सुभाषितम्

यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ॥




तात्पर्यम्

तारुण्यं, सम्पत्तिः, अधिकारः, अविवेकिता - एतेषु एकैकः अपि अनर्थाय भवति । एते चत्वारि अपि एकस्मिन् जने यदि भवेयुः तर्हि तस्य का गतिः ? (ते जनं पूर्णतया विनाशयन्ति ।)

"https://sa.wikiquote.org/w/index.php?title=यौवनं_धनसम्पत्तिः...&oldid=15144" इत्यस्माद् प्रतिप्राप्तम्