येनेदं सर्वं विजानाति...

येनेदं सर्वं विजानाति तं केन विजानीयात् ? विज्ञातारमरे केन विजानीयात् ? - बृहदारण्यकोपनिषत् २-४-१४

येन इदं सर्वं विजानाति लोकः, तम् आत्मानं केन विजानीयात् ?

अरे मैत्रेयि, विज्ञातारं केन कथं वा जीवः विजानीयात् ?

वेदान्तेषु आत्मनः ‘वेदिता’ इति नाम विद्यते । वेत्ति इति वेदिता । ज्ञाप्तिस्वरूपस्य आत्मनः संनिधानेनैव प्रमाणानि
उपयुज्य वयं प्रमेयान् जानीमः । आत्मनः सांनिध्याभावे अस्य जडस्य देहस्य नास्ति किञ्चिदपि ज्ञानसामर्थ्यम् ॥
प्रमाणानि इति इन्द्रियमनोबुद्धिरूपाणि करणानि, प्रमेयाः इति शब्दादयो विषयाः, प्रमाता नाम द्र्ष्टा श्रोता इत्यादिरूपः ।
एतेषां त्रयाणामपि प्रकाशकः आत्मा । अस्यैव आत्मनः नाम विज्ञाता इति । अयमेव सर्वमपि प्रकाशयति । अस्य विज्ञातुः
न कोऽपि विज्ञाता अन्यो अस्ति । ज्ञप्तिस्वरूपमेव सन्तम् आत्मानं न कोऽपि विषयीकृत्य जानीयात् । प्रमातृप्रमाणप्रमेयानां
मूलमेव हि आत्मा साक्षिस्वरूपः । तं चैतन्यस्वरूपमेव आत्मानं जानीयात् ॥