राजपुत्रव्याधन्यायः
एकदा एकं राजपुत्रं तस्य विमाता कुत्रचित् अरण्ये त्यक्तवती । तदा तम् एकः व्याधः रक्षित्चा पुत्रवत् पालितवान् । कालान्तरे केचन राजबान्धवाः तं परिचित्य ‘त्वं व्याधपुत्रः नासि राजपुत्रः असि’ इति उक्तवन्तः । तेषां वचनेन स्वस्य यथार्थस्वरुपं ज्ञात्वा सः आत्मनः क्षत्रियगुणान् प्राप्य कालेन राजा अभवत् । एवं मनुष्यः स्वरुपं यथार्थेन अज्ञात्वा बद्ध इव अज्ञाने जीवति परन्तु सद्गुरोः उपदेशेन स्वरुपं ज्ञात्वा सः मुक्तः भवति इति भावः ।