रजनीशः
आचार्यः रजनीशः (११ डिसेम्बर् १९३१ - १९ जनवरी १९९०) कश्चन भारतीयाध्यात्मगुरुः । सः ओशो इत्यपि ख्यातनामा आसीत् । स्वीयेन विवादात्मकेन अध्यात्मान्दोलनेन भारत-अमेरिका-नेदर्लेण्ड्-जर्मनिप्रभृतिषु देशेषु सः बहून् जनान् प्रेरितवान् । सः ध्यान-जागरण-प्रेम-उत्सव-उत्साह-सर्जन-हास्यादयः ये गुणाः धार्मिकपरम्परासु सामाजिकसम्मिलनेषु च उपसंहृताः सन्ति तेषां गुरुत्वं प्रतिपादितवान् ।
अमृतवचनानि
सम्पाद्यताम्- परमजाग्रदवस्था सर्वेण प्राप्तव्या । तदेव झेन् । प्रतिदिनं केचन निमेषाः अर्धदिनं वा कृत्वा विस्मर्तुं योग्यं किञ्चन न तत् । भवतः हृदयस्पन्दः इव भवेत् तत् । तस्मिन् भवता उपवेष्टव्यं, तस्मिन् भवता चलनीयम् । आम्, तस्मिन्नेव भवता शयनीयम् ।
- Walking in Zen, Sitting in Zen (1982) ISBN 0880506687
- मया क्रियमाणं विनष्टं न स्यात् इति मम इच्छा । अतः भूतकाले यानि बन्धनानि क्रान्तेः वर्धनस्य च मारकाः आसन् तेषाम् अपसारणाय सर्वविधप्रयत्नं कुर्वन् अस्मि । व्यक्ति-अस्तित्वयोः मध्ये कोपि न तिष्ठेत् । न कापि प्रार्थना, न वा अर्चकः...सूर्योदयस्य सम्मुखीकरणे भवता एकेन अलं, सूर्योदयस्य सौन्दर्यम् अन्येन वर्णनीयं नास्ति...। एषा मम दृष्टिः - भवान् अत्र अस्ति, सर्वा व्यक्तिः अत्र विद्यते, समग्रा अस्मिता उपलभ्यते । भवता करणीयम् एतावदेव - मौनेन अस्मिता श्रोतव्या । कस्यापि मतस्य आवश्यकता न विद्यते, कस्यापि देवस्य, पौरोहित्यस्य, सङ्घटनस्य वा आवश्यकता न विद्यते । अहं व्यक्तौ विश्वसिमि । अद्यावधि व्यक्तौ एवं विश्वासः केनापि न कृतः ।
- The Last Testament : Interviews with the World Press (1986)
- प्रीतिः का इति कोपि भवन्तं न पाठयति । प्रीतिः भवता स्वयमेव अन्वेष्टव्या, प्रज्ञास्तरस्य उन्नयनेन अन्तः एव अन्वेष्टव्या । यत्र प्रीतिः तत्र उत्तरदायित्वस्य अस्तित्वं न विद्यते । यस्मिन् जने भवतः प्रीतिः स्यात् तन्निमित्तं भवान् सर्वं करोति यतः तस्मात् भवान् सन्तोषं प्राप्नोति । भवान् तस्य साहाय्यम् आचरन् नास्ति, प्रतिफलमपि न निरीक्षते, न वा कार्तज्ञ्यम् । प्रत्युत किञ्चित् कर्तुं तेन अनुमतमित्येव भवान् कृतज्ञताम् अनुभवति । सः भवतः सन्तोषः । प्रीतौ उत्तरदायित्वं न विद्यते । तया बहु क्रियते, सा नितरां सर्जनशीला, सर्वं संविभजते, किन्तु तत् उत्तरदायित्वरूपेण नैव, स्मर्यताम् । प्रीतौ उत्तरदायित्वम् इत्येतत् न विद्यते । प्रीतिः स्वाभाविकी । उत्तरदायित्वम् इत्येतत् देवस्य, देशस्य, कुटुम्बस्य, धर्मस्य नाम्ना शासनाय धूर्तैः पुरोहितैः राजनैतिकजनैः सृष्टमस्ति । किन्तु ते प्रीतेः विषये न कथयन्ति । प्रत्युत ते सर्वे प्रीतेः विरोधिनः यतः ते प्रीतिं निग्रहीतुं नार्हन्ति । प्रीतियुक्तः जनः स्वस्य हृदयानुसारं व्यवहरति, न तु नीतिनियमानुसारम् । प्रीतिपूर्णः जनः सेनां न प्रविशति यतः देशाय युद्धकरणं न तस्य दायित्वम् । सः वदति - मम कोपि देशः नास्ति, अतः युद्धस्य प्रश्नः एव नास्ति इति ।
- Sat Chit Anand
- या कापि प्रापञ्चिकक्रिया ध्यानपरा भवितुम् अर्हति । आरामे गर्तखननं स्यात्, पाटलसस्यस्य आरोपणं स्यात् - बुद्धस्य कराभ्यां कृतं चेत् यथा स्यात् तावत्या असीमप्रीत्या अनुकम्पया च भवान् कर्तुम् अर्हति । अत्र वैरुद्ध्यं न विद्यते... मया उच्यते यत् भवदीया सर्वा क्रिया उत्सवसदृशी स्यात् । भवतः प्रज्ञा, जागरणं, मेधा च क्रियया योज्येत, भवान् उत्स्फूर्तः यदि स्यात् तर्हि कस्यापि धर्मस्य आवश्यकता न भविष्यति: जीवनमेव धर्मरूपं प्राप्नोति ।
- Hyakujo: The Everest of Zen
- मम समग्रं बोधनं शब्दद्वये निहितम्, ध्यानं प्रीतिश्च । मौनम् अनुभोक्तुं ध्यानं क्रियताम्, भवदीयं जीवनं गीतं, नृत्यम् उत्सवो बा भवेत् इति चेत् प्रेमी भवतु । एतयोः मध्ये भवता सञ्चरणीयम्, सञ्चारः सुलभः, प्रयत्नरहितः यदि भवेत् तर्हि जीवनस्य महत्त्वपूर्णः अंशः भवता अधिगतः इत्येव ।
- Come, Come, Yet Again Come
- वास्तविको भव - चमत्कारः प्रतीक्ष्यताम् ।
- Ancient Music in the Pines
- कौतुकानि भवत्पुरतः प्रकाश्येरन् चेत् विस्मितः सन् तिष्ठतु । यः निरन्तरं प्रश्नान् पृच्छेत् तत्पुरतः कौतुकानि अनावृतानि न भवन्ति । प्रच्छकाः ग्रन्थालये बद्धाः भवन्ति । शास्त्रग्रन्थस्य प्राप्त्या ते तुष्टाः भवन्ति यतः शास्त्रग्रन्थः उत्तरैः सम्पूरितः अस्ति । उत्तराणि भवन्ति अपायकराणि यतः ततः कौतुकं हतं भवति ।
- सर्वकालीनाः सर्वे अपि बुद्धाः इदमेव सरलं विषयं कथयन्ति - 'भव - भवितुं प्रयत्नं मा कुरु' इति ।
- सर्वकालीनाः सर्वे बुद्धाः अपि एकमेव सरलं सत्यं वदन्तः सन्ति - स्वस्वरूपे तिष्ठतु । केनचित् भवितुं प्रयत्नं मा करोतु - इति । स्वस्वरूपं प्रयत्नः - इत्येतस्मिन् शब्दद्वये एव समग्रं जीवनं विद्यते । स्वरूपे स्थितिः मुक्तिः, भवनप्रयत्नः अज्ञानम् ।
- The Book of Wisdom