१. असङ्कल्पितमेवेह यदकस्मात् प्रवर्तते ।

निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत् ।। (अयोध्याकाण्डः २२/२४)

२. ऋषयोऽप्युग्रतपसो दैवेनाभिप्रचोदिताः ।

उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥ (अयोध्याकाण्डः २२/२३)

३. कश्च दैवेन सौमित्रे योद्धमुत्सहते पुमान् ।

यस्य नु ग्रहणं किंचित् कर्मणोऽन्यन्न द्रुश्यते ॥ (अयोध्याकाण्डः २२/२१)

४. दैवमेव परं मन्ये पौरुषं तु निरर्थकम् । (बालकाण्डः ५८/२२)

५. दैवेनाक्रम्यते सर्वंहि परमा गतिः । (बालकाण्डः ५८/२३)

६. दैवं चेष्टयते सर्वं हतं दैवेन हन्यते । (युद्धकाण्डः ११०/२३)

७. दैवं हि दुरतिक्रमम् । (उत्तरकाण्डः ५०/४)

८. न मन्ये ब्रह्मचर्ये वा स्वधीते वा फलोदयः ।

मार्दवार्जवयोर्वापि त्वां चेद् व्यसनमागतम् ॥ (अयोध्याकाण्डः ५२/१७)

९. नूनं तु बलवाँल्लोके कृतान्तः सर्वमादिशन् ।

लोके रामाभिरामस्तवं वनं यत्र गमिष्यसि ॥ (अयोध्याकाण्डः २४/५)

१०. यदचिन्त्यं तु तद् दैवम् । (अयोध्याकाण्डः २२/२०)

११. यो हि देवान् सगन्धर्वानसुरान् सह राक्षसैः ।

निहन्याद् राघवः क्रुद्धः स दैवं पर्युपासते ॥

१२. यौ धर्मौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम् ।

आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥ (अरण्यकाण्डः ६६/११)

१३. सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।

यस्य किंचित् तथाभूतं ननु देवस्य कर्म तत् ॥ (अयोध्याकाण्डः २२/२२)

१४. सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ ।

न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः ॥ (अरण्यकाण्डः ६६/१२)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(दैवम्)&oldid=2968" इत्यस्माद् प्रतिप्राप्तम्