रामायणसूक्तयः (जाबालेः नास्तिकमतम्)

१. कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।

एको हि जायते जन्तुरेक एव विनश्यति ॥ (अयोध्याकाण्डः १०८/३)

२. गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ।

प्रवृत्तिरेषा भूतानां त्वं तु मिथ्या विहन्यसे ॥ (अयोध्याकाण्डः १०८/१२)

३. बीजमात्रं पिता जन्तोः शुक्रं शोणितमेव च ।

संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ (अयोध्याकाण्डः १०८/११)