येन अहं न अमृता स्याम्...

येन अहं न अमृता स्याम्, किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहि इति ॥ - बृहदारण्यकोपनिषत् २-४-३

अहं येन धनेन अमृता न स्याम्, तेन किं कुर्याम् ?
अमृतत्वसाधनम् इति यदेव भगवान् जानाति, तदेव
मे भवान् ब्रवीतु ।

मैत्रेयी इदं वचः वदति । एषा याज्ञवल्क्यमहर्षेः प्रिया
पत्नी । “सकलसौभाग्यसम्पद्भिरपि सम्पूर्णाभिः अमृतत्वं
न लभ्यते” इति याज्ञवल्क्येन उक्तं वाक्यं श्रुत्वा बुद्धिमती
मुमुक्षुः मैत्रेयी स्वभर्तारं याज्ञवल्क्यं महर्षिं प्रति इदं
वचः ब्रवीति ॥

मुक्तिरेव मानवजन्मनः परं लक्ष्यं इति सिद्धे सति
मुक्ति साधनभूता आत्मविद्या एव मया प्रार्थ्यते, न
तु इतराः भोगसम्पदः मुक्तेः असाधनभूताः इति उक्त्वा
विषयभोगान् सा तिरस्करोति । इयमेव खलु भारतीया
संस्कृतिः ? अयमेव भारतीयसंस्कृतेः महिमा नाम ।
दम्पत्योः कीदृशः समानः संस्कारः ! कीदृशः आदर्शः !
मैत्रेयीगार्गीप्रभृतयः एता हि अस्मदीयभारतराष्ट्रस्य
स्त्रियो नाम । अहो ! भारतीयस्रीरत्नानि इमाः ।