य एषोऽक्षिणि पुरुषो दृश्यते...

य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मा इति होवाच, एतदमृतम् अभयम् एतद् ब्रह्मेति । - छान्दोग्योपनिषत् ४-१५-१

चक्षुषि यः पुरुषो दृश्यते एष एव आत्मा इति होवाच । एषः अमृतः, एष एव अभयः; अयमेव च पुरुषो ब्रह्म ॥

अस्या विद्यायाः अक्षिपुरुषविद्या इति नाम । चक्षुषि दृश्यमानमेव पुरुषम् अत्र आत्मा इति उपदिशति अयं मन्त्रः । ब्रह्मचर्यम्,
अहिंसा, इन्द्रियनिग्रहः, शमदमादिसाधनैः युक्तानाम् उपासकानाम् अस्मिन् चक्षुषि आत्मदर्शनं भवति । उपासकाः अक्षिस्थं
पुरुषमेव ब्रह्म इति उपासते ॥

विवेकिनः आत्मज्ञानिनश्च चक्षुषोऽपि चक्षुर्भूतं चिन्मात्रस्वरूपम् आत्मानं पश्यन्ति । नायमात्मा प्रतिबिम्बरूपः छायात्मा । एषः ब्रह्मैव ।
केनोपनिषदि अयमेव आत्मा 'श्रोत्रस्य श्रोतम्, मनसो मनः, वाचो ह वाचम्' इति उपदिष्टोऽस्ति । अयमेव आत्मा इन्द्रियाणां मनसश्च
आत्मा सन् अमृतः अभयश्च ब्रह्मैव च भवति । अयमेव आत्मा अत्र मन्त्रे अक्षिपुरुषत्वेन उपदिश्यते । य एवंवित् सः अमृतो भवति ॥