रामायणसूक्तयः (जीवनम्)
१. एति जीवन्तमानन्दो नरं वर्षशतादपि । (सुन्दरकाण्डः ३४/६)
२. विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम् । (सुन्दरकाण्डः १३/४७)
३. सजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।
- राम तेन तु दुर्जीवं यः परानुपजीवति ॥ (अयोध्याकाण्डः १०५/७)