रामायणसूक्तयः (कालः)
१. आत्मानमनुशोचस्त्वं किमन्यदनुशोचसि ।
- आयुस्तु हीयते यस्य स्थितस्यास्य गतस्य च ॥ (अयोध्याकाण्डः १०५/२१)
२. आत्मा सुखे नियोक्तव्यः सुख्भाजः प्रजाः स्मृताः । (अयोध्याकाण्डः १०५/३१)
३. अत्येति रजनी या तु सा न प्रतिनिवर्तते । (अयोध्याकाण्डः १०५/१९)
४. अहोरात्राणिम् गच्छन्ति सर्वेषां प्राणिनामिह ।
- आयूषिं क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ (अयोध्याकाण्डः १०५/२०)
५. एको हि कुरुते पापं कालपाशवशं गतः ।
- नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ (युद्धकाण्डः ३८/७)
६. ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
- रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ (सुन्दरकाण्डः ३६/३)
७. कालो हि दुरतिक्रमः । (अरण्यकाण्डः ६८/२१)
८. गतोदके सेतुवन्धो न कल्याणि विधीयते । (अयोध्याकाण्डः ९/५४)
९. गतं तु नानुशोचन्ति गतं तु गतमेव हि । (युद्धकाण्डः ६३/२५)
१०. गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः ।
- जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ (अयोध्याकाण्डः १०५/२३)
११. धर्मो वै ग्रसतेऽधर्मं यदा कृतमभूद् युगम् ।
- अधर्मो ग्रसते धर्मं यदा हिष्यः प्रवर्तते ॥ (युद्धकाण्डः ३५/१४)
१२. नात्मनः कामकारो हि पुरुषोऽयमनीश्वरः ।
- इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ (अयोध्याकाण्डः १०५/१५)
१३. न कालस्यातिभारोऽस्ति कृतान्तशच सुदुर्जयः । (युद्धकाण्डः ४८/१९)
१४. न नूनं दैवतं किंचित् कालेन् बलवत्तरम् । (अयोध्याकाण्डः ८८/११)
१५. नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमितेऽहनि ।
- आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ (अयोध्याकाण्डः १०५/२४)
१६. पचत्येनं तथा कालो भूतानां प्रभवोह्ययम् । (युद्धकाण्डः ३२/१३)
१७. यथाऽऽगारं दृढस्त्यूणं जीर्णं भूत्वोपसीदति ।
- तथावसीदन्ति नरा जरामृत्युवशंगताः ॥ (अयोध्याकाण्डः १०५/१८)
१८. यथा फलानां पक्वानां नान्यत्र पतनाद् भयम् ।
- यवं नरस्य जातस्य नान्यत्र मरणाद् भयम् ॥ (अयोध्याकाण्डः १०५/१७)
१९. शूराश्च बलवन्तश् कृतास्त्राश्च रणाजिरे ।
- कालाभिपन्ना सीदन्ति यथा बालुकसेतवः ॥ (अरण्यकाण्डः १९/५०)
२०. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छूयाः ।
- संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ (अयोध्याकाण्डः १०५/१६)