१. दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।

स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ (अयोध्याकाण्डः ११७/२४)

२. नगरस्थो वनस्थो वा शुभो वा यदि वाशुभः।

यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ (अयोध्याकाण्डः ११७/२३)

३. पतिशुश्रूषणानार्यास्तपो नान्यद् विधीयते । (अयोध्याकाण्डः ११८/९)

४. पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ।

प्राणैरपि प्रियं तस्माद् भर्तुः कार्यं विशेषतः ॥ (उत्तरकाण्डः ४८/१७)

५. भर्ता नाम परं नार्याः शोभनं भूषणादपि । (सुन्दरकाण्डः १६/२६)

६. भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते । (अयोध्याकाण्डः ३५/८)

"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(पतिः)&oldid=2986" इत्यस्माद् प्रतिप्राप्तम्