रथ्यानाम् महामार्गः । रात्रिसमये कोऽपि रथ्यायां हस्ते दीपं गृहीत्वा चलति चेत् आदौ दीपस्य प्रकाशः अग्रे किञ्चिद् दूरं यावत् प्रसरति परन्तु यदा सः जनः अग्रे चलति दीपस्य प्रकाशः अपि अग्रे गच्छेत् । पृष्ठतः अन्धकारः अपि तत् स्थलं व्याप्य तेन सह आगच्छेत् । प्रकाश – अन्धकारयोः इयं क्रीडा मनुष्यजीवनस्य सुख दुःखक्रीडां द्योतयति इति भावः ।(सा. ५६५)

"https://sa.wikiquote.org/w/index.php?title=रथ्यादीपन्यायः&oldid=10984" इत्यस्माद् प्रतिप्राप्तम्