रामायणसूक्तयः (गुरुः)
१. गोब्राह्मणहितार्थाय देशस्य च हिताय च ।
- तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥ (बालकाण्डः २६/५)
२. पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।
- प्रज्ञां ददाति चाचार्यस्तस्मात् स गुरुरुच्यते ॥ (अयोध्याकाण्डः १११/३)
३. पुरुषस्येह जातस्य भवन्ति गुरवः सदा ।
- आचार्यश्चैव काकुत्स्थ पितामाता च राघवः ॥ (अयोध्याकाण्डः १११/२)
४. स्वर्गो धनं वा धान्यं वा विद्या पुत्राः सुखानि च ।
- गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम् ॥ (अयोध्याकाण्डः ३०/३६)