रामायणसूक्तयः (अनार्यमैत्री)
१. यथा पुष्करपत्रेषु पतितास्तोयबिन्दवः ।
- न श्लेषमभिगच्छन्ति तथानार्येषु सौहृदम् ॥ (युद्धकाण्डः १६/११)
२. यथा मधुकरस्तर्षात् काशपुष्पं पिबन्नपि ।
- रसमत्र न विन्देत तथानार्येषु सौहृदम् ॥ (युद्धकाण्डः १६/१४)
३. यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः ।
- दूषयत्यात्मनो देहं तथानार्येषु सौहृदम् ॥ (युद्धकाण्डः १६/१५)