यो अशनायापिपासे शोकं मोहं जरां मृत्युम् अत्येति । - बृहदारण्यकोपनिषत् ३-५-१

यः अशनायापिपासे शोकं मोहं जरां मृत्युम् अत्येति, स एव सर्वान्तरः आत्मा ।

आत्मा षडूर्मिरहितः असंसारी इति उपनिषदः प्रतिपादयन्ति । षडूर्मयो नाम समुद्रस्य ऊर्मय इव षड् विकाराः ।
ते षड् विकारास्तु – अशनाया (अत्तुम् इच्छा), पिपासा (पातुम् इच्छा), शोकः (दुःखम्), मोहः (अज्ञानम्),
जरा (वार्धक्यम्), मृत्युः (मरणम्) च । समुद्रस्य वीचय इव एते विकाराः जीवानां पुनः पुनः भवन्तीति षडूर्मयः ॥

षडूर्मयः नात्मनो भवन्ति । आत्मा हि निरुपाधिकं सर्वान्तरं ब्रह्मैव । तर्हि षडूर्मयः कस्य ? उपाधीनामेव ।
अशनायापिपासे प्राणस्य, शोकमोहौ मनसः, जरामरणे तु देहस्य । उपाधिधर्माः आत्मनो न भवन्ति । यतः
परिपूर्णः आत्मा नित्यशुद्धनित्यबुद्धनित्यमुक्तस्वरूपः निरवयवः निरुपाधिकश्च ॥

"https://sa.wikiquote.org/w/index.php?title=यो_अशनायापिपासे...&oldid=16522" इत्यस्माद् प्रतिप्राप्तम्