर्बबन्धरे ॥६-२२-६३॥ पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः । पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च ॥६-२२-६४॥ दृश्यन्ते परिधावन्तो गृह्य दानवसम्निभाः । शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् ॥६-२२-६५॥ बभूव तुमुलः शब्दस् तदा तस्मिन् महाउदधौ । कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६-२२-६६॥ प्रहृष्टैजसम्काशैस्त्वरमाणैः प्लवङ्गमैः । द्वितीयेन तथैवाह्ना योजनानि तु विशतिः ॥६-२२-६७॥ कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः । अह्ना तृतीयेन तथा योजनानि तु सागरे ॥६-२२-६८॥ त्वरमाणैर्महाकयैरेकविम्शतिरेव च । चतुर्थेन तथा चाह्ना द्वाविम्शतिरथापि वा ॥६-२२-६९॥ योजनानि महावेगैः कृतानि त्वरितैस्ततः । पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥६-२२-७०॥ योजनानि त्रयोविम्शत्सुवेलमधिकृत्य वै । स वानरवरः श्रीमान् विश्वकर्मात्मजो बली ॥६-२२-७१॥ बबन्ध सागरे सेतुम् यथा चास्य तथा पिता । स नलेन कृतः सेतुः सागरे मकर आलये ॥६-२२-७२॥ शुशुभे सुभगः श्रीमान् स्वाती पथ इव अम्बरे । ततो देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ॥६-२२-७३॥ आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् । दशयोजनविस्तीर्णम् शतयोजन मायतम् ॥६-२२-७४॥ ददृशुर्देवगन्धर्वा नलसेतुम् सुदुष्करम् । आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-२२-७५॥ तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम हर्षणम् । ददृशुः सर्व भूतानि सागरे सेतु बन्धनम् ॥६-२२-७६॥ तानि कोटि सहस्राणि वानराणाम् महाओजसाम् । बध्नन्तः सागरे सेतुम् जग्मुः पारम् महाउदधेः ॥६-२२-७७॥ विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः । अशोभत महासेतुः सीमन्त इव सागरे ॥६-२२-७८॥ ततः परे समुद्रस्य गदा पाणिर् विभीषणः । परेषाम् अभिघत अर्थम् अतिष्ठत् सचिवैः सह ॥६-२२-७९॥ सुग्रीवस्तु ततः प्राह रामम् सत्यपराक्रमम् । हनुमन्तम् त्वमारोह अङ्गदम् त्वथ लक्ष्मणः ॥६-२२-८०॥ अयम् हि विपुलो वीर सागरो मकरालयः । वैहायसौ युवामेतौ वानरौ धारयिष्यतः ॥६-२२-८१॥ अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः । जगाम धन्वी धर्म आत्मा सुग्रीवेण समन्वितः ॥६-२२-८२॥ अन्ये मध्येन गच्चन्ति पार्श्वतो अन्ये प्लवम् गमाः । सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे ॥६-२२-८३॥ केचिद् वैहायस गताः सुपर्णा इव पुप्लुवुः । घोषेण महता घोषम् सागरस्य समुच्च्रितम् ॥६-२२-८४॥ भीमम् अन्तर् दधे भीमा तरन्ती हरि वाहिनी । वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना ॥६-२२-८५॥ तीरे निविविशे राज्ञा बहु मूल फल उदके । तद् अद्भुतम् राघव कर्म दुष्करम् । समीक्ष्य देवाः सह सिद्ध चारणैः । उपेत्य रामम् सहिता महर्षिभिः । समभ्यषिन्चन् सुशुभिअर् जलैः पृथक् ॥६-२२-८६॥ जयस्व शत्रून् नर देव मेदिनीम् । ससागराम् पालय शाश्वतीः समाः । इति इव रामम् नर देव सत्कृतम् । शुभैर् वचोभिर् विविधैर् अपूजयन् ॥६-२२-८७॥
त्रयोविंशः सर्गः ॥६-२३॥
सम्पाद्यताम्निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः । सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥६-२३-१॥ परिगृह्योदकम् शीतम् वनानि फलवन्ति च । बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥६-२३-२॥ लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् । प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥६-२३-३॥ वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा । पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥६-२३-४॥ मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥६-२३-५॥ रक्तचन्दनसम्काशा सम्ध्या परमदारुणा । ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६-२३-६॥ दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः । प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥६-२३-७॥ रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः । कृष्णरक्ताम्शुपर्यन्तो लोकक्षय इवोदितः ॥६-२३-८॥ ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः । आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥६-२३-९॥ रजसा महता चापि नक्षत्राणि हतानि च । युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥६-२३-१०॥ काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च । शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥६-२३-११॥ शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्माम्सशोणितकर्दमा ॥६-२३-१२॥ क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् । अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥६-२३-१३॥ इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः । प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥६-२३-१४॥ सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः । प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥६-२३-१५॥ राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् । हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥६-२३-१६॥
चतुर्विंशः सर्गः ॥६-२४॥
सम्पाद्यताम्सा वीरसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥६-२४-१॥ प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा । पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥ ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः । भेरीमृदङ्गसम्घुष्टम् तुमुलम् रोमहर्षणम् ॥६-२४-३॥ बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः । अमृष्यमाणास्तम् घोषम् विनेदुर्घोषवत्तरम् ॥६-२४-४॥ राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् । वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥ दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनिम्म् । जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥ अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते । अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥ दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् । उवाच वचनम् वीरस्तत्कालहितमात्मनः ॥६-२४-८॥ आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण । मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥ विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा । विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥ पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः । नानापतगसम्घुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥ पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च । कोकिलाकुलखण्डानि दोधवीति शिवोऽविलः ॥६-२४-१२॥ इति दाशरथीरमो लक्ष्मणम् समभाषत । बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥ शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् । अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥ तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः । आशिर्तो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥ गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । तिष्ठेद्वानरवाहिन्याः सव्यम् पक्षमधिष्ठतः ॥६-२४-१६॥ मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः । जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥ ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः । जघनम् कपिसेनायाः कपिराजोऽभिरक्षतु ॥६-२४-१८॥ पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः । सुविभक्तमहाव्यूहा महावानररक्षिता ॥६-२४-१९॥ अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा । प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥ आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे । शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥ इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः । ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥ सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् । रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥ मोचयामास तम् दूतम् शुकम् रामस्य शासनात् । मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥ शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् । रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥ किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे । कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥ ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः । वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥ सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा । यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥ क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः । गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥ न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते । प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥ स च हन्ता विराधस्य कबन्धस्य खरस्य च । सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥ स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् । एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥ ऋक्षवानरसम्घानामनीकानि सहस्रशः । गिरिमेघनिकाशानाम् चादयन्ति वसुन्धराम् ॥६-२४-३३॥ राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च । नैतयोर्विद्यते सम्धिर्देवदानवयोरिव ॥६-२४-३४॥ पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु । सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥ शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् । रोषसम्रक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३६॥ यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः । नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥ कदा समभिधानन्ति मामका राघवम् शराः । वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥ कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः । शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३९॥ तच्चास्य बलमादास्ये बलेन महता वृतः । ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥६-२४-४०॥ सागरस्येव मे वेगो मारुतस्येव मे बलम् । न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥ न मे तूणीशयान् बाणान् सनिषानिव पन्नगान् । रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥ न जानाति पुरा वीर्यम् मम युद्धे स राघवः । मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥ ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् । नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥ अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे । न वासवेनापि स हस्रचक्षुषा । युद्धेऽस्मि शक्यो वरुणेन वास्वयम् । यमेव वा धर्षयितुम् शराग्निना । महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥
पञ्चविंशः सर्गः ॥६-२५॥
सम्पाद्यताम्सबले सागरम् तीर्णे रामे दशरथ आत्मजे । अमात्यौ रावणः श्रीमान् अब्रवीत् शुक सारणौ ॥६-२५-१॥ समग्रम् सागरम् तीर्णम् दुस्तरम् वानरम् बलम् । अभूत पूर्वम् रामेण सागरे सेतु बन्धनम् ॥६-२५-२॥ सागरे सेतु बन्धम् तु न श्रद्दध्याम् कथम्चन । अवश्यम् च अपि सम्ख्येयम् तन् मया वानरम् बलम् ॥६-२५-३॥ भवन्तौ वानरम् सैन्यम् प्रविश्य अनुपलक्षितौ । परिमाणम् च वीर्यम् च ये च मुख्याः प्लवम् गमाः ॥६-२५-४॥ मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः । ये पूर्वम् अभिवर्तन्ते ये च शूराः प्लवम् गमाः ॥६-२५-५॥ स च सेतुर् यथा बद्धः सागरे सलिल अर्णवे । निवेशः च यथा तेषाम् वानराणाम् महात्मनाम् ॥६-२५-६॥ रामस्य व्यवसायम् च वीर्यम् प्रहरणानि च । लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुम् अर्हथ ॥६-२५-७॥ कः च सेना पतिस् तेषाम् वानराणाम् महाओजसाम् । एतज् ज्ञात्वा यथा तत्त्वम् शीघ्रम् अगन्तुम् अर्हथः ॥६-२५-८॥ इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ । हरि रूप धरौ वीरौ प्रविष्टौ वानरम् बलम् ॥६-२५-९॥ ततस् तद् वानरम् सैन्यम् अचिन्त्यम् लोम हर्षणम् । सम्ख्यातुम् न अध्यगच्चेताम् तदा तौ शुक सारणौ ॥६-२५-१०॥ तत् स्थितम् पर्वत अग्रेषु निर्दरेषु गुहासु च । समुद्रस्य च तीरेषु वनेषु उपवनेषु च ॥६-२५-११॥ तरमाणम् च तीर्णम् च तर्तु कामम् च सर्वशः । निविष्टम् निविशच् चैव भीम नादम् महाबलम् ॥६-२५-१२॥ तद्बलार्णवमक्षोभ्यम् ददृशाते निशाचरौ । तौ ददर्श महातेजाः प्रच्चन्नौ च विभीषणः ॥६-२५-१३॥ आचचक्षे अथ रामाय गृहीत्वा शुक सारणौ । तस्यैतौ राक्षसेन्द्रस्य मन्त्रिणौ शुक्सारणौ ॥६-२५-१४॥ लंकायाः समनुप्राप्तौ चारौ पर पुरम् जयौ । तौ दृष्ट्वा व्यथितौ रामम् निराशौ जीविते तदा ॥६-२५-१५॥ कृत अन्जलि पुटौ भीतौ वचनम् च इदम् ऊचतुः । आवाम् इह आगतौ सौम्य रावण प्रहिताव् उभौ ॥६-२५-१६॥ परिज्ञातुम् बलम् कृत्स्नम् तव इदम् रघु नन्दन । तयोस् तद् वचनम् श्रुत्वा रामो दशरथ आत्मजः ॥६-२५-१७॥ अब्रवीत् प्रहसन् वाक्यम् सर्व भूत हिते रतः । यदि दृष्टम् बलम् कृत्स्नम् वयम् वा सुसमीक्षिताः ॥६-२५-१८॥ यथा उक्तम् वा कृतम् कार्यम् चन्दतः प्रतिगम्यताम् । अथ किम्चिददृष्टम् वा भूयस्तद्द्रष्टुमर्हथः ॥६-२५-१९॥ विभीषनो वा कार्त्स्न्येन पुनः सम्दर्शयिष्यति । न चेदम् ग्रहम् णम् प्रप्य भेतव्यम् जीवितम् प्रति ॥६-२५-२०॥ व्यस्तशस्त्रौ गृहीतौ च न दूतौ वधमर्हतः । प्रच्चन्नौ च विमुञ्चएमौ चारौ रात्रिम्च रावुभौ ॥६-२५-२१॥ शत्रुपक्षस्य सततम् विभीषण विकर्षिणौ । प्रविश्य नगरीम् लंकाम् भवद्भ्याम् धनद अनुजः ॥६-२५-२२॥ वक्तव्यो रक्षसाम् राजा यथा उक्तम् वचनम् मम । यद् बलम् च समाश्रित्य सीताम् मे हृतवान् असि ॥६-२५-२३॥ तद् दर्शय यथा कामम् ससैन्यः सह बान्धवः । श्वः काले नगरीम् लंकाम् सप्राकाराम् सतोरणाम् ॥६-२५-२४॥ राक्षसम् च बलम् पश्य शरैर् विध्वम्सितम् मया । खोधम् भीममहम् मोक्ष्ये बलम् धारय रावण ॥६-२५-२५॥ श्वः काले वज्रवान् वज्रम् दानवेष्व् इव वासवः । इति प्रतिसमादिष्टौ राक्षसौ शुक सारणौ ॥६-२५-२६॥ जयेति प्रतिनन्द्यैनम् राघवम् धर्मवत्सलम् । आगम्य नगरीम् लंकाम् अब्रूताम् राक्षस अधिपम् ॥६-२५-२७॥ विभीषण गृहीतौ तु वध अर्हौ राक्षस ईश्वर । दृष्ट्वा धर्म आत्मना मुक्तौ रामेण अमित तेजसा ॥६-२५-२८॥ एक स्थान गता यत्र चत्वारः पुरुष ऋषभाः । लोक पाल उपमाः शूराः कृत अस्त्रा दृढ विक्रमाः ॥६-२५-२९॥ रामो दाशरथिः श्रीमाम्ल् लक्ष्मणः च विभीषणः । सुग्रीवः च महातेजा महाइन्द्र सम विक्रमः ॥६-२५-३०॥ एते शक्ताः पुरीम् लंकाम् सप्राकाराम् सतोरणाम् । उत्पाट्य सम्क्रामयितुम् सर्वे तिष्ठन्तु वानराः ॥६-२५-३१॥ यादृशम् तस्य रामस्य रूपम् प्रहरणानि च । वधिष्यति पुरीम् लंकाम् एकस् तिष्ठन्तु ते त्रयः ॥६-२५-३२॥ राम लक्ष्मण गुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सर्वैर् अपि सुर असुरैः ॥६-२५-३३॥ प्रहृष्ट रूपा ध्वजिनी वन ओकसाम् । वनौकसाम् सम्प्रति योद्धुम् इच्चताम् । अलम् विरोधेन शमो विधीयताम् । प्रदीयताम् दाशरथाय मैथिली ॥६-२५-३४॥
षड्विंशः सर्गः ॥६-२६॥
सम्पाद्यताम्तद् वचः पथ्यम् अक्लीबम् सारणेन अभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥६-२६-१॥ यदि माम् अभियुन्जीरन् देव गन्धर्व दानवाः । न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-२६-२॥ त्वम् तु सौम्य परित्रस्तो हरिभिर् निर्जितो भृशम् । प्रतिप्रदानम् अद्य एव सीतायाः साधु मन्यसे ॥६-२६-३॥ को हि नाम सपत्नो माम् समरे जेतुम् अर्हति । इति उक्त्वा परुषम् वाक्यम् रावणो राक्षस अधिपः ॥६-२६-४॥ आरुरोह ततः श्रीमान् प्रासादम् हिम पाण्डुरम् । बहु ताल समुत्सेधम् रावणो अथ दिदृक्षया ॥६-२६-५॥ ताभ्याम् चराभ्याम् सहितो रावणः क्रोध मूर्चितः । पश्यमानः समुद्रम् च पर्वतामः च वनानि च ॥६-२६-६॥ ददर्श पृथिवी देशम् सुसम्पूर्णम् प्लवम् गमैः । तद् अपारम् असम्ख्येयम् वानराणाम् महद् बलम् ॥६-२६-७॥ आलोक्य रावणो राजा परिपप्रच्च सारणम् । एषाम् वानर मुख्यानाम् के शूराः के महाबलाः ॥६-२६-८॥ के पूर्वम् अभिवर्तन्ते महाउत्साहाः समन्ततः । केषाम् शृणोति सुग्रीवः के वा यूथप यूथपाः ॥६-२६-९॥ सारण आचक्ष्व मे सर्वम् के प्रधानाः प्लवम् गमाः । सारणो राक्षस इन्द्रस्य वचनम् परिपृच्चतः ॥६-२६-१०॥ आचचक्षे अथ मुख्यज्ञो मुख्याम्स् ताम्स् तु वन ओकसः । एष यो अभिमुखो लंकाम् नर्दम्स् तिष्ठति वानरः ॥६-२६-११॥ यूथपानाम् सहस्राणाम् शतेन परिवारितः । यस्य घोषेण महता सप्राकारा सतोरणा ॥६-२६-१२॥ लंका प्रवेपते सर्वा सशैल वन कानना । सर्व शाखा मृग इन्द्रस्य सुग्रीवस्य महात्मनः ॥६-२६-१३॥ बल अग्रे तिष्ठते वीरो नीलो नाम एष यूथपः । बाहू प्रगृह्य यः पद्भ्याम् महीम् गच्चति वीर्यवान् ॥६-२६-१४॥ लंकाम् अभिमुखः कोपाद् अभीक्ष्णम् च विजृम्भते । गिरि शृन्ग प्रतीकाशः पद्म किन्जल्क सम्निभः ॥६-२६-१५॥ स्फोटयति अभिसम्रब्धो लान्गूलम् च पुनः पुनः । यस्य लान्गूल शब्देन स्वनन्ति इव दिशो दश ॥६-२६-१६॥ एष वानर राजेन सुर्ग्रीवेण अभिषेचितः । यौवराज्ये अन्गदो नाम त्वाम् आह्वयति सम्युगे ॥६-२६-१७॥ वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः । राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥६-२६-१८॥ एतस्य सा मतिः सर्वा यद्दृष्टा जनकात्मजा । हनूमता वेगवता राघवस्य हितैषिणा ॥६-२६-१९॥ बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् । परिगृह्याभियाति त्वाम् स्वेनानीकेन मर्दितुम् ॥६-२६-२०॥ अनुवालिसुतस्यापि बलेन महता वृतः । वीरस्तिष्ठति सम्ग्रामे सेतुहेतुरयम् नलः ॥६-२६-२१॥ ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च । उत्थाय च विजृम्भन्ते क्रोधेन हरि पुम्गवाः ॥६-२६-२२॥ एते दुष्प्रसहा घोराः चण्डाः चण्ड पराक्रमाः । अष्टौ शत सहस्राणि दश कोटि शतानि च ॥६-२६-२३॥ य एनम् अनुगच्चन्ति वीराः चन्दन वासिनः । एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-२४॥ श्वेतो रजत सम्काशः सबलो भीम विक्रमः । बुद्धिमान् वानरः शूरस् त्रिषु लोकेषु विश्रुतः ॥६-२६-२५॥ तूर्णम् सुग्रीवम् आगम्य पुनर् गच्चति वानरः । विभजन् वानरीम् सेनाम् अनीकानि प्रहर्षयन् ॥६-२६-२६॥ यः पुरा गोमती तीरे रम्यम् पर्येति पर्वतम् । नाम्ना सम्कोचनो नाम नाना नग युतो गिरिः ॥६-२६-२७॥ तत्र राज्यम् प्रशास्ति एष कुमुदो नाम यूथपः । यो असौ शत सहस्राणाम् सहस्रम् परिकर्षति ॥६-२६-२८॥ यस्य वाला बहु व्यामा दीर्घ लान्गूलम् आश्रिताः । ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२६-२९॥ अदीनो रोषणः चण्डः सम्ग्रामम् अभिकान्क्षति । एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-३०॥ यस् त्व् एष सिम्ह सम्काशः कपिलो दीर्घ केसरः । निभृतः प्रेक्षते लंकाम् दिधक्षन्न् इव चक्षुषा ॥६-२६-३१॥ विन्ध्यम् कृष्ण गिरिम् सह्यम् पर्वतम् च सुदर्शनम् । राजन् सततम् अध्यास्ते रम्भो नाम एष यूथपः ॥६-२६-३२॥ शतम् शत सहस्राणाम् त्रिम्शच् च हरि यूथपाः । यम् यान्तम् वानरा घोराश्चण्डाश्चण्ड्पराक्रमाः ॥६-२६-३३॥ परिवार्य अनुगच्चन्ति लंकाम् मर्दितुम् ओजसा । यस् तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ॥६-२६-३४॥ न च सम्विजते मृत्योर् न च यूथाद् विधावति । प्रकम्पते च रोषेन तिर्यक्च पुनरीक्षते ॥६-२६-३५॥ पश्यन् लाङ्गूलमपि च क्स्वेडत्येष महाबलः । महाबलो वीत भयो रम्यम् साल्वेय पर्वतम् ॥६-२६-३६॥ राजन् सततम् अध्यास्ते शरभो नाम यूथपः । एतस्य बलिनः सर्वे विहारा नाम यूथपाः ॥६-२६-३७॥ राजन् शत सहस्राणि चत्वारिम्शत् तथैव च । यस् तु मेघ इव आकाशम् महान् आवृत्य तिष्ठति ॥६-२६-३८॥ मध्ये वानर वीराणाम् सुराणाम् इव वासवः । भेरीणाम् इव सम्नादो यस्य एष श्रूयते महान् ॥६-२६-३९॥ घोरः शाखा मृग इन्द्राणाम् सम्ग्रामम् अभिकान्क्षताम् । एष पर्वतम् अध्यास्ते पारियात्रम् अनुत्तमम् ॥६-२६-४०॥ युद्धे दुष्प्रसहो नित्यम् पनसो नाम यूथपः । एनम् शत सहस्राणाम् शत अर्धम् पर्युपासते ॥६-२६-४१॥ यूथपा यूथप श्रेष्ठम् येषाम् यूथानि भागशः । यस् तु भीमाम् प्रवल्गन्तीम् चमूम् तिष्ठति शोभयन् ॥६-२६-४२॥ स्थिताम् तीरे समुद्रस्य द्वितीय इव सागरः । एष दर्दर सम्काशो विनतो नाम यूथपः ॥६-२६-४३॥ पिबमः चरति पर्णाशाम् नदीनाम् उत्तमाम् नदीम् । षष्टिः शत सहस्राणि बलम् अस्य प्लवम् गमाः ॥६-२६-४४॥ त्वाम् आह्वयति युद्धाय क्रथनो नाम यूथपः । विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ॥६-२६-४५॥ यस् तु गैरिक वर्ण आभम् वपुः पुष्यति वानरः । अवमत्य सदा सर्वान्वानरान् बलदर्पितः ॥६-२६-४६॥ गवयो नाम तेजस्वी त्वाम् क्रोधाद् अभिवर्तते । एनम् शत सहस्राणि सप्ततिः पर्युपासते । एष आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ॥६-२६-४७॥ एते दुष्प्रसहा घोरा बलिनः काम रूपिणः । यूथपा यूथप श्रेष्ठा येषाम् सम्ख्या न विद्यते ॥६-२६-४८॥
सप्तविंशः सर्गः ॥६-२७॥
सम्पाद्यताम्ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥ स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः । ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥ प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः । पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥ यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः । वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥ यूथपा हरिराजस्य किम्कराः समुपस्थिताः । नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥ असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् । असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥ पर्वतेषु च ये केचिद् विषमेषु नदीषु च । एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥ एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः । पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥ ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् । सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥ यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥ स एष जाम्बवान् नाम महायूथप यूथपः । प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥ एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता । देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥ आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः । मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥ राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः । एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥ यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् । प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥ एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः । बलेन बल सम्पन्नो रम्भो नाम एष यूथपः ॥६-२७-१६॥ यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते । ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥ यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते । श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥ येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता । पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥ यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः । एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥ तत्र देवासुरे युद्धे साह्यार्थम् त्रिदिवौकसाम् । यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥ यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् । विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥ तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः । युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥ वृतः कोटि सहस्रेण हरीणाम् समवस्थितः । एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥ यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् । हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥ एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः । गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥ हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु । उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥ रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् । एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥ वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् । स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥ स एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः । वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥ अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् । उद्धूतमरुणाभासम् पवनेन समन्ततः ॥६-२७-३१॥ विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः । एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥ शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् । गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥ परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा । भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥ यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् । यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥ यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः । सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥ मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे । तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥ मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः । षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥ तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् । तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥ निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः । सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥ सर्वे वैश्वनर समा ज्वलित आशी विष उपमाः । सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥ महापर्वत सम्काशा महाजीमूत निस्वनाः । वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥ मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्य ते । एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥ जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् । नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥ एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् । विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥ रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः । गजो गव अक्षो गवयो नलो नीलः च वानरः । एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥ तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः । न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥ सर्वे महाराज महाप्रभावाः । सर्वे महाशैल निकाश कायाः । सर्वे समर्थाः पृथिवीम् क्षणेन । कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥
अष्टाविंशः सर्गः ॥६-२८॥
सम्पाद्यताम्सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् । बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥६-२८-१॥ स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् । न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥६-२८-२॥ एते दुष्प्रसहा राजन् बलिनः काम रूपिणः । दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥६-२८-३॥ एषाम् कोटि सहस्राणि नव पन्च च सप्त च । तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥६-२८-४॥ एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा । हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥६-२८-५॥ यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ । मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६-२८-६॥ ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ । आशम्सेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥६-२८-७॥ यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् । यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥६-२८-८॥ एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो । एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥६-२८-९॥ ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः । हनूमान् इति विख्यातो लन्घितो येन सागरः ॥६-२८-१०॥ काम रूपी हरि श्रेष्ठो बल रूप समन्वितः । अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥६-२८-११॥ उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः । त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥६-२८-१२॥ आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति । इति सम्चिन्त्य मनसा पुरा एष बल दर्पितः ॥६-२८-१३॥ अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः । अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥६-२८-१४॥ पतितस्य कपेर् अस्य हनुर् एका शिला तले । किम्चिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥६-२८-१५॥ सत्यम् आगम योगेन मम एष विदितो हरिः । न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥६-२८-१६॥ एष आशम्सते लंकाम् एको मर्दितुम् ओजसा । येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥६-२८-१७॥ लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् । यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥६-२८-१८॥ इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः । यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥६-२८-१९॥ यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः । यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् ॥६-२८-२०॥ यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः । यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥६-२८-२१॥ स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते । यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥६-२८-२२॥ विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः । एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥६-२८-२३॥ नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः । अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥६-२८-२४॥ रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः । न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥६-२८-२५॥ एष एव आशम्सते युद्धे निहन्तुम् सर्व राक्षसान् । यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥६-२८-२६॥ रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः । श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥६-२८-२७॥ त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते । यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥६-२८-२८॥ सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् । तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥६-२८-२९॥ यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् । किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥६-२८-३०॥ दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः । यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥६-२८-३१॥ कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता । एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥६-२८-३२॥ सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः । शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ॥६-२८-३३॥ शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते । शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥६-२८-३४॥ महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते । शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥६-२८-३५॥ महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते । शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥६-२८-३६॥ महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते । शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥६-२८-३७॥ महाखर्वसहस्राणाम् समुद्रमभिधीयते । शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ॥६-२८-३८॥ शतमोघसहस्राणाम् महौघ इति विश्रुतः । एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥६-२८-३९॥ महाशङ्कुसहस्रेण तथा वृन्दशतेन च । महावृन्दसहस्रेण तथा पद्मशतेन च ॥६-२८-४०॥ महापद्मसहस्रेण तथा खर्वशतेन च । समुद्रेण च तेनैव महुघेन तथैव च ॥६-२८-४१॥ एष कोटिमहौघेन समुद्रसदृशेन च । विभीषणेन वीरेण सचिवैः परिवारितः ॥६-२८-४२॥ सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते । महाबलवृतो नित्यम् महाबलपराक्रमः ॥६-२८-४३॥ इमाम् महाराज समीक्ष्य वाहिनीम् । उपस्थिताम् प्रज्वलित ग्रह उपमाम् । ततः प्रयत्नः परमो विधीयताम् । यथा जयः स्यान् न परैः पराजयः ॥६-२८-४४॥
एकोनत्रिंशः सर्गः ॥६-२९॥
सम्पाद्यताम्शुकेन तु समाख्याताम्स् तान् दृष्ट्वा हरि यूथपान् । लक्ष्मणम् च महावीर्यम् भुजम् रामस्य दक्षिणम् ॥६-२९-१॥ समीपस्थम् च रामस्य भ्रातरम् स्वम् विभीषणम् । सर्व वानर राजम् च सुग्रीवम् भीम विक्रमम् ॥६-२९-२॥ अङ्गदम् चापि बलिनम् वज्रहस्तात्मजात्मजम् । हनूमन्तम् च विक्रान्तम् जाम्बवन्तम् च दुर्जयम् ॥६-२९-३॥ सुषेणम् कुमुदम् नीलम् नलम् च प्लवगर्षभम् । गजम् गवाक्षम् शरभम् वैन्दम् च द्विविदम् तथा ॥६-२९-४॥ किम्चिद् आविग्न हृदयो जात क्रोधः च रावणः । भर्त्सयाम् आस तौ वीरौ कथा अन्ते शुक सारणौ ॥६-२९-५॥ अधो मुखौ तौ प्रणताव् अब्रवीत् शुक सारणौ । रोष गद्गदया वाचा सम्रब्धः परुषम् वचः ॥६-२९-६॥ न तावत् सदृशम् नाम सचिवैर् उपजीविभिः । विप्रियम् नृपतेर् वक्तुम् निग्रह प्रग्रहे विभोः ॥६-२९-७॥ रिपूणाम् प्रतिकूलानाम् युद्ध अर्थम् अभिवर्तताम् । उभाभ्याम् सदृशम् नाम वक्तुम् अप्रस्तवे स्तवम् ॥६-२९-८॥ आचार्या गुरवो वृद्धा वृथा वाम् पर्युपासिताः । सारम् यद् राज शास्त्राणाम् अनुजीव्यम् न गृह्यते ॥६-२९-९॥ गृहीतो वा न विज्ञातो भारो ज्ञानस्य वा उच्यते । ईदृशैः सचिवैर् युक्तो मूर्खैर् दिष्ट्या धरामि अहम् ॥६-२९-१०॥ किम् नु मृत्योर् भयम् न अस्ति माम् वक्तुम् परुषम् वचः । यस्य मे शासतो जिह्वा प्रयच्चति शुभ अशुभम् ॥६-२९-११॥ अपि एव दहनम् स्पृष्ट्वा वने तिष्ठन्ति पादपाः । राज दोष परामृष्टास् तिष्ठन्ते न अपराधिनः ॥६-२९-१२॥ हन्याम् अहम् इमौ पापौ शत्रु पक्ष प्रशम्सकौ । यदि पूर्व उपकारैर् मे न क्रोधो मृदुताम् व्रजेत् ॥६-२९-१३॥ अपध्वम्सत गच्चध्वम् सम्निकर्षाद् इतो मम । न हि वाम् हन्तुम् इच्चामि स्मरन्न् उपकृतानि वाम् ॥६-२९-१४॥ हताव् एव कृतघ्नौ तौ मयि स्नेह परान् मुखौ । एवम् उक्तौ तु सव्रीडौ ताव् उभौ शुक सारणौ ॥६-२९-१५॥ रावणम् जय शब्देन प्रतिनन्द्य अभिनिह्सृतौ । अब्रवीत् स दशग्रीवः समीपस्थम् महाउदरम् ॥६-२९-१६॥ उपस्थापय शीघ्रम् मे चारान् नीति विशारदान् । महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥६-२९-१७॥ ततश्चाराः सम्त्वरिताः प्राप्ताः पार्थिवशासनात् । उपस्थिथाः प्राञ्जलयो वर्धयित्वा जयाशिषः ॥६-२९-१८॥ तान् अब्रवीत् ततो वाक्यम् रावणो राक्षस अधिपः ॥६-२९-१९॥ चारान् प्रत्ययिकान् शूरान् भक्तान् विगत साध्वसान् । इतो गच्चत रामस्य व्यवसायम् परीक्षथ ॥६-२९-२०॥ मन्त्रेष्व् अभ्यन्तरा ये अस्य प्रीत्या तेन समागताः । कथम् स्वपिति जागर्ति किम् अन्यच् च करिष्यति ॥६-२९-२१॥ विज्ञाय निपुणम् सर्वम् आगन्तव्यम् अशेषतः । चारेण विदितः शत्रुः पण्डितैर् वसुधा अधिपैः ॥६-२९-२२॥ युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते । चारास् तु ते तथा इति उक्त्वा प्रहृष्टा राक्षस ईश्वरम् ॥६-२९-२३॥ शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् । ततस्तम् तु महात्मानम् चारा राक्षससत्तमम् ॥६-२९-२४॥ कृत्वा प्रदक्षिणम् जग्मुर् यत्र रामः सलक्ष्मणः । ते सुवेलस्य शैलस्य समीपे राम लक्ष्मणौ ॥६-२९-२५॥ प्रच्चन्ना ददृशुर् गत्वा ससुग्रीव विभीषणौ । प्रेक्षमाणाश्चमूम् ताम् च बभूवुर्भयविह्वलाः ॥६-२९-२६॥ ते तु धर्म आत्मना दृष्टा राक्षस इन्द्रेण राक्षसाः । विभीषणेन तत्रस्था निगृहीता यदृच्चया ॥६-२९-२७॥ शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः । मोक्षितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः ॥६-२९-२८॥ अनृशम्सेन रामेण मोक्षिता राक्षसाः सरे । वानरैर् अर्दितास् ते तु विक्रान्तैर् लघु विक्रमैः ॥६-२९-२९॥ पुनर् लंकाम् अनुप्राप्ताः श्वसन्तो नष्ट चेतसः । ततो दशग्रीवम् उपस्थितास् ते । चारा बहिर् नित्य चरा निशा चराः । गिरेः सुवेलस्य समीप वासिनम् । न्यवेदयन् भीम बलम् महाबलाः ॥६-२९-३०॥
त्रिंशः सर्गः ॥६-३०॥
सम्पाद्यताम्ततस्तमक्षोभ्य बलम् लंका अधिपतये चराः । सुवेले राघवम् शैले निविष्टम् प्रत्यवेदयन् ॥६-३०-१॥ चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् । जात उद्वेगो अभवत् किम्चित् शार्दूलम् वाक्यम् अब्रवीत् ॥६-३०-२॥ अयथावच् च ते वर्णो दीनः च असि निशा चर । न असि कच्चिद् अमित्राणाम् क्रुद्धानाम् वशम् आगतः ॥६-३०-३॥ इति तेन अनुशिष्टस् तु वाचम् मन्दम् उदीरयत् । तदा राक्षस शार्दूलम् शार्दूलो भय विह्वलः ॥६-३०-४॥ न ते चारयितुम् शक्या राजन् वानर पुम्गवाः । विक्रान्ता बलवन्तः च राघवेण च रक्षिताः ॥६-३०-५॥ न अपि सम्भाषितुम् शक्याः सम्प्रश्नो अत्र न लभ्यते । सर्वतो रक्ष्यते पन्था वानरैः पर्वत उपमैः ॥६-३०-६॥ प्रविष्ट मात्रे ज्ञातो अहम् बले तस्मिन्न् अचारिते । बलाद् गृहीतो बहुभिर् बहुधा अस्मि विदारितः ॥६-३०-७॥ जानुभिर् मुष्टिभिर् दन्तैस् तलैः च अभिहतो भृशम् । परिणीतो अस्मि हरिभिर् बलवद्भिर् अमर्षणैः ॥६-३०-८॥ परिणीय च सर्वत्र नीतो अहम् राम सम्सदम् । रुधिर आदिग्ध सर्व अन्गो विह्वलः चलित इन्द्रियः ॥६-३०-९॥ हरिभिर् वध्यमानः च याचमानः कृत अन्जलिः । राघवेण परित्रातो जीवामि ह यदृच्चया ॥६-३०-१०॥ एष शैलैः शिलाभिः च पूरयित्वा महाअर्णवम् । द्वारम् आश्रित्य लंकाया रामस् तिष्ठति सायुधः ॥६-३०-११॥ गरुड व्यूहम् आस्थाय सर्वतो हरिभिर् वृतः । माम् विसृज्य महातेजा लंकाम् एव अभिवर्तते ॥६-३०-१२॥ पुरा प्राकारम् आयाति क्षिप्रम् एकतरम् कुरु । सीताम् च अस्मै प्रयच्च आशु सुयुद्धम् वा प्रदीयताम् ॥६-३०-१३॥ मनसा सम्तताप अथ तत् श्रुत्वा राक्षस अधिपः । शार्दूलस्य महद् वाक्यम् अथ उवाच स रावणः ॥६-३०-१४॥ यदि माम् प्रतियुध्येरन् देव गन्धर्व दानवाः । न एव सीताम् प्रदास्यामि सर्व लोक भयाद् अपि ॥६-३०-१५॥ एवम् उक्त्वा महातेजा रावणः पुनर् अब्रवीत् । चारिता भवता सेना के अत्र शूराः प्लवम् गमाः ॥६-३०-१६॥ कीदृशाः किम् प्रभावाः च वानरा ये दुरासदाः । कस्य पुत्राः च पौत्राः च तत्त्वम् आख्याहि राक्षस ॥६-३०-१७॥ तथात्र प्रतिपत्स्यामि ज्ञात्वा तेषाम् बल अबलम् । अवश्यम् बल सम्ख्यानम् कर्तव्यम् युद्धम् इच्चता ॥६-३०-१८॥ अथ एवम् उक्तः शार्दूलो रावणेन उत्तमः चरः । इदम् वचनम् आरेभे वक्तुम् रावण सम्निधौ ॥६-३०-१९॥ अथ ऋक्ष रजसः पुत्रो युधि राजन् सुदुर्जयः । गद्गदस्य अथ पुत्रो अत्र जाम्बवान् इति विश्रुतः ॥६-३०-२०॥ गद्गदस्य एव पुत्रो अन्यो गुरु पुत्रः शत क्रतोः । कदनम् यस्य पुत्रेण कृतम् एकेन रक्षसाम् ॥६-३०-२१॥ सुषेणः च अपि धर्म आत्मा पुत्रो धर्मस्य वीर्यवान् । सौम्यः सोम आत्मजः च अत्र राजन् दधि मुखः कपिः ॥६-३०-२२॥ सुमुखो दुर्मुखः च अत्र वेग दर्शी च वानरः । मृत्युर् वानर रूपेण नूनम् सृष्टः स्वयम्भुवा ॥६-३०-२३॥ पुत्रो हुत वहस्य अथ नीलः सेना पतिः स्वयम् । अनिलस्य च पुत्रो अत्र हनूमान् इति विश्रुतः ॥६-३०-२४॥ नप्ता शक्रस्य दुर्धर्षो बलवान् अन्गदो युवा । मैन्दः च द्विविदः च उभौ बलिनाव् अश्वि सम्भवौ ॥६-३०-२५॥ पुत्रा वैवस्वतस्य अत्र पन्च काल अन्तक उपमाः । गजो गव अक्षो गवयः शरभो गन्ध मादनः ॥६-३०-२६॥ दश वानरकोट्यश्च शूराणाम् युद्धकाङ्ग्क्षिणाम् । श्रीमताम् देवपुत्राणाम् शेषम् नाख्यातुमुत्सहे ॥६-३०-२७॥ पुत्रो दशरथस्येष सिम्हसम्हननो युवा । दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥६-३०-२८॥ नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन । विराधो निहतो येन कबन्धश्चान्तकोपमः ॥६-३०-२९॥ वक्तुम् न शक्तो रामस्य गुणान् कश्चिन्नरः क्षितौ । जनस्थानगता येन तावन्तो राक्षसा हताः ॥६-३०-३०॥ लक्ष्मणश्चात्र धर्मात्मा मातङ्गवामिवर्षभः । यस्य बाणपथम् प्राप्य व जीवेदपि वासवः ॥६-३०-३१॥ श्वेतो ज्योतिर् मुखः च अत्र भास्करस्य आत्म सम्भवौ । वरुणस्य च पुत्रो अथ हेम कूटः प्लवम् गमः ॥६-३०-३२॥ विश्व कर्म सुतो वीरो नलः प्लवग सत्तमः । विक्रान्तो वेगवान् अत्र वसु पुत्रः सुदुर्धरः ॥६-३०-३३॥ राक्षसानाम् वरिष्ठः च तव भ्राता विभीषणः । परिगृह्य पुरीम् लंकाम् राघवस्य हिते रतः॥६-३०-३४॥ इति सर्वम् समाख्यातम् तव इदम् वानरम् बलम् । सुवेले अधिष्ठितम् शैले शेष कार्ये भवान् गतिः ॥६-३०-३५॥
एकत्रिंशः सर्गः ॥६-३१॥
सम्पाद्यताम्ततस्तमक्षोभ्यबलम् लङ्कायां नृपतेश्चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥६-३१-१॥ चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् । जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ॥६-३१-२॥ मन्त्रिणः शीघ्रमायान्तु सर्वे वै सु समाहिताः । अयम् नो मन्त्रकालो हि सम्प्रास्त इति राक्षसाः ॥६-३१-३॥ तस्य तच्चासनम् श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् । ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥६-३१-४॥ मन्त्रयित्वा तु दुर्धर्षः क्षमं यत्तदन्न्तरम् । विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥६-३१-५॥ ततो राक्षसमादाय विद्युज्जिह्वम् महाबलम् । मायाविदम् महामायः प्रविशद्यत्र मैथिली ॥६-३१-६॥ विद्युज्जिह्वम् च मायाज्ञ्मब्रवीद्राक्षसाधिपः । मोहयिष्यावहे सीताम् मायया जनकात्मजाम् ॥६-३१-७॥ शिरो मायामयम् गृह्य राघवस्य विशाचर । मां त्वं समुपतिष्ठस्व महच्च सशरम् धनुः ॥६-३१-८॥ एवमुक्त स्तथेत्याह विद्युज्जिह्वो निशाचतः । दर्शयामास ताम् मायाम् सुप्रयुक्ताम् स रावणे ॥६-३१-९॥ तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् । अशोकवनिकायाम् च सीतादर्शनलालसः ॥६-३१-१०॥ नैरृतानामधिपतिः सम्विवेश महाबलः । ततो दीनामदैन्यार्हाम् ददर्श धनदामजः ॥६-३१-११॥ अधोमुखीं शोकपरामुपविष्टाम् महीतले । भर्तारमेव ध्यायन्तीमशोकवनिकाम् गताम् ॥६-३१-१२॥ उपास्यमानाम् घोराभी राक्षसीभिरदूरतः । उपसृत्य ततः सीताम् प्रहर्षं नाम कीर्तयन् ॥६-३१-१३॥ इदम् च वचनम् धृष्टमुवाच जनकात्मजाम् । सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥६-३१-१४॥ खरहन्ता स ते भर्ता राघवः समरे हतः । चिन्नम् ते सर्वथा मूलम् दर्पश्च विहतो मया ॥६-३१-१५॥ व्यसनेनात्मनः सीते मम भार्या भविष्यसि । विसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥६-३१-१६॥ भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम । अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ॥६-३१-१७॥ सृणु भर्तृनधम् सीते घोरं वृत्रवधं यथा । समायातः समुद्रान्तं हन्तुं मां किल राघवः ॥६-३१-१८॥ वानरेन्द्रप्रणीतेन बलेव महता वृतः । सम्निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥६-३१-१९॥ बलेन महता रामो व्रजत्यस्तम् दिवाकरे । अथाध्वनि परिश्रान्तमर्धरात्रे स्थितम् बलम् ॥६-३१-२०॥ सुखसुप्तं समासाद्य चरितम् प्रथमं चरैः । तत्प्रहस्तप्रणीतेन बलेन महता मम ॥६-३१-२१॥ बलमस्य हतम् रात्रौ यत्र रामः सलक्ष्मणः । पट्टिशान् परिघांश्चक्रानृष्टीर्दण्डान्महायुधान् ॥६-३१-२२॥ बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् । यष्टीश्च तोमरान् प्रासाम्श्चक्राणि मुसलानि च ॥६-३१-२३॥ उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः । अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥६-३१-२४॥ असक्तम् कृतहस्तेन शिरश्छिन्नं महासिना । विभीषणः समुत्पत्य निगृहीतो यदृच्छया ॥६-३१-२५॥ दिशम् प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह । सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः ॥६-३१-२६॥ निरस्तहनुकः श्रेते हनुमान् राक्षसैःर्हतः । जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ॥६-३१-२७॥ पट्टिशैर्बहुभिश्छन्नो विकृत्तः सादपो यथा । मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ ॥६-३१-२८॥ निःश्वसन्तौ रुदन्तौ च रुधिरेण परीवृतौ । असिना व्यायतौ चिन्नौ मध्ये ह्यरिनिषूदनौ ॥६-३१-२९॥ अनुष्वनति मेदिन्याम् पनसः यथा ॥६-३१-३०॥ वाराचैर्बहुभिश्छन्नः श्रेते दर्याम् दरीमुखः । कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥६-३१-३१॥ अङ्गदो बहुभिश्छ्न्नः शरैरासाद्य राक्षसैः । परितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥६-३१-३२॥ हरयो मथिता वागैरथ जालैस्तथापरे । शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥६-३१-३३॥ प्रसृताश्च परे त्रस्ताः हन्यमाना जघन्यतः । अनुद्रुतास्तु रक्षोBहिः सिम्हैरिव महाद्विपाः ॥६-३१-३४॥ सागरे पतिताः केचित्केचिद्गगनमाश्रिताः । ऋक्षा वृक्षामपारूढा वानरैर्व्यतिमिश्रिताः ॥६-३१-३५॥ सागरस्य च तीरेषु शैलेषु च वनेषु च । पिङ्गलास्ते विरूपाक्षे राक्षसैर्बहवो हताः ॥६-३१-३६॥ एवम् तव हतो भर्ता ससैन्यो मम सेवया । क्षतजार्द्रं रजोध्वस्तमिदं चाप्याहृतम् शिरः ॥६-३१-३७॥ ततः परमदुर्धर्षो रावणो राक्षसेश्वरः । सीतायामुपशृण्वत्यां राक्षसीमिद मब्रवीत् ॥६-३१-३८॥ राक्षसम् क्रूरकर्माणम् विद्युज्जिह्वम् समानय । येन तद्रघनशिरः सङ्ग्रमात्स्वयमाहृतम् ॥६-३१-३९॥ विद्युज्जिह्व स्तदा गृह्य शिरस्तत्सशरासनम् । प्रणामम् शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥६-३१-४०॥ तमब्रवीत्ततो राजा रावणो राक्षसम् स्थितम् । विद्युज्जिह्वम् महाजिह्वम् समीपपरिवर्तिनम् ॥६-३१-४१॥ अग्रतः कुरु सीतायाः श्रीघ्रं दाशरथेः शिरः । अवस्थां पशिचमां भर्तुः कृपणा साधु पश्यतु ॥६-३१-४२॥ एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् । उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥६-३१-४३॥ रावणश्चापि चिक्षेप भास्वरम् कार्मुकम् महत् । त्रिषु लोकेषु विख्यातम् रामस्यैतदिति ब्रुवन् ॥६-३१-४४॥ इदम् तत्तव रामस्य कार्मुकं ज्यासमाव्R६इतम् । इह प्रहस्तेवानीतम् तम् हत्वा निशि मानुषम् ॥६-३१-४५॥ स विद्युजिह्वेन सहैव तच्छिरो । धमश्च भूमौ विनिकीर्य रावणः । विदेहराजस्य सुताम् यशस्विनीं । ततोऽब्रवीत्ताम् भव मे वशामुगा ॥६-३१-४६॥
द्वात्रिंशः सर्गः ॥६-३२॥
सम्पाद्यताम्सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् | | सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता || ६-३२-१ नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् | केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् || ६-३२-२ एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता | विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा || ६-३२-३ सकामा भव कैकेयि हतो अयम् कुल नन्दनः | कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया || ६-३२-४ आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् | यन्मया चीर वसनस् तया प्रस्थापितो वनम् || ६-३२-५ एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी | जगाम जगतीम् बाला चिन्ना तु कदली यथा || ६-३२-६ सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् | तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा || ६-३२-७ हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता | इमाम् ते पश्चिम अवस्थाम् गता अस्मि विधवा कृता || ६-३२-८ प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते | सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः || ६-३२-९ दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे | यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः || ६-३२-१० सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव | वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता || ६-३२-११ उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम | अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव || ६-३२-१२ अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव | पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् || ६-३२-१३ अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् | व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने || ६-३२-१४ तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया | काल रात्र्या मया आच्चिद्य हृतः कमल लोचन || ६-३२-१५ उपशेषे महा बाहो माम् विहाय तपस्विनीम् | प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ || ६-३२-१६ अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव | इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् || ६-३२-१७ पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ | पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः || ६-३२-१८ दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् | पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे || ६-३२-१९ किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे | बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् || ६-३२-२० संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया | स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिताम् || ६-३२-२१ कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर | अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् || ६-३२-२२ कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु | क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते || ६-३२-२३ अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः | अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे || ६-३२-२४ प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् | परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा || ६-३२-२५ स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते | तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् || ६-३२-२६ सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् | हृदयेन विदीर्णेन न भविष्यति राघव || ६-३२-२७ मम हेतोरनार्याया अवघः पार्थिवात्मजः | रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः || ६-३२-२८ अहम् दाशरथेनोढा मोहात्स्वकुपांसनी | आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत || ६-३२-२९ मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् | याहमद्येह शोचामि भार्या सर्वातिथेरपि || ६-३२-३० साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः | समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् || ६-३२-३१ शिरसा मे शिरसः च अस्य कायम् कायेन योजय | रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः || ६-३२-३२ इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा | भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा || ६-३२-३३ एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः | अभिचक्राम भर्तारम् अनीकस्थः क्ऱ्त अन्जलिः || ६-३२-३४ विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च | न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् || ६-३२-३५ अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः | तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो || ६-३२-३६ मानमस्ति महारा ज राजभावात् क्षमान्वित | किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु || ६-३२-३७ एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् | अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ || ६-३२-३८ स तु सर्वम् समर्थ्य एव मन्त्रिभिः क्ऱ्त्यम् आत्मनः | सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् || ६-३२-३९ अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् | जगाम रावणस्य एव निर्याण समनन्तरम् || ६-३२-४० राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः | समर्थयाम् आस तदा राम कार्य विनिश्चयम् || ६-३२-४१ अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः | अब्रवीत् काल सद्ऱ्शो रावणो राक्षस अधिपः || ६-३२-४२ शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे | समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् || ६-३२-४३ ततस् तथा इति प्रतिगृह्य तद् वचो | स्तदैव दूताः सहसा महाद्बलम् | समानयंसः चैव समागतम् च ते | न्यवेदयन् भर्तरि युद्ध कान्क्षिणि || ६-३२-४४
त्रयस्त्रिंशः सर्गः ॥६-३३॥
सम्पाद्यताम्सीताम् तु मोहिताम् दृष्ट्वा सरमा नाम राक्षसी । आससाद आशु वैदेहीम् प्रियाम् प्रणयिनी सखी ।। ६-३३-१ मोहिताम् राक्षसेन्द्रेण सीताम् परमदुःखिताम् । आश्वासयामास तदा सरमा मृदुभाषिणी ।। ६-३३-२ सा हि तत्र कृता मित्रम् सीतया रक्ष्यमाणया । रक्षन्ती रावणाद् इष्टा सानुक्रोशा दृढ व्रता ।। ६-३३-३ सा ददर्श सखीम् सीताम् सरमा नष्ट चेतनाम् । उपावृत्य उत्थिताम् ध्वस्ताम् वडवाम् इव पांसुषु ।। ६-३३-४ ताम् समाश्वासयाम् आस सखी स्नेहेन सुव्रता । उक्ता यद् रावणेन त्वम् प्रत्युक्तम् च स्वयम् त्वया ।। ६-३३-५ उक्ता यद्रावणेन त्वम् प्रत्युक्तश्च स्वयम् त्वया । सखी स्नेहेन तद् भीरु मया सर्वम् प्रतिश्रुतम् ।। ६-३३-६ लीनया गनहे शूह्ये भयम् उत्सृज्य रावणात् । तव हेतोर् विशाल अक्षि न हि मे जीवितम् प्रियम् ।। ६-३३-७ स सम्भ्रान्तश च निष्क्रान्तो यत् कृते राक्षस अधिपः । तच् च मे विदितम् सर्वम् अभिनिष्क्रम्य मैथिलि ।। ६-३३-८ न शक्यम् सौप्तिकम् कर्तुम् रामस्य विदित आत्मनः । वधश्च पुरुष व्याघ्रे तस्मिन्न् एव उपपद्यते ।। ६-३३-९ न च एव वानरा हन्तुम् शक्याः पादप योधिनः । सुरा देव ऋषभेण इव रामेण हि सुरक्षिताः ।। ६-३३-१० दीर्घ वृत्त भुजह् श्रीमान् महा उरस्कह् प्रतापवान् । धन्वी सम्हनन उपेतो धर्म आत्मा भुवि विश्रुतः ।। ६-३३-११ विक्रान्तो रक्षिता नित्यम् आत्मनश्च परस्य च । लक्ष्मणेन सह भ्रात्रा कुशली नय शास्त्रवित् ।। ६-३३-१२ हन्ता पर बल ओघानाम् अचिन्त्य बल पौरुषः । न हतो राघवः श्रीमान् सीते शत्रु निबर्हणः ।। १३ अयुक्त बुद्धि कृत्येन सर्व भूत विरोधिना । इयम् प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ।। ६-३३-१४ शोकस् ते विगतः सर्वः कल्याणम् त्वाम् उपस्थितम् । ध्रुवम् त्वाम् भजते लक्ष्मीः प्रियम् प्रीति करम् शृणु ।। ६-३३-१५ उत्तीर्य सागरम् रामः सह वानर सेनया । सम्निविष्टः समुद्रस्य तीरम् आसाद्य दक्षिणम् ।। ६-३३-१६ दृष्टो मे परिपूर्ण अर्थः काकुत्स्थः सह लक्ष्मणः । सहितैः सागर अन्तस्थैर् बलैस् तिष्ठति रक्षितः ।। ६-३३-१७ अनेन प्रेषिता ये च राक्षसा लघु विक्रमः । राघवस् तीर्णैत्य् एवम् प्रवृत्तिस् तैर् इह आहृता ।। ६-३३-१८ स ताम् श्रुत्वा विशाल अक्षि प्रवृत्तिम् राक्षस अधिपः । एष मन्त्रयते सर्वैः सचिवैः सह रावणः ।। ६-३३-१९ इति ब्रुवाणा सरमा राक्षसी सीतया सह । सर्व उद्योगेन सैन्यानाम् शब्दम् शुश्राव भैरवम् ।। ६-३३-२० दण्ड निर्घात वादिन्याः श्रुत्वा भेर्या महा स्वनम् । उवाच सरमा सीताम् इदम् मधुर भाषिणी ।। ६-३३-२१ सम्नाह जननी ह्य् एषा भैरवा भीरु भेरिका । भेरी नादम् च गम्भीरम् शृणु तोयद निस्वनम् ।। ६-३३-२२ कल्प्यन्ते मत्त मातम्गा युज्यन्ते रथ वाजिनः । तत्र तत्र च सम्नद्धाः सम्पतन्ति पदातयः ।। ६-३३-२३ तत्र तत्र च सन्नद्धाः सम्पतन्ति सहस्रशः । आपूर्यन्ते राज मार्गाः सैन्यैर् अद्भुत दर्शनैः ।। ६-३३-२४ वेगवद्भिर् नदद्भिश्च तोय ओघैर् इव सागरः । शास्त्राणाम् च प्रसन्नानाम् चर्मणाम् वर्मणाम् तथा ।। ६-३३-२५ रथ वाजि गजानाम् च भूषितानाम् च रक्षसाम् । सम्भ्रमो रक्षसामेष हृषितानाम् तरस्विनाम् ।। ६-३३-२६ प्रभाम् विसृजताम् पश्य नाना वर्णाम् समुत्थिताम् । वनम् निर्दहतो धर्मे यथा रूपम् विभावसोः ।। ६-३३-२७ घण्टानाम् शृणु निर्घोषम् रथानाम् शृणु निस्वनम् । हयानाम् हेषमाणानाम् शृणु तूर्य ध्वनिम् यथा ।। ६-३३-२८ उद्यत आयुध हस्तानाम् राक्षस इन्द्र अनुयायिनाम् । सम्भ्रमो रक्षसाम् एष तुमुलो लोम हर्षणः ।। ६-३३-२९ श्रीस् त्वाम् भजति शोकघ्नी रक्षसाम् भयम् आगतम् । रामात् कमल पत्र अक्षि दैत्यानाम् इव वासवात् ।। ६-३३-३० अवजित्य जित क्रोधस् तम् अचिन्त्य पराक्रमः । रावणम् समरे हत्वा भर्ता त्वा अधिगमिष्यति ।। ६-३३-३१ विक्रमिष्यति रक्षह्सु भर्ता ते सह लक्ष्मणः । यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।। ६-३३-३२ आगतस्य हि रामस्य क्षिप्रम् अन्क गताम् सतीम् । अहम् द्रक्ष्यामि सिद्ध अर्थाम् त्वाम् शत्रौ विनिपातिते ।। ६-३३-३३ अश्रूण्य् आनन्दजानि त्वम् वर्तयिष्यसि शोभने । समागम्य परिष्वक्ता तस्य उरसि महा उरसः ।। ६-३३-३४ अचिरान् मोक्ष्यते सीते देवि ते जघनम् गताम् । धृताम् एताम् बहून् मासान् वेणीम् रामो महा बलः ।। ६-३३-३५ तस्य दृष्ट्वा मुखम् देवि पूर्ण चन्द्रम् इव उदितम् । मोक्ष्यसे शोकजम् वारि निर्मोकम् इव पन्नगी ।। ६-३३-३६ रावणम् समरे हत्वा नचिराद् एव मैथिलि । त्वया समग्रम् प्रियया सुख अर्हो लप्स्यते सुखम् ।। ६-३३-३७ समागता त्वम् रामेण मोदिष्यसि महात्मना । सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ।। ६-३३-३८ गिरि वरम् अभितो अनुवर्तमानो । हय इव मण्डलम् आशु यः करोति । तम् इह शरणम् अभ्युपेहि देवि दिवस करम् प्रभवो ह्ययम् प्रजानाम् ६-३३-३९
चतुस्त्रिंशः सर्गः ॥६-३४॥
सम्पाद्यताम्अथ ताम् जात सम्तापाम् तेन वाक्येन मोदिताम् । सरमा ह्लादयाम् आस महीं दग्धामिवाम्भसा ॥६-३४-१॥ ततस् तस्या हितम् सख्याश् चिकीर्षन्ती सखी वचः । उवाच काले कालज्ना स्मित पूर्व अभिभाषिणी ॥६-३४-२॥ उत्सहेयम् अहम् गत्वा त्वद् वाक्यम् असित ईक्षणे । निवेद्य कुशलम् रामे प्रतिच्चन्ना निवर्तितुम् ॥६-३४-३॥ न हि मे क्रममाणाया निरालम्बे विहायसि । समर्थो गतिम् अन्वेतुम् पवनो गरुडो अपि वा ॥६-३४-४॥ एवम् ब्रुवाणाम् ताम् सीता सरमाम् पुनर् अब्रवीत् । मधुरम् श्लक्ष्णया वाचा पूर्व शोक अभिपन्नया ॥६-३४-५॥ समर्था गगनम् गन्तुम् अपि वा त्वम् रसा तलम् । अवगच्चाम्य् अकर्तव्यम् कर्तव्यम् ते मद् अन्तरे ॥६-३४-६॥ मत् प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव । ज्नातुम् इच्चामि तम् गत्वा किम् करोति इति रावणः ॥६-३४-७॥ स हि माया बलः क्रूरो रावणः शत्रु रावणः । माम् मोहयति दुष्ट आत्मा पीत मात्रा इव वारुणी ॥६-३४-८॥ तर्जापयति माम् नित्यम् भर्त्सापयति च असक्र्त् । राक्षसीभिः सुघोराभिर् या माम् रक्षन्ति नित्यशः ॥६-३४-९॥ उद्विग्ना शन्किता च अस्मि न च स्वस्थम् मनो मम । तद् भयाच् च अहम् उद्विग्ना;अशोक वनिकाम् गताः ॥६-३४-१०॥ यदि नाम कथा तस्य निश्चितम् वा अपि यद् भवेत् । निवेदयेथाः सर्वम् तत् परो मे स्याद् अनुग्रहः ॥६-३४-११॥ साप्येवम् ब्रुवतीम् सीताम् सरमा वल्गु भाषिणी । उवाच वचनम् तस्याः स्पृशन्ती बाष्प विक्लवम् ॥६-३४-१२॥ एष ते यद्य् अभिप्रायस् तस्माद् गच्चामि जानकि । गृह्य शत्रोर् अभिप्रायम् उपाव्र्त्ताम् च पश्य माम् ॥६-३४-१३॥ एवम् उक्त्वा ततो गत्वा समीपम् तस्य रक्षसः । शुश्राव कथितम् तस्य रावणस्य समन्त्रिणः ॥६-३४-१४॥ सा श्रुत्वा निश्चयम् तस्य निश्चयज्ना दुरात्मनः । पुनर् एव अगमत् क्षिप्रम् अशोक वनिकाम् तदा ॥६-३४-१५॥ सा प्रविष्टा पुनस् तत्र ददर्श जनक आत्मजाम् । प्रतीक्षमाणाम् स्वाम् एव भ्रष्ट पद्माम् इव श्रियम् ॥६-३४-१६॥ ताम् तु सीता पुनः प्राप्ताम् सरमाम् वल्गु भाषिणीम् । परिष्वज्य च सुस्निग्धम् ददौ च स्वयम् आसनम् ॥६-३४-१७॥ इह आसीना सुखम् सर्वम् आख्याहि मम तत्त्वतः । क्रूरस्य निश्चयम् तस्य रावणस्य दुरात्मनः ॥६-३४-१८॥ एवम् उक्ता तु सरमा सीतया वेपमानया । कथितम् सर्वम् आचष्त रावणस्य समन्त्रिणः ॥६-३४-१९॥ जनन्या राक्षस इन्द्रो वै त्वन् मोक्ष अर्थम् बृहद् वचः । अविद्धेन च वैदेहि मन्त्रि वृद्धेन बोधितः ॥६-३४-२०॥ दीयताम् अभिसत्क्र्त्य मनुज इन्द्राय मैथिली । निदर्शनम् ते पर्याप्तम् जन स्थाने यद् अद्भुतम् ॥६-३४-२१॥ लन्घनम् च समुद्रस्य दर्शनम् च हनूमतः । वधम् च रक्षसाम् युद्धे कः कुर्यान् मानुषो भुवि ॥६-३४-२२॥ एवम् स मन्त्रि वृद्धैश्च मात्रा च बहु भाषितः । न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थ परो यथा ॥६-३४-२३॥ न उत्सहत्य् अम्र्तो मोक्तुम् युद्धे त्वाम् इति मैथिलि । सामात्यस्य नृशम्सस्य निश्चयो ह्य् एष वर्तते ॥६-३४-२४॥ तद् एषा सुस्थिरा बुद्धिर्मृत्यु लोभाद् उपस्थिता । भयान् न शक्तस् त्वाम् मोक्तुम् अनिरस्तस् तु सम्युगे ॥६-३४-२५॥ राक्षसानाम् च सर्वेषाम् आत्मनश् च वधेन हि । निहत्य रावणम् सम्ख्ये सर्वथा निशितैः शरैः ॥६-३४-२६॥ प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असित ईक्षणे । एतस्मिन्न् अन्तरे शब्दो भेरी शन्ख समाकुलः ॥६-३४-२७॥ श्रुतो वै सर्व सैन्यानाम् कम्पयन् धरणी तलम् । श्रुत्वा तु तम् वानर सैन्य शब्दम् । लन्का गता राक्षस राज भ्र्त्याः । नष्ट ओजसो दैन्य परीत चेष्टाः । श्रेयो न पश्यन्ति न्र्पस्य दोषैः ॥६-३४-२८॥
पञ्चत्रिंशः सर्गः ॥६-३५॥
सम्पाद्यताम्तेन शन्ख विमिश्रेण भेरी शब्देन राघवः । उपयतो महा बाहू रामह् पर पुरम् जयः ॥६-३५-१॥ तम् निनादम् निशम्य अथ रावणो राक्षस ईश्वरः । मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत ॥६-३५-२॥ अथ तान् सचिवाम्स् तत्र सर्वान् आभाष्य रावणः । सभाम् सम्नादयन् सर्वाम् इत्य् उवाच महा बलः ॥६-३५-३॥ जगत्पम्तापनः क्रूरोगर्हयन् राक्षसेश्वरः । तरणम् सागरस्य अपि विक्रमम् बल सम्चयम् ॥६-३५-४॥ यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् । भवतश्चाप्यहम् वेद्मि युद्धे सत्यपराक्रमान् ॥६-३५-५॥ तूष्णीकानीक्षतोन्योन्यम् विदित्वाम् रामविक्रमम् । ततस् तु सुमहा प्राज्नो माल्यवान् नाम राक्षसः ॥६-३५-६॥ रावणस्य वचः श्रुत्वा मातुः पैतामहो अब्रवीत् । विद्यास्वभिविनीतो यो राजा राजन् नय अनुगः ॥६-३५-७॥ स शास्ति चिरम् ऐश्वर्यम् अरीम्श्च कुरुते वशे । सम्दधानो हि कालेन विगृह्णम्सः चारिभिः सह ॥६-३५-८॥ स्व पक्ष वर्धनम् कुर्वन् महद् ऐश्वर्यम् अश्नुते ॥ हीयमानेन कर्तव्यो राज्ना सम्धिः समेन च ॥६-३५-९॥ न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् । तन्मह्यम् रोचते सम्धिः सह रामेण रावण ॥६-३५-१०॥ यद् अर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् । तस्य देव ऋषयः सर्वे गन्धर्वासः च जय एषिणः ॥६-३५-११॥ विरोधम् मा गमस् तेन सम्धिस् ते तेन रोचताम् । असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः ॥६-३५-१२॥ सुराणाम् असुराणाम् च धर्म अधर्मौ तद् आश्रयौ । धर्मो हि श्रूयते पक्षः सुराणाम् च महात्मनाम् ॥६-३५-१३॥ अधर्मो रक्षसाम् पक्षोह्य असुराणाम् च रावण । धर्मो वै ग्रसते अधर्मम् ततः कृतम् अभूद् युगम् ॥६-३५-१४॥ अधर्मो ग्रसते धर्मम् ततस् तिष्यः प्रवर्तते । तत् त्वया चरता लोकान् धर्मो विनिहतो महान् ॥६-३५-१५॥ अधर्मः प्रगृहीतसः च तेन अस्मद् बलिनः परे । स प्रमादाद् विवृद्धस् ते अधर्मो अहिर् ग्रसते हि नः ॥६-३५-१६॥ विवर्धयति पक्षम् च सुराणाम् सुर भावनः । विषयेषु प्रसक्तेन यत् किम्चित् कारिणा त्वया ॥६-३५-१७॥ Rषीणाम् अग्नि कल्पानाम् उद्वेगो जनितो महान् । तेषाम् प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥६-३५-१८॥ तपसा भावित आत्मानो धर्मस्य अनुग्रहे रताः । मुख्यैर् यज्नैर् यजन्त्य् एते नित्यम् तैस् तैर् द्विजातयः ॥६-३५-१९॥ जुह्वत्य् अग्नीम्सः च विधिवद् वेदाम्सः च उच्चैर् अधीयते । अभिभूय च रक्षाम्सि ब्रह्म घोषान् उदैरयन् ॥६-३५-२०॥ दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इव उष्णगे । ऋषीणाम् अग्नि कल्पानाम् अग्नि होत्र समुत्थितः ॥६-३५-२१॥ आदत्ते रक्षसाम् तेजो धूमो व्याप्य दिशो दश । तेषु तेषु च देशेषु पुण्येषु च दृढ व्रतैः ॥६-३५-२२॥ चर्यमाणम् तपस् तीव्रम् सम्तापयति राक्षसान् । देवदानवयक्षेभो गृहीतश्च वरस्त्वया ॥६-३५-२३॥ मनुष्या वानरा ऋक्षा गोलाङ्गूला महाबलाः । बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥६-३५-२४॥ उत्पातान् विविधान् दृष्ट्वा घोरान् बहु विधाम्स् तथा । विनाशम् अनुपश्यामि सर्वेषाम् रक्षसाम् अहम् ॥६-३५-२५॥ खराभिस् तनिता घोरा मेघाह् प्रतिभयम् करः । शोणितेन अभिवर्षन्ति लन्काम् उष्णेन सर्वतः ॥६-३५-२६॥ रुदताम् वाहनानाम् च प्रपतन्त्य् अस्र बिन्दवः । ध्वजा ध्वस्ता विवर्णासः च न प्रभान्ति यथा पुरम् ॥६-३५-२७॥ व्याला गोमायवो ग्R^ इध्रा वाशन्ति च सुभैरवम् । प्रविश्य लन्काम् अनिशम् समवायाम्सः च कुर्वते ॥६-३५-२८॥ कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः । स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥६-३५-२९॥ गृहाणाम् बलि कर्माणि श्वानः पर्युपभुन्जते । खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥६-३५-३०॥ मार्जारा द्वीपिभिः सार्धम् सूकराः शुनकैः सह । किम्नरा राक्षसैसः च अपि समेयुर् मानुषैः सह ॥६-३५-३१॥ पाण्डुरा रक्त पादासः च विहगाः काल चोदिताः । राक्षसानाम् विनाशाय कपोता विचरन्ति च ॥६-३५-३२॥ वीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः । पतन्ति ग्रथितासः च अपि निर्जिताः कलह एषिणः ॥६-३५-३३॥ पक्षिणश्च मृगाः सर्वे प्रत्यादित्यम् रुदन्ति ते । करालो विकटो मुण्डः पुरुषः कृष्ण पिन्गलः ॥६-३५-३४॥ कालो गृहाणि सर्वेषाम् काले काले अन्ववेक्षते । एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च ॥६-३५-३५॥ विष्णुम् मन्यामहे रामम् मानुषम् देहम् आस्थितम् । न हि मानुष मात्रो असौ राघवो दृढ विक्रमः ॥६-३५-३६॥ येन बद्धः समुद्रस्य स सेतुः परम अद्भुतः । कुरुष्व नर राजेन सम्धिम् रामेण रावण ॥६-३५-३७॥ ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् । इदम् वचस् तत्र निगद्य माल्यवन् । परीक्ष्य रक्षो अधिपतेर् मनः पुनः । अनुत्तमेषु उत्तम पौरुषो बली । बभूव तूष्णीम् समवेक्ष्य रावणम् ॥६-३५-३८॥
षट्त्रिंशः सर्गः ॥६-३६॥
सम्पाद्यताम्तत्तु माल्यवतो वाक्यम् हितम् उक्तम् दzअ आननः । न मर्षयति दुष्ट अत्मा कालस्य वzअम् आगतः ॥६-३६-१॥ स बद्ध्वा भ्रु कुटिम् वक्त्रे क्रोधस्य वzअम् आगतः । अमर्षात् परिवृत्त अक्षो माल्यवन्तम् अथ अब्रवीत् ॥६-३६-२॥ हित बुद्ध्या यद् अहितम् वचह् परुषम् उच्यते । पर पक्षम् प्रविzय एव न एतत् zरोत्र गतम् मम ॥६-३६-३॥ मानुषम् कृपणम् रामम् एकम् zआखा मृग आzरयम् । समर्थम् मन्यसे केन त्यक्तम् पित्रा वन आलयम् ॥६-३६-४॥ रक्षसाम् ईzवरम् माम् च देवतानाम् भयम् करम् । हीनम् माम् मन्यसे केन;अहीनम् सर्व विक्रमैः ॥६-३६-५॥ वीर द्वेषेण वा zअन्के पक्ष पातेन वा रिपोः । त्वया अहम् परुषाण्य् उक्तः पर प्रोत्साहनेन वा ॥६-३६-६॥ प्रभवन्तम् पदस्थम् हि परुषम् को अह्बिधास्यति । पण्डितह् zआस्त्र तत्त्वज्नो विना प्रोत्साहनाद् रिपोः ॥६-३६-७॥ आनीय च वनात् सीताम् पद्म हीनाम् इव zरियम् । किम् अर्थम् प्रतिदास्यामि राघवस्य भयाद् अहम् ॥६-३६-८॥ वृतम् वानर कोटीभिः ससुग्रीवम् सलक्ष्मणम् । पzय कैzचिद् अहोभिस् त्वम् राघवम् निहतम् मया ॥६-३६-९॥ द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि सम्युगे । स कस्माद् रावणो युद्धे भयम् आहारयिष्यति ॥६-३६-१०॥ द्विधा भज्येयम् अप्य् एवम् न नमेयम् तु कस्यचित् । एष मे सहजो दोषह् स्वभावो दुरतिक्रमः ॥६-३६-११॥ यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्चया । रामेण विस्मयः को अत्र येन ते भयम् आगतम् ॥६-३६-१२॥ स तु तीर्त्वा अर्णवम् रामः सह वानर सेनया । प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥६-३६-१३॥ एवम् ब्रुवाणम् सम्रब्धम् रुष्टम् विज्नाय रावणम् । व्रीडितो माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत ॥६-३६-१४॥ जय आzइषा च राजानम् वर्धयित्वा यथा उचितम् । माल्यवान् अभ्यनुज्नातो जगाम स्वम् निवेzअनम् ॥६-३६-१५॥ रावणस् तु सह अमात्यो मन्त्रयित्वा विमृzय च । लन्कायाम् अतुलाम् गुप्तिम् कारयाम् आस राक्षसः ॥६-३६-१६॥ व्यादिदेzअ च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् । दक्षिणस्याम् महा वीर्यौ महा पार्zव महा उदरौ ॥६-३६-१७॥ पzचिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा । व्यादिदेzअ महा मायम् राक्षसैर् बहुभिर् वृतम् ॥६-३६-१८॥ उत्तरस्याम् पुर द्वारि व्यादिzय zउक सारणौ । स्वयम् च अत्र भविष्यामि मन्त्रिणस् तान् उवाच ह ॥६-३६-१९॥ राक्षसम् तु विरूप अक्षम् महा वीर्य पराक्रमम् । मध्यमे अस्थापयद् गुल्मे बहुभिह् सह राक्षसैः ॥६-३६-२०॥ एवम् विधानम् लन्कायाम् कृत्वा राक्षस पुम्गवः । मेने कृत अर्थम् आत्मानम् कृत अन्त वzअम् आगतः ॥६-३६-२१॥ विसर्जयाम् आस ततह् स मन्त्रिणो । विधानम् आज्नाप्य पुरस्य पुष्कलम् । जय आzइषा मन्त्र गणेन पूजितो । विवेzअ सो अन्तह् पुरम् ऋद्धिमन् महत् ॥६-३६-२२॥
सप्तत्रिंशः सर्गः ॥६-३७॥
सम्पाद्यताम्नर वानर राजौ तौ स च वायु सुतः कपिः । जाम्बवान् ऋक्ष राजसः च राक्षससः च विभीषणः ॥६-३७-१॥ अन्गदो वालि पुत्रसः च सौमित्रिः शरभः कपिः । सुषेणः सह दायादो मैन्दो द्विविद;एव च ॥६-३७-२॥ गजो गव अक्षो कुमुदो नलो अथ पनसस् तथा । अमित्र विषयम् प्राप्ताः समवेताः समर्थयन् ॥६-३७-३॥ इयम् सा लक्ष्यते लन्का पुरी रावण पालिता । सासुर उरग गन्धर्वैर् अमरैर् अपि दुर्जया ॥६-३७-४॥ कार्य सिद्धिम् पुरस् क्Rत्य मन्त्रयध्वम् विनिर्णये । नित्यम् सम्निहितो ह्य् अत्र रावणो राक्षस अधिपः ॥६-३७-५॥ तथा तेषु ब्रुवाणेषु रावण अवरजो अब्रवीत् । वाक्यम् अग्राम्य पदवत् पुष्कल अर्थम् विभीषणः ॥६-३७-६॥ अनलः शरभसः चैव सम्पातिः प्रघसस् तथा । गत्वा लन्काम् मम अमात्याः पुरीम् पुनर् इह आगताः ॥६-३७-७॥ भूत्वा शकुनयः सर्वे प्रविष्टासः च रिपोर् बलम् । विधानम् विहितम् यच् च तद् द्Rष्ट्वा समुपस्थिताः ॥६-३७-८॥ सम्विधानम् यथा आहुस् ते रावणस्य दुरात्मनः । राम तद् ब्रुवतः सर्वम् यथातथ्येन मे शृणु ॥६-३७-९॥ पूर्वम् प्रहस्तः सबलो द्वारम् आसाद्य तिष्ठति । दक्षिणम् च महा वीर्यौ महा पार्श्व महा उदरौ ॥६-३७-१०॥ इन्द्रजित् पश्चिम द्वारम् राक्षसैर् बहुभिर् वृतः । पट्टस असि धनुष्मद्भिः शूल मुद्गर पाणिभिः ॥६-३७-११॥ नाना प्रहरणैः शूरैर् आवृतो रावण आत्मजः । राक्षसानाम् सहस्रैस् तु बहुभिः शस्त्र पाणिभिः ॥६-३७-१२॥ युक्तः परम सम्विग्नो राक्षसैर् बहुभिर् व्Rतः । उत्तरम् नगर द्वारम् रावणः स्वयम् आस्थितः ॥६-३७-१३॥ विरूप अक्षस् तु महता शूल खड्ग धनुष्मता । बलेन राक्षसैः सार्धम् मध्यमम् गुल्मम् आस्थितः ॥६-३७-१४॥ एतान् एवम् विधान् गुल्माम्ल् लन्कायाम् समुदीक्ष्य ते । मामकाः सचिवाः सर्वे शीघ्रम् पुनर् इह आगताः ॥६-३७-१५॥ गजानाम् च सहस्रम् च रथानाम् अयुतम् पुरे । हयानाम् अयुते द्वे च साग्र कोटी च रक्षसाम् ॥६-३७-१६॥ विक्रान्ता बलवन्तसः च सम्युगेष्व् आततायिनः । इष्टा राक्षस राजस्य नित्यम् एते निशा चराः ॥६-३७-१७॥ एक एकस्य अत्र युद्ध अर्थे राक्षसस्य विशाम् पते । परिवारः सहस्राणाम् सहस्रम् उपतिष्ठते ॥६-३७-१८॥ एताम् प्रवृत्तिम् लन्कायाम् मन्त्रि प्रोक्तम् विभीषणः । रामम् कमल पत्र अक्षम् इदम् उत्तरम् अब्रवीत् ॥६-३७-१९॥ लङ्कायाम् सचिवैः रामाय प्रत्यवेदयत् । रामं कमलपत्राक्षमिदमुत्तरमब्रवीत् ॥६-३७-२०॥ रावणावरजः श्रीमान् रामप्रियचिकीर्षया । कुबेरम् तु यदा राम रावणः प्रत्ययुध्यत ॥६-३७-२१॥ षष्टिः शत सहस्राणि तदा निर्यान्ति राक्षसाः । पराक्रमेण वीर्येण तेजसा सत्त्व गौरवात् ॥६-३७-२२॥ सदृशा यो अत्र दर्पेण रावणस्य दुरात्मनः । अत्र मन्युर् न कर्तव्यो रोषये त्वाम् न भीषये ॥६-३७-२३॥ समर्थो ह्य् असि वीर्येण सुराणाम् अपि निग्रहे । तद् भवाम्सः चतुर् अन्गेण बलेन महता वृतः ॥६-३७-२४॥ व्यूह्य इदम् वानर अनीकम् निर्मथिष्यसि रावणम् । रावण अवरजे वाक्यम् एवम् ब्रुवति राघवः ॥६-३७-२५॥ शत्रूणाम् प्रतिघात अर्थम् इदम् वचनम् अब्रवीत् । पूर्व द्वारे तु लन्काया नीलो वानर पुम्गवः ॥६-३७-२६॥ प्रहस्तम् प्रतियोद्धा स्याद् वानरैर् बहुभिर् वृतः । अन्गदो वालि पुत्रस् तु बलेन महता वृतः ॥६-३७-२७॥ दक्षिणे बाधताम् द्वारे महा पार्श्व महा उदरौ । हनूमान् पश्चिम द्वारम् निपीड्य पवन आत्मजः ॥६-३७-२८॥ प्रविशत्व् अप्रमेय आत्मा बहुभिः कपिभिर् वृतः । दैत्य दानव सम्घानाम् ऋषीणाम् च महात्मनाम् ॥६-३७-२९॥ विप्रकार प्रियः क्षुद्रो वर दान बल अन्वितः । परिक्रामति यः सर्वाम्ल् लोकान् सम्तापयन् प्रजाः ॥६-३७-३०॥ तस्य अहम् राक्षस इन्द्रस्य स्वयम् एव वधे धृतः । उत्तरम् नगर द्वारम् अहम् सौमित्रिणा सह ॥६-३७-३१॥ निपीड्य अभिप्रवेक्ष्यामि सबलो यत्र रावणः । वानर इन्द्रसः च बलवान् ऋक्ष राजसः च जाम्बवान् ॥६-३७-३२॥ राक्षस इन्द्र अनुजसः चैव गुल्मे भवतु मध्यमे । न च एव मानुषम् रूपम् कार्यम् हरिभिर् आहवे ॥६-३७-३३॥ एषा भवतु नः सम्ज्ना युद्धे अस्मिन् वानरे बले । वानरा;एव निश्चिह्नम् स्व जने अस्मिन् भविष्यति ॥६-३७-३४॥ वयम् तु मानुषेण एव सप्त योत्स्यामहे परान् । अहम् एव सह भ्रात्रा लक्ष्मणेन महा ओजसा ॥६-३७-३५॥ आत्मना पन्चमसः च अयम् सखा मम विभीषणः । स रामः कार्य सिद्ध्य् अर्थम् एवम् उक्त्वा विभीषणम् ॥६-३७-३६॥ सुवेल आरोहणे बुद्धिम् चकार मतिमान् मतिम् । रमणीयतरम् दृष्ट्वा सुवेलस्य गिरेस्तट्म् ॥६-३७-३७॥ ततस् तु रामो महता बलेन । प्रच्चाद्य सर्वाम् पृथिवीम् महात्मा । प्रहृष्ट रूपो अभिजगाम लन्काम् । कृत्वा मतिम् सो अरि वधे महात्मा ॥६-३७-३८॥
अष्टात्रिंशः सर्गः ॥६-३८॥
सम्पाद्यताम्स तु कृत्वा सुवेलस्य मतिम् आरोहणम् प्रति । लक्ष्मण अनुगतो रामह् सुग्रीवम् इदम् अब्रवीत् ।। ६-३८-१ विभीषणम् च धर्मज्नम् अनुरक्तम् निज़ा चरम् । मन्त्रज्नम् च विधिज्नम् च ज़्लक्ष्णया परया गिरा ।। ६-३८-२ सुवेलम् साधु ज़ैल इन्द्रम् इमम् धातु ज़तैज़् चितम् । अध्यारोहामहे सर्वे वत्स्यामो अत्र निज़ाम् इमाम् ।। ६-३८-३ लन्काम् च आलोकयिष्यामो निलयम् तस्य रक्षसह् । येन मे मरण अन्ताय हृता भार्या दुरात्मना ।। ६-३८-४ येन धर्मो न विज्नातो न वृत्तम् न कुलम् तथा । राक्षस्या नीचया बुद्ध्या येन तद् गर्हितम् कृतम् ।। ६-३८-५ यस्मिन् मे वर्धते रोषह् कीर्तिते राक्षस अधमे । यस्य अपराधान् नीचस्य वधम् द्रक्ष्यामि रक्षसाम् ।। ६-३८-६ एको हि कुरुते पापम् काल पाज़ वज़म् गतः । नीचेन आत्म अपचारेण कुलम् तेन विनज़्यति ।। ६-३८-७ एवम् सम्मन्त्रयन्न् एव सक्रोधो रावणम् प्रति । रामह् सुवेलम् वासाय चित्र सानुम् उपारुहत् ।। ६-३८-८ पृष्ठतो लक्ष्मण च एनम् अन्वगच्चत् समाहितः । सज़रम् चापम् उद्यम्य सुमहद् विक्रमे रतः ।। ६-३८-९ तम् अन्वरोहत् सुग्रीवह् सामात्यह् सविभीषणह् । हनूमान् अन्गदो नीलो मैन्दो द्विविद;एव च ।। ६-३८-१० गजो गव अक्षो गवयह् ज़रभो गन्ध मादनह् । पनसह् कुमुदज़् चैव हरो रम्भज़् च यूथपह् ।। ६-३८-११ जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः । दुर्मुखश्च महातेजास्तथा शतबलिः कपिः ।। ६-३८-१२ एते च अन्ये च बहवो वानराह् ज़ीघ्र गामिनह् । ते वायु वेग प्रवणास् तम् गिरिम् गिरि चारिणह् ।। ६-३८-१३ अध्यारोहन्त ज़तज़ह् सुवेलम् यत्र राघवह् । ते त्व् अदीर्घेण कालेन गिरिम् आरुह्य सर्वतह् ।। ६-३८-१४ ददृज़ुह् ज़िखरे तस्य विषक्ताम् इव खे पुरीम् । ताम् ज़ुभाम् प्रवत द्वाराम् प्राकार वर ज़ोभिताम् ।। ६-३८-१५ लन्काम् राक्षस सम्पूर्णाम् ददृज़ुर् हरि यूथपाह् । प्राकार चय संस्थैज़् च तथा नीलैर् निज़ा चरैह् ।। ६-३८-१६ ददृज़ुस् ते हरि ज़्रेष्ठाह् प्राकारम् अपरम् कृतम् । ते दृष्ट्वा वानराह् सर्वे राक्षसान् युद्ध कान्क्षिणह् ।। ६-३८-१७ मुमुचुर् विपुलान् नादांस् तत्र रामस्य पज़्यतह् । ततो अस्तम् अगमत् सूर्यह् संध्यया प्रतिरन्जितह् ।। ६-३८-१८ पूर्ण चन्द्र प्रदीपा च क्षपा समभिवर्तते । ततः स रामो हरि वाहिनी पतिर् । विभीषणेन प्रतिनन्द्य सत्कृतः । सलक्ष्मणो यूथप यूथ सम्वृतः । सुवेल पृष्ठे न्यवसद् यथा सुखम् ।। ६-३८-१९
एकोनचत्वारिंशः सर्गः ॥६-३९॥
सम्पाद्यताम्ताम् रात्रिम् उषितास् तत्र सुवेले हरि पुम्गवाः । लन्कायाम् ददृशुर् वीरा वनान्य् उपवनानि च ।। ६-३९-१ सम सौम्यानि रम्याणि विशालान्य् आयतानि च । दृष्टि रम्याणि ते दृष्ट्वा बभूवुर् जात विस्मयाः ।। ६-३९-२ चम्पक अशोक पुम्नाग साल ताल समाकुला । तमाल वन संचन्ना नाग माला समावृता ।। ६-३९-३ हिन्तालैर् अर्जुनैर् नीपैः सप्त पर्णैश् च पुष्पितैः । तिलकैः कर्णिकारैश् च पटालैश् च समन्ततः ।। ६-३९-४ शुशुभे पुष्पित अग्रैश् च लता परिगतैर् द्रुमैः । लन्का बहु विधैर् दिव्यैर् यथा इन्द्रस्य अमरावती ।। ६-३९-५ विचित्र कुसुम उपेतै रक्त कोमल पल्लवैः । शाद्वलैश् च तथा नीलैश् चित्राभिर् वन राजिभिः ।। ६-३९-६ गन्ध आढ्यान्य् अभिरम्याणि पुष्पाणि च फलानि च । धारयन्त्य् अगमास् तत्र भूषणानि इव मानवाः ।। ६-३९-७ तच् चैत्र रथ सम्काशम् मनोज्नम् नन्दन उपमम् । वनम् सर्व ऋतुकम् रम्यम् शुशुभे षट्पद आयुतम् ।। ६-३९-८ नत्यूह कोयष्टि भकैर् नृत्यमानैश् च बर्हिभिः । रुतम् पर भृतानाम् च शुश्रुवे वन निर्झरे ।। ६-३९-९ नित्य मत्त विहम्गानि भ्रमर आचरितानि च । कोकिल आकुल षण्डानि विहग अभिरुतानि च ।। ६-३९-१० भृन्ग राज अभिगीतानि भ्रमरैः सेवितानि च । कोणालक विघुष्टानि सारस अभिरुतानि च ।। ६-३९-११ विविशुस् ते ततस् तानि वनान्य् उपवनानि च । हृष्टाह् प्रमुदिता वीरा हरयः काम रूपिणः ।। ६-३९-१२ तेषाम् प्रविशताम् तत्र वानराणाम् महा ओजसाम् । पुष्प संसर्ग सुरभिर् ववौ घ्राण सुखो अनिलः ।। ६-३९-१३ अन्ये तु हरि वीराणाम् यूथान् निष्क्रम्य यूथपाः । सुग्रीवेण अभ्यनुज्नाता लन्काम् जग्मुः पताकिनीम् ।। ६-३९-१४ वित्रासयन्तो विहगांस् त्रासयन्तो मृग द्विपान् । कम्पयन्तश् च ताम् लन्काम् नादैः स्वैर् नदताम् वराः ।। ६-३९-१५ कुर्वन्तस् ते महा वेगा महीम् चारण पीडिताम् । अजश् च सहसा एव ऊर्ध्वम् जगाम चरण उद्धतम् ।। ६-३९-१६ ऋक्षाः सिम्हा वराहाश् च महिषा वारणा मृगाः । तेन शब्देन वित्रस्ता जग्मुर् भीता दिशो दश ।। ६-३९-१७ शिखरम् तु त्रिकूटस्य प्रांशु च एकम् दिवि स्पृशम् । समन्तात् पुष्प संचन्नम् महा रजत सम्निभम् ।। ६-३९-१८ शत योजन विस्तीर्णम् विमलम् चारु दर्शनम् । श्लक्ष्णम् श्रीमन् महच् चैव दुष्प्रापम् शकुनैर् अपि ।। ६-३९-१९ मनसा अपि दुरारोहम् किम् पुनः कर्मणा जनैः । निविष्टा तत्र शिखरे लन्का रावण पालिता ।। ६-३९-२० दशयोजनविस्तीर्णा विंशद्योजनमायता । सा पुरी गोपुरैर् उच्चैः पाण्डुर अम्बुद सम्निभैः । कान्चनेन च सालेन राजतेन च शोभिता ।। ६-३९-२१ प्रासादैश् च विमानैश् च लन्का परम भूषिता । घनैर् इव आतप अपाये मध्यमम् वैष्णवम् पदम् ।। ६-३९-२२ तस्याम् स्तम्भ सहस्रेण प्रासादः समलम्कृतः । कैलास शिखर आकारो दृश्यते खम् इव उल्लिखन् ।। ६-३९-२३ चैत्यः स राक्षस इन्द्रस्य बभूव पुर भूषणम् । शतेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते ।। ६-३९-२४ मनोज्ञाम् काञ्चनवतीम् सर्वतैरुपशोभिताम् । नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ।। ६-३९-२५ नानाविहगसम्घष्टाम् नानामृगनिषेविताम् । नानाकुसुमसंपन्नाम् नानाराक्षससेविताम् ।। ६-३९-२६ ताम् समृद्धाम् समृद्ध अर्थो लक्ष्मीवाम्ल् लक्ष्मण अग्रजः । रावणस्य पुरीम् रामो ददर्श सह वानरैः ।। ६-३९-२७ ताम् महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः । नगरीं त्रिदिवप्रख्यां विस्मयं प्राप वीर्यवान् ६-३९-२८ ताम् रत्न पूर्णाम् बहु सम्विधानाम् । प्रासाद मालाभिर् अलम्कृताम् च । पुरीम् महा यन्त्र कवाट मुख्याम् । ददर्श रामो महता बलेन ।। ६-३९-२९
चत्वारिंशः सर्गः ॥६-४०॥
सम्पाद्यताम्ततो रामः सुवेलाग्रं योजनद्वयमण्डलम् | उपारोहत्ससुग्रीवो हरियूथैः समन्वितः || ६-४०-१ स्थित्वा मुहूर्तं तत्रैव दिशो दश विलोकयन् | त्रिख़ूटशिखरे रम्ये निर्मितां विश्वकर्मणा || ६-४०-२ ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् | तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् || ६-४०-३ श्वेतचामरपर्यन्तं विजयच्चत्रशोभितम् | रक्तचन्दनसंलिप्तं रक्ताभरणभूषितम् || ६-४०-४ वीलजीमूतसंकाशं हेमसंचादिताम्बरम् | ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् || ६-४०-५ शशलोहितरागेण सम्वीतं रक्तवाससा | संध्यातपेन संचन्नं मेघराशिमिवाम्बरे || ६-४०-६ पश्यतां वानरेन्द्राणाम् राघवस्यापि पश्यतः | दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः || ६-४०-७ क्रोधवेगेन सं युक्तः सत्त्वेन च बलेन च | अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले || ६-४०-८ स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना | तृणीकृत्य च तद्रक्षः सोऽब्रवीत्परुषं वचः || ६-४०-९ लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस | न मया मोक्यसे.द्य त्वं पार्थिवेन्द्रस्य तेजसा || ६-४०-१० इत्युक्त्वा सहसोत्पत्य प्लुप्लुवे तस्य चोपरि | आकृष्य मुकुटं चित्रं पातयामास तद्भुवि || ६-४०-११ समीक्स्य तूर्णमायान्तं बभाषे तं निशाचरः | सुग्रीवस्त्वं परोक्षे मे हीनग्रीवो भविष्यसि || ६-४०-१२ इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले | कन्दुवत्स समुत्थाय बाहुभ्यामाक्षिपद्धरिः || ६-४०-१३ परस्परं स्वेदविदिग्धगात्रौ | परस्परम् शोणितरक्तदेहौ | परस्परं श्लिष्टनिरुद्धचेष्टौ | परस्परं शाल्मलिकिंशुकाविव || ६-४०-१४ मुष्टिप्रहारैश्च तलप्रहारै | ररत्निघातैश्च कराग्रघातैः | तौ चक्रतुर्युद्धमसह्यरूपं | महाबलौ राक्षसवानरेन्द्रौ || ६-४०-१५ कृत्वा नियुद्धं भृशमुग्रवेगौ | कालं चिरं गोपुरवेदिमध्ये | उत्क्षिप्य चोत्क्षिप्य विनम्य देहौ | पादक्रमाद्गोपुरवेदिलग्नौ || ६-४०-१६ अन्योन्यमापीड्य विलग्नदेहौ | तौ पेतुतुः पालनिखातमध्ये | उत्पेततुर्भूमितलम् स्पृशन्तौ | स्थित्वा मुहूर्तं त्वभिनिःश्वसन्तौ || ६-४०-१७ आलिङ्ग्य चालिङ्ग़्य च बाहुयोक्त्रैः | संयोजयामासतुराहवे तौ | सम्रम्भशिक्षाबलसम्प्रयुक्तौ | सुचेरतुः सम्प्रति युद्धमार्गे || ६-४०-१८ शार्दूलसिंहविव जातदंष्ट्रौ | गजेन्द्रपोताविव संप्रयुक्तौ | संहत्य संवेद्य च तौ कराभ्यां | तऊ पेतुतुर्वै युगपद्धरायाम् || ६-४०-१९ उद्यम्य चान्योन्यमधिक्षिपन्तौ | संचक्रमाते बहु युद्धमार्गे | व्यायामशिक्षाबलसंप्रयुक्तौ | क्लमं न तौ जग्मतुराशु वीरौ || ६-४०-२० बाहुत्तमैर्वारणवारणाभै | र्निवारयन्तौ परवारणाभौ| चिरेण कालेन भृशं प्रयुद्धौ | संचेरतुर्मण्डलमार्गमाशु || ६-४०-२१ तौ परस्पर मासाद्य यत्तावन्योन्यसूदने | मार्जाराविव भक्षार्थेऽवतस्थाते मुहुर्मुहुः || ६-४०-२२ मण्डलानि विचित्राणि स्थानानि विविधानि च | गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च || ६-४०-२३ तीर्शीनगतान्येव तथा वक्रगतानि च | परिमोक्षं प्रहाराणां वर्जनं परिधावनम् || ६-४०-२४ अभिद्रवणमाप्लावमवस्थानं सविग्रहम् | परावृत्तमपावृत्तमपद्रुतमवप्लुतम् || ६-४०-२५ उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ | तौ विचेरतुर्न्योन्यं वानरेन्द्रश्च रावणः || ६-४०-२६ एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः | आरब्दुमुपसम् पेदे ज्ञात्वा तम् वानराधिपः || ६-४०-२७ उत्पपात तदाकाशं जितकाशी जितक्लमः | रावणः स्थित एवात्र हरिराजेन वञ्चितः || ६-४०-२८ अथ हरिवरनाथः प्राप्तसंग्रामकीर्ति | र्निशिचरपतिमाजौ योजयित्वा श्रमेण | गगनमतिविशालं लङ्घयित्वार्कसूम | र्हरिगणबलमध्ये रामपार्श्वं जगाम् || ६-४०-२९ स इति सवितृसूनुस्तत्र तत्कर्म कृत्वा | पवनगतिरनीकं प्राविशत्संप्रहृष्टः | रघुवरनृपसूनोद्वर्धयन् युद्धहर्षं | तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः || ६-४०-३०