रामायणसूक्तयः (दण्डः)
१. अपराधिषु यो दण्डः पात्यते मानवेषु वै ।
- स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् ॥ (उत्तरकाण्डः ७९/९)
२. अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् ।
- पलायमानं मतं वा न हन्तुं त्वमिहार्हसि ॥ (युद्धकाण्डः ८०/३९)
३. अवध्यो ब्राह्मणो दण्डैरिति शास्त्रविदो विदुः । (उत्तरकाण्डः (प्रक्षिप्तः ) २/३४)
४. गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
- उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ (अयोध्याकाण्डः २१/२३)
५. दण्ड एव वरो लोके पुरुषस्येति मे मतिः ।
- धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ॥ (युद्धकाण्डः २२/४९)
६. सम्यक् प्रणिहिते दण्डे प्रजा भवति रक्षिता । (उत्तरकाण्डः (प्रक्षिप्तः ) २/३२)