रामायणसूक्तयः (दुःखम्)

१. न विषादे मनः कार्यं विषादो दोषवत्तरः ।

विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः ॥ (किष्किन्धाकाण्डः ६४/९)

२. पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः । (युद्धकाण्डः २/१३)

३. यो विषादं प्रसहते विक्रमे समुपस्थिते ।

तेजसा तस्य हीनस्य पुरुषार्थो न सिद्धयति ॥ (किष्किन्धाकाण्डः ६४/१०)

४. विनष्टे वा प्रणष्टे वा शोकः सर्वार्थनाशनः । (युद्धकाण्डः २/१५)

"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(दुःखम्)&oldid=2959" इत्यस्माद् प्रतिप्राप्तम्