रामायणसूक्तयः (पापी)
१. अवश्यं लभते कर्ता पुलं पापस्य कर्मणः ।
- घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम् ॥ (अरण्यकाण्डः २९/८)
२. उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
- त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति ॥ (अरण्यकाण्डः २९/३)
३. कर्मलोकविरुद्धं तु कुर्वाणं क्षणदाचर ।
- तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम् ॥ (अरण्यकाण्डः २९/१४)
४. न चिरात् प्राप्यते लोके पापानां कर्मणां फलम् ।
- सविषणामिवानानां भुक्तानां क्षणदाचर ॥ (अरण्यकाण्डः २९/९)
५. न चिरं पापकर्मणः क्रूरा लोकजुगुत्सिताः ।
- ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः ॥ (अरण्यकाण्डः २९/७)