रामायणसूक्तयः (पितृवचनम्)
१. न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम् ।
- यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ (अयोध्याकाण्डः १९/२२)
२. पिता हि दैवतं तात देवतानामपि स्मृतम् ।
- तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः ॥ (अयोध्याकाण्डः ३४/५२)
३. पितुर्हि वचनं कुर्वन् न कश्चिन्नाम हीयते । (अयोध्याकाण्डः २१/३७)