यो वा एतदक्षरं गार्गि विदित्वा...

यो वा एतदक्षरं गार्गि विदित्वा अस्मात् लोकात् प्रैति स ब्राह्मणः । - बृहदारण्यकोपनिषत् ३-८-१०

हे गार्गि, यः एतदक्षरं विदित्वा अस्मात् लोकात् प्रैति स एव अन्वर्थब्राह्मणः ।

वेदान्तेषु ब्राह्मणो नाम ब्रह्मज्ञानी एव । ब्रह्म जानाति इति ब्राह्मणः । पूर्वजन्मसु कृताभ्यां पुण्यपापाभ्यां हि इदानीं
मानवत्वेन जातोऽस्ति । मनोः वंशे जातो हि मानवः । मानवस्यैव मनुष्यः, नरः इति नामान्तरम् । मानवाय हि
भगवान् बुद्धिसामर्थ्यंविचारयोग्यतां च अनुगृहीतवान् अस्ति । जातस्य मानवस्य मरणं निश्चितमेव । अतः जातोऽयं
मानवः नाशरहितं निरुपाधिकम् अजम् अक्षरं विदित्वा अन्वर्थो ब्राह्मणो भवति ॥

नाशरहितं परिणामरहितम् अपरिच्छिन्नम् अक्षरम् आत्मत्वेन जानन्नेव ब्राह्मणो भवति । मरणात् पूर्वमेव, जीवन्नेव
यो वै एतत् आत्मतत्त्वं जानाति स एव ब्राह्मणः, सत्यं ब्राह्मण एवासौ । सर्वेणापि सुसम्पाद्यं ह्येतत् ब्राह्मण्यम् । सर्वेषां
मानवानाम् आजन्मसिद्धः अधिकारोऽयम् । एतदक्षरम् आत्मत्वेन विज्ञाय सर्वेऽपि वयम् अन्वर्थाः ब्राह्मणा भवेम किम् ?