रामायणसूक्तयः (पराक्रमः)

१. अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते ।

तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥ (युद्धकाण्डः ९/८)

२. प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च ।

विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः ॥ (युद्धकाण्डः ९/९)

३. विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः ।

कथयन्ति न ते किञ्चित् तेजसा चातिगर्विताः ॥ (अरण्यकाण्डः २९/१७)

४. सर्वो हि तपसा देव वृणोत्यमरतां पुमान् । (उत्तरकाण्डः ३०/१५)