ध्यायतीव लेलायतीव

योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः ….ध्यायतीव लेलायतीव । - बृहदारण्यकोपनिषत् ४-३-७

यः प्राणेषु विज्ञानमयः, हृदि अन्तर्ज्योतिः पुरुषः, स एव आत्मा । स
ध्यायति ‘इव’ लेलायति ‘इव’ च दृश्यते ॥

‘कोऽसौ आत्मा’ इति जनकराजप्रश्नस्य उत्तरत्वेन याज्ञवल्क्यस्य वचनमिदम् ।
प्राणेषु विज्ञानमय एव आत्मा । सर्वाणि इन्द्रियाणि संव्याप्य, इन्द्रियाणां
चैतन्याधायकः, इन्दियाणां प्रकाशकः, स्वयं तु इन्द्रियविलक्षणः यः स एव
आत्मा । स्वयंज्योतिः अयमात्मा । परंज्योतिरयमात्मा । अस्य आत्मनः
अनुग्रहादेव सर्वाणीन्द्रियाणि जीवन्ति ॥

आत्मन एव इन्द्रियाणि जीवन्ति । आत्मा तु हृद्यन्तः चैतन्यस्वरूपः ।
अयमात्मा ब्रह्मैव । परमेव ब्रह्म । अयमात्मा ध्यायति इव, लेलायति इव
च अवभासते । ध्यायति ‘इव’, न तु ध्यायति ‘एव’; लेलायति ‘इव’, न तु
लेलायति ‘एव’ । अयमात्मा जानाति इव, करोति इव च दृश्यते, न तु
परमार्थतः आत्मनि क्रिया वा विक्रिया वा सम्भवति । आत्मनः महिमा खल्वेषः ।

"https://sa.wikiquote.org/w/index.php?title=योऽयं_विज्ञानमयः...&oldid=16527" इत्यस्माद् प्रतिप्राप्तम्