यो वा एतदक्षरं गार्गि...

कर्मफलानि सर्वाण्यपि अनित्यान्येव

यो वा एतदक्षरं गार्गि अविदित्वा अस्मिन् लोके जुहोति यजते…
अन्तवदेव अस्य तद्भवति । - बृहदारण्यकोपनिषत् ३-८-१०

हे गार्गि, एतदक्षरम् अविदित्वा यो मानवः, अस्मिन् लोके जुहोति,
यजते वा तत् तस्य अन्तवदेव भवति ।

आत्मैव अक्षरम्, अविनाशि परब्रह्मैव अक्षरम् । एतादृश आत्मविदेव
आत्मज्ञानी भवति । एतस्माद् आत्मज्ञानादेव संसारनिवृत्तिः मुक्तिप्राप्तिश्च ।
एतमात्मानं विदित्वैव मानवजन्म सार्थकं भवति, नान्यथा । आत्मज्ञानम्
एकं विहाय सर्वस्मिन् इतरस्मिन् वस्तूनि ज्ञाते, कृते, प्राप्तेऽपि तत्
सर्वम् अनित्यमेव ॥

आत्मज्ञानम् अप्राप्य केवलं देवताराधनतत्परमात्रेण कृतार्थो न भवति ।
शास्त्रोक्तैः होमहवनयज्ञयागदानतप आदिभिः साधनैः यथाविधि
अनुष्ठितैरपि, तावन्मात्रेण मुक्तिः प्राप्यते किम् ? नैव प्राप्यते ।
शास्त्रीयकर्मभिः समनुष्ठितैः तानि तानि फलानि लभ्येरन् । तानि
कर्मफलानि तु अन्तवन्ति, अनित्यान्येव भवन्ति इत्येतत् ज्ञानिपुङ्गवस्य
याज्ञवल्क्यमहर्षेः धीरोद्गारः ॥