रदा पूषेव न सनिम् ॥
रदा पूषेव न सनिम् ॥ (ऋग्वेदः ६-६१)
सम्पाद्यताम्संविभागः पोषकं भवतु ।
- समग्रस्य जीवराशेः सर्वेषाम् आवश्यकतानां पूरणाय यद्यद् अपेक्षितं तत्सर्वं निश्शुल्कं यथेष्टं च दत्तवान् अस्ति सः भगवान् । तेन भगवता दत्तायाः सम्पदस्य रक्षणे, वर्धने, संविभागे एव वस्तुतः समस्या विद्यते ! स्वार्थेन, दुराशया च प्राकृतिकसम्पत्तेः निरन्तरं ह्रासः क्रियमाणः अस्ति अस्माभिः सर्वैः । अरण्यनाशः, पर्वतानां विनाशः, खनिजानां हरणं क्रियमाणमस्ति । वर्धनस्य प्रयत्नः कुत्रचित् प्रचलेत् चेदपि विनाशस्य वेगः सुमहान् वर्तते । संविभागस्य विषये यदि चिन्तयेम 'बलवान् एव महान्' इति ज्ञायते । एतादृशस्य संविभागस्य कारणतः जीविनां मध्ये अनावश्यकी स्पर्धा, सङ्ग्रामः, रक्तपातः, द्वेषः, असूया च परिदृश्यते । एते अस्माकं विनाशहेतवः भवन्ति न तु शान्तेः सहजीवनस्य पोषकाः । इयं प्रकृतिसम्पत्तिः सकलजीवराशेः स्वत्त्वम् । स्वस्य आवश्यकतानुगुणं संविभागः यदा भवेत् तदा सा सम्पत्तिः जीविनां रक्षणाय पोषणाय भवति । संविभागावसरे अनिश्चितस्य भविष्यतः निमित्तं रक्षणस्य दुर्बुद्धिः न भवेत् । अद्यैव समापनीयम् इति भोगलालसा अपि न स्यात् । सरलता, निष्कपटता, असङ्ग्रहजीवनं, स्वावलम्बिमनोवृत्तिश्च भवेत् ।